विष्णुधर्मोत्तरपुराणम् · अध्याय 2.141.145
2.141
गर्ग उवाच ॥
वडवा हस्तिनी गौर्वा यदि युग्मं प्रसूयते ॥
विजातं विकृतं वापि षड्भिर्मासैर्म्रियेत वै
वियोनिषु च गच्छन्तो मैथुनं देशनाशनाः ॥
अन्यत्र वसरोत्पत्तेर्नृणां चाजातिमैथुनम्
सर्पमूषकमार्जारमत्स्यश्वानो विवर्जिताः ॥
ज्ञेया दुर्भिक्ष्यकर्तारः स्वजातिपिशिताशिनः.
अकालजं मदं घोरं चतुष्पान्मृगपक्षिणाम् ॥
अन्यजातिवदेतच्च धैन्वं श्वानं विशेषतः
अमानुषा मानुषवज्जल्पन्ति प्राणिनो यदि ॥
विकृता वा प्रसूयन्ति परचक्रागमं वदेत्
त्यागो विवासनं दानं तेषां कार्यं विजानता ॥
तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत्
मृदंगवाद्यैः पटहैः सगीतैः पूजा च कार्या त्रिदिवौकसां वै ॥
धातुस्तथेज्या विधिना च कार्या देयं तथान्नं बहुगो द्विजेभ्यः
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वैकृतोपशमनवर्णनो नामैकचत्वारिंशदुत्तरशततमोऽ ध्यायः
2.142
गर्ग उवाच ॥ ॥
यान्ति यानान्ययुक्तानि युक्तानि न हि यान्ति चेत् ॥
चोद्यमानानि तस्य स्यान्महद्दुःखमुपस्थितम्
वाद्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः ॥
अचलाश्च चलन्त्येव न चलन्ति चलास्तथा
आकाशे तूर्यनादाश्च गतिगन्धर्वनिस्वनाः ॥
काष्ठं दार्वीविकारादि कुठारं कुरुते यदि
गवां लांगूलसंगश्चेत्स्त्रियं तु यदि पातयेत् ॥
उपरागा दिव्यकृता घोरं शस्त्रभयं वदेत्
वायोस्तु पूजा द्विज सक्तुभिश्च कृत्वा तदुक्तांस्तु जपेच्च मन्त्रान् ॥
दद्यात्प्रभूतं परमान्नमत्र प्रदक्षिणान्तेन शमोस्य भूयात्
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मा० वज्रसंवादे रामं प्रति पुष्करोपाख्याने उपस्करवैकृतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः
2.143
गर्ग उवाच ॥
प्रविशन्ति यदा ग्राममरण्या मृगपक्षिणः ॥
अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवा
जलं वा स्थलजा यान्ति घोरं वाशन्ति निर्भयाः ॥
राजद्वारे पुरद्वारे शिवाश्चाप्यशिवप्रदाः
दिवा रात्रिञ्चरा वापि रात्रौ वापि दिवाचराः ॥
ग्राम्यास्त्यजन्ति ग्रामं वा शून्यतां तस्य निर्दिशेत्
दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ॥
वाशन्ते विस्वरं यत्र तदाप्येतत्फलं वदेत्
प्रदोषे कुक्कुटो वाशेद्धेमन्ते वापि कोकिलः ॥
अर्कोदयेऽर्काभिमुखः श्वा वा नृपभयं भवेत्
गृहं कपोतः प्रविशेत्क्रव्यादो मूर्ध्नि लीयते ॥
मधु वा माक्षका कुर्यान्मृत्युं गृहपतेर्वदेत्
प्राकारद्वारगेहेषु तोरणापणवीथिषु ॥
केतुच्छत्रायुधाद्येषु क्रव्यात्सन्निपतेद्यदि
जायते वाथ वल्मीको मधु वा दृश्यते यदि ॥
स देशो नाशमायाति राजा च म्रियतेऽथ वा
मूषकाञ्छलभान्द्रष्ट्वा प्रभूतान्क्षुद्भयं भवेत् ॥
काष्ठोल्मुकास्थि शृङ्गाद्याः श्वानो मर्कटकैर्जिताः
श्मशानं निर्गता ग्रामाद्ग्रामश्रेष्ठविनाशनाः ॥
एकाण्डता तु काकानां यदि चैवाप्यनण्डता
निम्नेषु च निवेशश्च देशनाशकरः स्मृतः ॥
अपसव्यं भ्रमन्तश्च मण्डले रणवेदिनः
दुर्भिक्षवेदिनो ज्ञेयाः काका धान्यमुषो यदि ॥
जनानभिभवन्तश्च निर्भया रणवेदिनः
काको मैथुनसक्तश्च श्वेतश्च यदि दृश्यते ॥
राजा वा म्रियते तत्र स वा देशो विनश्यति
उलूको वाशते यत्र विपतेद्वा तथा गृहे ॥
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च
मृगपक्षिविकारेषु कुर्याद्धोमान्सदक्षिणान् ॥
देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः
गावश्च देया विधिवद्द्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः ॥
एवं कृते शान्तिमुपैति पापं मृगैर्द्विजैर्वा विनिवेदितं यत्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने औत्पातिके मृगपक्षिवैकृतवर्णनो नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः
2.144
गर्ग उवाच ॥
प्रासादतोरणाट्टालद्वारप्राकारवेश्मनाम् ॥
अनिमित्तं तु पतनं दृढानां राजमृत्यवे
रजसा वाथ धूमेन दिशो यत्र समाकुलाः ॥
आदित्यचन्द्रताराश्च विवर्णा भयवृद्धये
राक्षसा यत्र दृश्यन्ते ब्राह्मणाश्च विधर्मिणः ॥
ऋतवश्च विपर्यस्ता अपूज्यः पूज्यते जनैः
नक्षत्राणि वियोगीनि तन्महद्भयलक्षणम् ॥
केतूदयोपरागौ च च्छिद्रता शशिसूर्ययोः
ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत् ॥
स्त्रियश्च कलहायन्ते बाला निघ्नन्ति बालकान्
शीलाचारविहीनाश्च मद्यमांसानृतप्रियाः ॥
तथा पाषाणभूयिष्ठास्त्रयीमार्गच्युता द्विजाः
यत्र देशे विजायन्ते तत्र विद्यादुपद्रवम् ॥
उचितैर्नाभिपूज्यन्ते यूपान्नबलिभिः सदा
क्रियाणामुचितानां च विच्छित्तिर्यत्र जायते ॥
अग्निर्यत्र न दीप्येत हूयमानासु शान्तिषु
पिपीलिकास्तु क्रव्यादो याति चातुरतस्तथा ॥
पूर्णकुम्भाः स्रवन्ते च हविर्वा विप्रलुप्यते
मङ्गल्याश्च गिरो यत्र न श्रूयन्ते समन्ततः ॥
क्षवथुर्धावती चाथ प्रहसन्ति रुदन्ति च
न च देवेषु वर्तन्ते यथावद्ब्राह्मणेषु च ॥
मर्मदोषाणि चोच्यन्ते वाद्यन्ते विसुराणि च
गुरुमित्रद्रुहो यत्र शत्रुपूजारता जनाः ॥
ब्राह्मणान्सुहदोऽमात्याञ्जनो यत्रावमन्यते
शान्तिमङ्गलहोमेषु नास्तिक्यं यत्र जायते ॥
राजा वा म्रियते तत्र स वा देशो विनश्यति
राज्ञो विनाशे सम्प्राप्ते निमित्तानि निबोध मे ॥
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते
ब्राह्मणैर्निन्द्यते चापि ब्राह्मणांश्च जिघांसति ॥
न तान्स्मरति कृत्येषु याचितश्चाभि भूयते
रमते निर्दयश्चैषां प्रशंसां नाभिनन्दति ॥
अपूर्वं तु करं लोभात्तथा पातयते जने
एतेष्वभ्यर्च्ययेच्छक्रं सपत्नीकं द्विजोत्तम ॥
भोज्यानि चैव कार्याणि सुराणां वलयस्तथा
गावश्च देया द्विजपुङ्गवेभ्यो भुवं तथा काञ्चनमम्बरश्च॥
होमश्च कार्यः सुरपूजनं च एवं कृते शान्तिमुपैति पापम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उत्पातप्रशमनं नाम चतुश्च त्वारिंशदुत्तरशततमोऽध्यायः
2.145
राम उवाच ॥
किं नु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः॥
राज्यतन्त्रं कथं राज्ञा पालनीयं विपश्चिता॥॥।
॥ पुष्कर उवाच ॥
सप्तांगस्य च राज्यस्य भावयुक्तेन भूभृता ॥
एतावदेव कर्तव्यं राज्ञा तन्त्रं भृगूत्तम
साम दानं तथा दुर्गं कोशो दण्डस्तथैव च ॥
मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते
सप्ताङ्गस्य च राज्यस्य विघ्नकर्तॄन्विवासयेत् ॥
अहितान्घातयेद्राजा क्षिप्रमेवाविचारयन्
सप्ताङ्गस्य च राज्यस्य वृद्धिः कार्या सुमण्डले ॥
मण्डलेषु च सर्वेषु कर्षणीया महीक्षिता
राम उवाच ॥
मण्डलानि समाचक्ष्व विजिगीषोर्यथाविधि ॥
यान्याश्रित्य नृपैः कार्यं सन्धिविग्रहचिन्तनम्
पुष्कर उवाच ॥
आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् ॥
समन्तात्तस्य विज्ञेया रिपवो मण्डलस्य तु
अधिकृत्याऽभियोज्यं तु तत्रापि शृणु कल्पनम् ॥
अभियोज्यः स्मृतः शत्रुस्तत्रापि च प्रतीक्षिता
तत्परस्तु सुहृज्ज्ञेयो मित्रं मित्ररिपुस्तथा ॥
एतत्पुरस्तात्कथितं पश्चादपि निबोध मे
पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते ॥
आसारस्तु ततोप्यन्यस्त्वाक्रन्दासार उच्यते
जिगीषोः शस्त्रयुक्तस्य वियुक्तस्य तथा द्विज ॥।
निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्तितः
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ॥
उदासीनः स कथितो बलवान्पृथिवीपतिः
एतावदेव ते राम प्रोक्तं द्वादशराजकम् ॥
नात्रापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ॥
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा
त्रिविधा रिपवः प्रोक्ताः कुल्यानन्तर कृत्रिमाः ॥
पूर्वः पूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः
अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः॥
पार्ष्णिग्राहो भवेद्राजा शत्रोर्मित्राभियोगिनः
पार्ष्णिग्राहमुपायैस्तु शमयेच्च तथा स्वकम् ॥
मित्रेण शत्रोरुच्छेदं न शंसन्ति पुरातनाः
मित्रं हि शत्रुतामेति सामन्तत्वादनन्तरम् ॥
शत्रुं जिगीषुरुच्छिन्द्यात्स्वयं शक्नोति चेद्यदि
प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम् ॥
नान्यथा पृथिवीं जेतुं शक्त्या राम जिगीषुणा
प्रतापवृद्धिः कर्तव्या तस्माद्राज्ञा यथा तथा ॥
तथास्य नोद्विजेल्लोको विश्वास्यश्च यथा भवेत
।
जिगीषुर्धर्मविजयी तथा लोकं वशं नयेत् ॥
यः स्यादधर्मविजयी तस्मादुद्विजते जनः ॥
प्राप्यापि वसुधां कृत्स्नां न चिरं श्रिथमश्नुते ॥
धर्मेण यज्ञो भवतीह वृद्धिर्धर्मेण वृद्धिश्च तथापरत्र ॥
धर्मेण लब्धा वसुधा जितारिर्भुक्त्वा चिरं नाकमनुप्रयाति
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने राज्यमण्डलवर्णनं नाम पञ्चचत्वरिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0