विष्णुधर्मोत्तरपुराणम् · अध्याय 2.146.150
2.146
॥ राम उवाच ॥ ॥
सामभेदौ तथा प्रोक्तौ दानदण्डौ तथैव च ॥
दण्डः सुदेशे कथितः परदेशे ब्रवीहि मे
पुष्कर उवाच ॥।
द्विविधः कथितो दण्डः परदेशे पुरातनैः ॥
प्रकाशश्चाप्रकाशश्च तं निबोध द्विजोत्तम
लुण्ठनं ग्रामघातश्च सस्यघातस्तथैव च ॥
चतुरङ्गेण दण्डेन परेषां च तथा वधः
प्रकाशः कथितो दण्डः प्रत्यक्षं वह्निदीपनम् ॥
अप्रकाशो विषं वह्निर्गूढैश्च पुरुषैर्वधः
दूषणं यवसादीनामुदकानां च दूषणम् ॥
रसक्रियाश्च विविधाः सुभगा भेदनादिकम्
एवमादीनि कार्याणि परचक्रे महीक्षिता ॥
स्वराष्ट्रे च द्विजश्रेष्ठ दूषणं बलिनामपि
चत्वार एते कथिताभ्युपायाः प्राधानभूता भुवि पार्थिवानाम् ॥
अतः परं ते कथयामि राम शेषास्त्रयस्ते न मयेरिता ये
इति श्रीविष्णुधर्मार्त्तरे द्वितीयखण्डे मा० सं० दण्डप्रणयनवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः
।
2.147
पुष्कर उवाच ॥
अभिमन्येत नृपतिरनेन मम विग्रहे ॥
अनर्थायानुबन्धः स्यात्सन्धिना च तथा भवेत्
साम लज्जास्पदं चात्र दानं चात्र क्षयार्थकम् ॥
भेदे दण्डेऽनुबन्धः स्यात्तदा पक्षं समाश्रयेत्
अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् ॥
उपेक्षयैव धर्मज्ञ श्रेयसे तत्र सा स्मृता
उपेक्षया यत्र तु शक्यमर्थं क्षयव्यवाया समता न तत्र ॥
कार्यं भवेद्ब्राह्मणविग्रहेण लज्जास्पदेनाप्यथ सन्धिना वा
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उपेक्षावर्णनो नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः
2.148
पुष्कर उवाच ॥
उत्पातैरनृतैः कार्यं परस्योद्वीजनं नृपैः ॥
अरातिशिबिरस्यात्र वसतिर्यस्य पक्षिणः
स्थूलस्य तस्य पुच्छस्थां कृत्वोल्कां विपुलां द्विज ॥
विसृज्यैनं ततस्तीरमुल्कापातं प्रदर्शयेत्
अनेनैवात्र सारेण बुद्ध्या निश्चित्य यत्नतः ॥
उत्पातानि तथान्यानि दर्शनीयानि पार्थिवैः
उद्वेजनं तथा कुर्यात्कुहकैर्द्विविधैर्द्विषाम् ॥
संवत्सरानहार्षश्च नाशं ब्रूयुः परस्य च
जिगीषुः पृथिवी राज्ये तेन चोद्वेजयेत्परान् ॥
देवतानां प्रसादानि कीर्तनीयानि तस्य तु
स स्वप्नलाभांश्च तथा जिगीषुः प्रतिकीर्तयेत् ॥।
दुःस्वप्नलाभं च तथा परेषामिति निश्चयः
आगतं नो मित्र बलं प्रहरध्वमभीतवत् ॥
एवं ब्रूयाद्रणे प्राप्ते मया भग्नाः परे इति
क्ष्वेडाः किलकिलाशब्दं मम शत्रुर्हतस्तथा ॥
देवाज्ञाबृंहितो राजा सन्नद्धः समरं प्रति
एवं प्रकारा द्विजवर्य मायाः कार्या नरेन्द्रैररिषु प्रहृष्टैः ॥
मायाहतः शत्रुरथ प्रसह्य शक्यः सुखं हन्तुमदीनसत्त्वः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उपाधिवर्णनं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः
2.149
पुष्कर उवाच ॥
चतुरङ्गं बलं राजा मायाजालेन दर्शयेत् ॥
सहायार्थमनुप्राप्तान्दर्शयेत्त्रिदिवौकसः
रक्तवृष्टिश्च संदर्श्या परेषां शिवरं प्रति ॥
छिन्नानि रिपुशीर्षाणि प्रसादाग्रेषु दर्शयेत्
आधित्सता सन्धिमहीनसत्व कार्यं भवेद्राम महेन्द्रजालम् ॥
वक्ष्यामि तच्चोपनिषत्सु तुभ्यं योगानि चान्यानि जयावहानि
इति श्रीविष्णुधर्मोत्तरे मार्कण्डेयवज्रसंवादे इन्द्रजालवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः
2.150
पुष्कर उवाच ॥
सन्धिश्च विग्रहश्चैव वैगुण्यं कथितं बुधैः ॥
यदाश्रित्य तथैवान्यैः षाड्गुण्यं परिकीर्तितम्
सन्धिश्च निग्रहश्चैव यानमासनमेव च ॥
द्वैधीभावं संश्रयं च षाड्गुण्यं परिकीर्तितम्
पणबन्धः स्मृतः सन्धिरपकारस्तु विग्रहः ॥
जिगीषोः शत्रुविषये यानं यात्रा विधीयते
विग्रहेऽपि स्वके देशे स्थितिरासनमुच्यते ॥
बलार्धेन प्रमाणं तु द्वैधीभावं तदुच्यते
उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः ॥
समेन सन्धिरन्वेष्यो हीनेन च बलीयसः ॥
हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ॥
तत्रापि तस्य पार्ष्णिस्तु बलीयान्न समाश्रयेत्
आसीनः कर्मविच्छेदं शक्तः कर्तुं रिपुर्यदा ॥
अशुद्धपार्ष्णिर्बलवान्द्वैधीभावं समाश्रयेत्
बलिना निगृहीतन्तु यो मन्येद्येन पार्थिवः ॥
संश्रयस्तेन कर्तव्यो गुणानामधमो गुणः
बहुक्षयव्ययायासं तेषां यानं प्रकीर्तितम् ॥
बहुलाभकरम्भः स्यात्तदा राम समाश्रयेत्
सर्वशक्तिविहीनस्तु तदा कुर्यात्तु संश्रयम्
एवं च बुद्ध्वा नृपतिर्गुणानां काले च देशे च तथा विभागे ॥
समाश्रयेद्भार्गववंशमुख्यं चैतावदुक्तं नृपतेस्तु कार्यम्
।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने षाड्गुण्यवर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0