विष्णुधर्मोत्तरपुराणम् · अध्याय 2.136.140
2.136
गर्ग उवाच॥
अनग्निर्दीप्यते यत्र राष्ट्रे भृशसमन्वितः ॥
न दीप्यते चेन्धनं वा सराष्ट्रः पीड्यते नृपः
प्रजलादम्बुनाशं च तथार्द्रं वाति किञ्चन ॥
प्रसादस्तोरणं द्वारं नृपवेश्म सुरालयम्
एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ॥
विद्युता वा प्रदह्यन्ते तथापि नृपतेर्भयम्
अनैश्यानि तमांसि स्युर्दिश पांसुरजांसि च ॥
धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भयम् ॥ ४
रात्रावनभ्रे गगने भयं स्यादृक्षवर्जिते ॥
दिवा सतारे गगने तथैव भयमादिशेत्
ग्रहनक्षत्रवैकृत्ये ताराविकृतदर्शने ॥
पुरवाहनयानेषु चतुष्पान्मृगपक्षिषु
आयुधेषु च दीप्तेषु धूमायत्सु तथैव च ॥
निर्यत्सु कोशाश्च तथा संग्रामस्तुमुलो भवेत्
विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कर्हिचित् ॥
स्वभावाच्चापि पूर्यन्ते धनूंषि विकृतानि च
विकाराश्चायुधानां स्युस्तत्र संग्राममादिशेत् ॥
त्रिरात्रोऽपोषितस्तत्र पुरोधाः सुसमाहितः
समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च ॥
अग्निलिङ्गैश्च जुहुयाद्वह्निं श्वेताम्बरः शुचिः
दद्यात्सुवर्णं च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवं च ॥
एवं कृते पापमुपैति नाशं यद्वह्निवैकृत्यभवं द्विजेन्द्र
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने औत्पातिकाग्निवर्णनो नाम षटत्रिंशदुत्तरशततमोऽध्यायः
2.137
गर्ग उवाच ॥
पुरेषु येषु दृश्यन्ते पादपा दैवचोदिताः ॥
रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्रसान्
पुरोगवा विना वासं शाखां मुञ्चन्त्यसंश्रमात् ॥
फलपुष्पं तथा बाला दर्शयन्ति त्रिहायना
सर्वावस्थां दर्शयन्ति फलपुष्पमथाभवम् ॥
क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति च
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः ॥
उत्तिष्ठन्तीह पतिताः पतन्ति च तथोत्थिताः
तत्र वक्ष्यामि ते ब्रह्मन्विपाके फलमेव च ॥
रोदने व्याधिमाख्याति हसने देशविप्लवम्
शाखाप्रपतने कुर्यात्संग्रामे योऽधपातनम् ॥
बालानां मरणे कुर्याद्बालानां फलपुष्पता
स्वराष्ट्रभेदं कुरुते फलपुष्पसनातनम ॥
क्षयं सर्वत्रगे क्षीरे स्नेहे दुर्भिक्षलक्षणम्
वाहनापचयं मध्ये रक्ते संग्राममादिशेत् ॥
मधुस्रावे भवेद्व्याधिर्जलस्रावेण वर्षति
अरोगशोषणाज्ज्ञेयं ब्रह्मन्दुर्भिक्षलक्षणम् ॥
शुष्केषु संप्ररोहत्सु वीर्यमन्नं च हीयते
उत्थाने पतितानां च भयं भेदकरं भवेत् ॥
स्थानात्स्थानात्तुरंगाणां देशभङ्गं तथादिशेत्
जल्पत्स्वपि च वृक्षेषु रुदत्स्वपि धनक्षयम् ॥
एतत्पूजितवृक्षेषु सर्वं राज्ञो विपच्यते
पुष्पे फले वा विकृते राज्ञो मृत्युं तदादिशेत् ॥
अन्येषु चैवं युक्तेषु वृक्षात्पातेष्वतन्द्रितः
आच्छादयित्वा तं वृक्षं गन्धमाल्यैर्विभूषयेत् ॥
वृक्षोपरि तथा छत्रं कुर्यात्तापप्रशान्तये
शिवमभ्यर्चयेद्देवं पशुं चास्मै निवेदयेत् ॥
मूलेभ्य इति षण्माषान्हुत्वा रुद्रीं जपेत्तथा
मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रांश्च भुवं च दद्यात् ॥
गीतेन नृत्येन तथार्चयेत देवं भवं पापविनाशहेतोः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने औत्पातिके वृक्षवैकृत्यवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः
2.138
॥ गर्ग उवाच ॥
अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतम् ॥
अनृते भदिने रिक्ता वृष्टिर्ज्ञेया भयावहा
अनभ्रे विकृता चैव विज्ञेया राजमृत्यवे ॥
शीतोष्णताविपर्यासे जन्तूनां रिपुजं भयम्
शोणितं वर्षते यत्र तत्र शस्त्रभयं भवेत् ॥
अङ्गारपांसुवर्षेण नगरं तद्विनश्यति
मज्जास्थिस्नेहमांसानां जनमारभयं भवेत् ॥
फलपुष्पे तथा धान्यं हिरण्यादि भयाय तु
पांसुजन्तूपलानां तु वर्षणे रोगजं भयम् ॥
छिद्राणां तु प्रवर्षे च सस्यानामीतिवर्धनम्
विरजस्के रवौ व्यभ्रे यदा छाया न दृश्यते ॥
दृश्यते तु प्रतीपा वा तत्र देशभयं भवेत्
निरभ्रे चाथ रात्रौ वा श्वेतं याम्योत्तरेण तु ॥
इन्द्रायुधं तदा दृष्ट्वा उल्कापातांस्तथैव च
दिग्दाहपरिवेषौ वा गन्धर्वनगरं तथा ॥
परचक्रभयं ब्रूयाद्देशोपद्रवमेव वा
सूर्येन्दुपर्जन्यसमीरणानां यागस्तु कार्यो विधिवद्द्विजेन्द्र ॥
धान्यान्नगोकाञ्चनदक्षिणाश्च देया द्विजानां भयनाशहेतोः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुप्करोपाख्याने औत्पातिकेषु वृष्टिवैकृत्यवर्णनो नामाष्टत्रिंशदुत्तरशततमोऽध्यायः
2.139
गर्ग उवाच ॥
नगरादपसर्पन्ति समीपमुपयान्ति वा ॥
अशोष्या अपि शुष्यन्ति समीपं प्रवहन्ति वा
नद्यो ह्रदप्रस्रवणा विसराश्च भवन्ति चेत् ॥
विवर्णं कलुषं तप्तं फेनवज्रं तु संकुलम्
क्षीरं स्नेहं सुरां रक्तं वहन्ते वा कुलोदकाः ॥
षण्मासाभ्यन्तरं तत्र परचक्रभयं भवेत्
जलाशया नदन्ते वा प्रजल्पन्ति क्वथन्ति वा ॥
विमुञ्चतेऽथ वा ब्रह्मञ्जलान्धूमरजांसि च
अखाते वा जलोत्पत्तिः ससत्त्वा वा जलाशयाः ॥
संगीतशब्दा दृश्यन्ते जनमारभयं वदेत्
जलाशयानां वैकृत्ये संयतस्तु जलाशये ॥
स्थालीपाकेन पशुना वरुणं पूजयेद्द्विज
दिव्यमम्भः पयः सर्पिर्मधु चात्रावसेचनम् ॥
जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत्
मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विज भोजनार्थे ॥
गावश्च देया द्विज वस्त्रयुक्तास्तथोदकुम्भाः सकलाङ्गशान्त्यै
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने जलवैकृत्यवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः
2.140
॥ गर्ग उवाच ॥ ॥
कालप्रसवना नार्यः कालातीताः प्रजास्तथा ॥
विकृतप्रसवाश्चैव युग्मप्रसविकास्तथा
अमानुषा अरुण्डाश्च सञ्जातव्यसनास्तथा ॥
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥
पशवः पक्षिणश्चैव तथा चैव सरीसृपाः ॥
विनाशं तस्य देशस्य कुलस्यापि विनिर्दिशेत्
विवासयेत्तान्नृपतिः स्वराष्ट्रात्प्रियं च पूज्याश्च ततो द्विजेन्द्राः ॥
किमिच्छकैर्ब्राह्मणतर्पणं च कार्यं ततः शान्तिमुपैति पापम्
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्र संवादे रामं प्रति पुष्करोपाख्याने स्त्रीप्रसववैकृत्यवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0