विष्णुधर्मोत्तरपुराणम् · अध्याय 2.131.135
2.131
॥ पुष्कर उवाच ॥
वनेषु च विहृत्यैवं तृतीयं भागमायुषः ॥
चतुर्थमायुषो भागं त्यक्तसङ्गः परिव्रजेत्
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ॥
भिक्षाबलपरिश्रान्तः प्रव्रजेद्व्रतवर्जितः
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥ ॥
अनपाकृत्य च ऋणं मोक्षमिच्छन्व्रजत्यधः
अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ॥
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् ॥
अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः
प्राजापत्यां निरूप्येष्टिं सर्ववेदस-दक्षिणाम् ॥
आत्मन्यग्नीन्समारोप्य प्रव्रजत्यभयं गृही
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥
यस्मादण्वपि भूतानां द्विज नोत्पद्यते भयम् ॥
तस्य देहाद्विमुक्तस्य भयं नास्ति कथञ्चन
अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ॥
समुपोढेषु काम्येषु निरपेक्षः परिव्रजेत्
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ॥
सिद्धिमेकस्य तां पश्यन्न जहाति न हीयते
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत
।
उपेक्षकोऽसञ्चयको मुनिर्भावसमाहितः ॥
कपालं वृक्षमूलानि कुचैलमसहायता ॥
ममता नैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम्
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥
कालमेव परीक्षेत निर्दोषभृतको यथा
(दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ॥
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत्
अतिजडांस्तितिक्षेत नावमन्येत कञ्चन
)
न चैनं गृहमाश्रित्य वैरं कुर्वीत केनचित् ॥
क्रुध्यन्तं न प्रतिक्रुध्येदापृष्टः कुशलं वदेत्
सप्तद्वारावकीर्णाञ्च न वाचमनृतां वदेत् ॥
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः
आत्मनैव सहायेन तरेद्दुर्गतिमात्मनः
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ॥
नानृतस्वनवादाभ्यां भिक्षां लिप्सेत कर्हिचित्
न तापसैर्ब्राह्मणैर्वा न योगिभिरथाश्रमैः ॥
आकीर्णैर्भिक्षुकैर्वर्णैरागारमुपसंव्रजेत्
क्लृप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ॥
विरचेन्नियतो नित्यं सर्वभूतान्यपीडयन्
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ॥
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे
अलाबुं दारुपात्रञ्च मृन्मयं वैदलं तथा ॥
एतानि यतिपात्राणि विज्ञेयानि मनीषिभिः
सौवर्णमणिपात्रेषु कांस्यरौप्यायसेषु च ॥
भिक्षां दद्यान्न धर्मज्ञ ग्रहीता नरकं व्रजेत्
एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरे ॥
भैक्ष्ये प्रसक्तस्य मतिर्विषयेष्वपि सज्जते
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ॥
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत्
अलाभी न विषादी स्याल्लाभे चापि न हर्षयेत् ॥
प्राणयात्रिकमात्रः स्यान्मात्रासंगाद्विनिर्गतः ॥
अभिपूजितलाभाँस्तु यदि मुक्तोऽपि बध्यते
अल्पान्नाभ्यवहारेण रहः स्थानासनेन च ॥
ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत्
इन्द्रियाणां निरोधेन रागद्वेषभयेन च ॥
अहिंसया च भूतानाममृतत्वाय कल्पते
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवाम् ॥
निरये चैव पतनं व्याधिभिश्चोपपीडनम्
देहानुक्रमणं चास्मात्पुनर्गर्भे च सम्भवम् ॥
योनिकोटिसहस्रेषु मृतौ चास्यान्तरात्मनः
अधर्मप्रभवं चैव कर्मयोगं शरीरिणाम् ॥
धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम्
सूक्ष्मतां चानुवीक्षेत योगेन परमात्मनः ॥
देहेषु चैव पतितमुत्तमेष्वधमेषु च
दूषितोऽपि चरेद्धर्मं यत्रयत्राश्रमे रतः ॥
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम्
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ॥
न नामग्रहणादेव तस्य वारि प्रसीदति
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ॥
शरीरस्यात्यये वापि समीक्ष्य वसुधां चरेत
अहोरात्रचयाज्जन्तून्हिनस्त्यज्ञानतो यदि ॥
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत्
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः ॥
व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ॥
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥
प्राणायामैर्दहेद्दोषान्धारणाभिस्तु किल्बिषम् ॥
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान्
उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ॥
ज्ञानयोगेन सम्पश्येद्गतिमस्यान्तरात्मनः
सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते ॥
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते
अहिंसयेन्द्रियासङ्गैर्वैद्यकैश्चैव कर्मभिः ॥
तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम्
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपितम् ॥
चर्मावनद्धं दुर्गन्धि पात्रं मूत्रपुरीषयोः
जराशोकसमाविष्टं रोगायतनमातुरम् ॥
रजस्वलमनित्यञ्च भूतावासमिदं त्यजेत्
नदीकूले यथा वृक्षो वृक्षे वा शकुनिर्यथा ॥
तथा त्यजन्निमं देहं कृच्छ्रग्राहाद्विमुच्यते
प्रियेषु स्वेषु सुकृतं चाप्रियेषु च दुष्कृतम् ॥
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम्
यदा भावेन भवति सर्वभावेषु निःसृतिः ॥
तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्
अनेन विधिना सर्वान्कामांस्त्यक्त्वा शनैःशनैः ॥
सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठति
ध्यानिकं सर्वमेवैतद्यदेतदतिशाब्दिकम् ॥
न ह्याध्यात्म कविः कश्चित्क्रियाफलमुपाश्नुते
अधियज्ञं ब्रह्म जपेत्साधिदैविकमेव च ॥
आध्यात्मिकं च सततं वेदान्ताभिहितं फलम्
इदं शरणमज्ञानामिदं दैवं विजानताम् ॥
इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम्
अनेन क्रमयोगेण परिव्रजति यो द्विजः ॥
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति
एष धर्मोऽनुशिष्टस्ते यतीनां नियतात्मनाम् ॥
एव संन्यासकानान्तु कर्मयोगं निबोध मे
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥
एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ॥
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम्
सर्वेषामेव चैतेषां वेदश्रुतिविधानतः ॥
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ॥
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्
चतुर्भिरपि तत्त्वज्ञैर्नित्यमाश्रमिभिर्द्विजैः ॥
दशलाक्षणिको धर्मः सेवितव्यः प्रयत्नतः
धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ॥
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्
दश चिह्नानि धर्मस्य ये विप्राः समधीयते ॥
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम्
दशलाक्षणिकं धर्ममनुतिष्ठन्समाहितः ॥
वेदान्तं विधिवच्छ्रुत्वा मन्येहमनृणो द्विजः
सन्न्यस्य सर्वकर्माणि सर्वान्दोषानुपानुदेत् ॥
नियतो धर्ममभ्यस्य पुत्रैः सह सुखं वसेत
एवं सन्यस्य कर्माणि स्वकार्ये परमोऽस्पृहः ॥
संन्यासेनापहृत्येनं प्राप्नोति परमां गतिम् ॥
एष तेऽभिहितो धर्मो द्विजातीनां चतुर्विधः
स्वल्पोऽपि धर्मश्चरितो यथायं महाफलः स्यात्सततं द्विजानाम् ॥
तस्मात्प्रयत्नादयमेव कार्यः सर्वं समुत्सृज्य महानुभावः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चतुर्थाश्रमवर्णनन्नामैकत्रिंशदुत्तरशततमोऽध्यायः
2.132
राम उवाच ॥
अष्टादशभ्यः शान्तिभ्यः शान्तयो याः सुरोत्तम ॥
भिद्यन्ते वा न भिद्यन्ते तन्ममाचक्ष्व पृच्छतः
पुष्कर उवाच ॥
अमृता चाभया सौम्यास्तिस्रोन्याः सन्ति भार्गव ॥
एकापि तासां विज्ञेया सर्वकर्मफलप्रदा
सर्वोत्पातप्रशमनी मङ्गल्या सिद्धिकारिका ॥।
पूर्वोक्ताः कथितेष्वेव कर्तव्या अद्भुतेषु च
राम उवाच ॥
शान्तीनां मे त्वमाचक्ष्व स्वरूपाणि महाभुज ॥
पितामहसमो लोके सर्वज्ञोऽपि मतो मम
पुष्कर उवाच ॥
अमृता शर्वदैवत्या अभया ब्रह्मदैवता ॥
सौम्या च सोमदैवत्या कथिता भृगुनन्दन
अन्यासां देवता ज्ञानं नाम्नैव कथितं तव ॥
आथर्वणानां शान्तीनां निबोध गदतो मम
अमृता चित्रवर्णा स्यादभया तु शशिप्रभा॥
सौम्या शुक्लैव विज्ञेया नीला भवति वैष्णवी
बालार्कसदृशा रौद्री ब्राह्मी शंखसमप्रभा ॥
रुक्मवर्णा तथैवैन्द्री वायव्या हरिता भवेत्
शुक्ला च वारुणी ज्ञेया कौबेरी पद्मसुप्रभा ॥
भार्गवी शुक्लवर्णा स्यात्प्राजापत्या च पीतिका
त्वाष्ट्री शुक्ला च विज्ञेया कौमारी ताम्रसुप्रभा ॥
आग्नेय्यग्निसुवर्णा स्याच्छुक्ला मातङ्गिनी भवेत्
प्रवालाभा च गान्धर्वी कृष्णा वै नैनृता तथा॥
रोचनाभा चाङ्गिरसी याम्या कृष्णा तथा भवेत्
पार्थिवी च मयूराभा वर्णतः कथितास्तव ॥
अतः परं प्रवक्ष्यामि स्थानान्यासां यथाविधि
अमृता चाभया सौम्या तिस्रस्तु भृगुनन्दन ॥
तासां सर्वत्र संस्थानं कथितन्तु पुरातनैः
प्राजापत्या तथाग्नेयी याम्या वै नैरृती तथा ॥
कौबेरी पार्थिवी चेति पृथिव्यां परिकीर्तिताः
वायव्या चैव कौमारी वैष्णवी रुद्रदैवता ॥
अन्तरिक्षे विनिर्दिष्टाः शान्तयो द्विजसत्तम
ऐन्द्री मातङ्गिनी त्वाष्ट्री दिव्या ब्राह्मी तथेरिता ॥
वारुणी चैव गान्धारी भार्गव्याङ्गिरसी तथा
आद्यास्तु कथितास्तुभ्यं कर्तव्याश्च विजानता ॥
यथा स्वदेशजातेषु चाद्भुतेषु यथाविधि
तद्दैवत्यास्तथा मन्त्राः सर्वासां गर्भ उच्यते ॥
मणीनाञ्च तथा गर्भाः सर्वासां मन्त्र उच्यते
मणीनाञ्च तथा मन्त्रा ज्ञातव्या मन्त्रलिङ्गतः ॥
सर्वासाञ्चैव शान्तीनां होतव्याश्च गणा दश
शान्त्यातीतन्तु भैषज्यं त्रिसप्तीयं तथैव च ॥
अभया च तथा राम तथा चैवापराजिता
आयुष्यं च स्वस्त्ययनं सर्ववर्मगणं तथा ॥
वास्तोष्पत्यं तथा रौद्रं गणाः प्रोक्तास्तथा दश
होमस्तथैषां मन्तव्यः सर्वशान्तिषु भार्गव ॥
पृथक्प्रधानतः कल्पास्तिस्रः पूर्वाः प्रकीर्तिताः
गणेगणे तु गां दद्याद्गां गर्भे गां तथा मणौ ॥
अराजा भूमिपालस्तु दद्याद्दश दशैव तु
निष्कामः सभुवं चैव तथा दद्यात्पुरोधसे ॥
अभयाया मणिः कार्यो वरुणस्य भृगूत्तम
शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणिः॥
वैष्णव्यास्त्रिवृतः प्रोक्तः स्नातो रौद्र्यास्तथा मणिः
ब्रह्मरक्षस्तथा ब्रह्म्या मैत्र्याः स्यात्कनको मणिः ॥
वायव्याश्चाङ्गिरः प्रोक्तो वायव्यः शङ्खजो भवेत्
औदुम्बरश्च कौबेर्या भार्गव्यायाः शतावरीम् ॥
प्राजापत्या बिल्वमणिस्त्वाष्ट्र्याः संस्कृतको मणिः
दाक्षायणश्च कौमार्य्या आग्नेय्याश्च तदेव तु ॥
मातङ्गिन्या जिगितजं गान्धर्व्या अजशृङ्गजम्
नैरृत्यामायसं चैव आङ्गिरस्यास्तथाञ्जनम् ॥
शतकाण्डश्च याम्यायाः पार्थिव्या अपि पार्थिवम्
अद्भुतस्य बलं ज्ञात्वा कृच्छ्रं कुर्यात्पुरोहितः ॥
प्रागेव कुर्याच्छमनमादावेवाद्भुतस्य तु
कृतकृच्छ्रस्तु कुर्वीत ततः शान्तिमुपोषितः ॥
अरण्यां पातयेद्वह्निं सर्वास्वेतासु शान्तिषु
उपवासदिनस्यान्ते वह्निमुत्पाद्य यत्नतः ॥
उत्पन्नमन्नं विभजेत्क्रव्यादं सौम्यमेव च
कृत्वा कपाले क्रव्यादं ध्रुवेण नैरृतीं दिशम् ॥
शान्त्यागारे स्थापयेच्च शान्त्यर्थे सौम्यमेव वा
कृष्णोष्णीषः कृष्णवासाः कृष्णमाल्यानुलेपनः ॥
पुरोहितः प्रदेशं तु गत्वा वै नैरृतीं यजेत्
मृन्मयं जीर्णशीर्षे तु गन्धमाल्यानुसम्पदा ॥
कृष्णवस्त्रैस्तु संच्छाद्य ततस्तूपहरेद्बलिम्
वाद्यघोषेण महता तथा कोलाहलैः शुभैः ॥
ततोऽग्नौ जुहुयात्सम्यङ्मेदःप्रभृति वै द्विज
ये पिशाचाश्चतुर्भिस्तु इषीका शर्करी ततः ॥।
केवले जुहुयाद्वह्नौ करशुक्त्या श्रवामया
फलीकरणमग्नौ च हुत्वा भुक्त्वा च पावकम् ॥
अपश्यन्स्वगृहं यायात्स्नात्वा श्वेताम्बरस्ततः ॥। ।
अहोमुचं शान्तिकं च जप्त्वा तिष्ठेत्सुयन्त्रितः ॥
रात्रौ त्रिभागशेषायां शान्तिकर्म समारभेत्
शान्तिकल्पविधानज्ञः सदस्यैः सहितस्ततः ॥
एकः कर्मणि युक्तः स्यादेको मन्त्रस्य निश्चये
एष शान्तिविधिः प्रोक्तः समासात्सर्वशान्तिषु ॥
विस्तरे विस्तरः प्रोक्तः शान्तिकर्म ह्यथर्वणः
धनेन पूज्योऽथ पुरोहितः स्यात्तथोपदेष्टा गुरुरप्रमत्तः ॥
सांवत्सरो यस्तु ततः सदस्याः पूज्यास्ततो विप्रवराश्च सर्वे
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने शान्तिकर्मवर्णनन्नाम द्वात्रिंशदुत्तरशततमोऽध्यायः
।
2.133
॥ राम उवाच ॥
काका शान्तिर्भवेत्का वा कस्मिन्कस्मिंस्तथाद्भुते ॥
एतन्मे संशयं छिन्धि देवारिबलसूदन
पुष्कर उवाच ॥
सर्वोत्पातप्रशमिनी ह्यमृता चाभया स्मृता ॥
सौम्या चैव महाशांतिः सर्वकर्मफलप्रदा
विशेषेण तु भौमेषु शान्तिः कार्यामृता भवेत् ॥
अभया चान्तरिक्षेषु सौम्या दिव्येषु भार्गव
विजिगीषुः परान्राजा भूमिकामश्च योजयेत् ॥
आरोग्यधनकामश्च सौम्यां तां कारयेत्सदा
विजिगीषुः परानेवमभियुक्तस्तथा परैः ॥
तथाभिचारशङ्कायां शत्रूणामपि शासने
भये महति च प्राप्ते त्वभया शान्तिरिष्यते ॥
राजयक्ष्माभिभूतस्य क्षतक्षीणस्य चाप्यथ
सौम्या प्रशस्यते शान्तिर्यज्ञकामस्य चैव हि ॥
भूमिकम्पे समुत्पन्ने प्राप्ते चान्नक्षये तथा
अतिवृष्ट्यामनावृष्ट्यां शलभाखुभयेषु च ॥
प्रपन्नेषु च चौरेषु वैष्णवीशान्तिरिष्यते
पशूनां मरणे प्राप्ते नराणामपि दारुणे ॥
भूतेषु दृश्यमानेषु रौद्री शान्तिस्तथेष्यते
भविष्यत्यभिषेके च परचक्रभयेषु च ॥
स्वराष्ट्रभेदेऽरिवधे शान्तिरैन्द्री प्रशस्यते
त्र्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ॥
वैकृते वातजे व्याधौ वायवी शान्तिरिष्यते
अनावृष्टिभये जाते जाते विकृतवर्षणे ॥
जलाशयविकारे च वारुणी शांतिरिष्यते
अभिशापभये प्राप्ते भार्गवी च तथा द्विज ॥
जाते प्रसववैकृत्यं प्राजापत्या महाभुज
उपस्कराणां वैकृत्यं त्वाष्ट्री भार्गवनन्दन ॥
बालानां शान्तिकामस्य कौमारी च तथा शुभा
आग्नेयीं कारयेच्छान्तिं सम्प्राप्ते वह्निवैकृते ॥
कार्या मारुद्गणी शान्तिर्दुर्बलेन महीक्षिता
आज्ञाभंगे तथा जाते जाते भृत्यादिसंक्षये ॥
अश्वानां शांतिकामस्य तद्विकारे तथोत्थिते
गजान्कामयमानस्य गान्धर्वी शांतिरिष्यते ॥
गजानां शांतिकामस्य तद्विकारे तथोत्थिते
गजान्कामयमानस्य शान्तिराङ्गिरसी भवेत् ॥
पिशाचाधिभये जाते शान्तिर्वै नैरृती मता
अपमृत्युभये जाते दुःस्वप्ने च तथा द्विज ॥
काम्यां तु कारयेच्छांतिं प्राप्ते तु मरके तथा
धननाशे समुत्पन्ने कौबेरी शांतिरिष्यते ॥
वृक्षाणां च तथार्च्चानां वैकृते समुपस्थिते
भूमिकामस्तथा शांतिं पार्थिवीं संप्रयोजयेत् ॥
प्रथमे दिनयामे च रात्रौ च मनुजोत्तम
हस्ते स्वातौ च चित्रायामादित्ये चाश्विने तथा ॥
अर्यम्णे सौम्यजातेषु वायव्यां त्वद्भुतेषु च
द्वितीये दिनयामे च रात्रौ च भृगुनन्दन ॥
पुष्याग्नेयविशाखासु पित्र्यासु भरणीषु च
उत्पातेषु तथा भाग्ये त्वाग्नेयी शान्तिरिष्यते ॥
तृतीयदिनयामे च रात्रौ च भृगुनन्दन
रोहिण्यां वैष्णवे ब्राह्मे वासवे विश्वदैवते ॥
ज्येष्ठायां च तथा मैत्रे ये भवंत्यद्भुताः क्वचित्
ऐन्द्री तेषु प्रयोक्तव्या शान्तिर्भृगुकुलोद्भव ॥
चतुर्थे दिनयामे वा रात्रौ च भृगुनन्दन
सार्पे पौष्णे तथार्द्रायां त्वाहिर्बुध्न्ये च दारुणे ॥
मूले वरुणदैवत्ये ये भवन्त्यद्भुतास्तथा
वारुणी तेषु कर्तव्या महाशांतिर्महीक्षिता ॥
भिन्नमण्डलवेलासु ये भवन्त्यद्भुताः क्वचित्
तेषु शांतिद्वयं कार्यं निमित्ते सति नान्यथा ॥
निर्निमित्ता कृता शांतिर्निमित्तायोपजायते
बाणप्रहारा न भवंति यद्वन्नृणां रणे सन्नहनैर्युतानाम् ॥
दैवोपघाता न भवंति तद्वद्धर्मात्मनां शांतिपरायणानाम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अद्भुतेषु शान्तिकर्मवर्णनो नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः
2.134
राम उवाच ॥
अद्भुतानां फलं देव शमनं च तथा वद ॥
त्वं हि वेत्सि विशालाक्ष ज्ञेयं सर्वमशेषतः
पुष्कर उवाच ॥
अत्र ते वर्णयिष्यामि यदुवाच महातपाः॥
अत्र यो वृद्धगर्गस्तु सर्वधर्मभृतां वरः
सरस्वत्यां सुखासीनं गर्गं स्रोतसि भार्गव ॥
पप्रच्छात्रिर्महातेजा गर्गं मुनिजनप्रियम्॥३।
अत्रिरुवाच ॥
नश्यतां पूर्वरूपाणि जनानां कथयस्व मे ॥
नगराणां तथा राज्ञां त्वं हि सर्वविदुच्यसे
गर्ग उवाच॥
पुरुषापचारान्नियतमपरज्यन्ति देवताः ॥
ततोपरागाद्देवानामुपसर्गः प्रवर्तते
दिव्यान्तरिक्षभौमं तत्त्रिविधं परिकीर्तितम् ॥
गृहर्क्षं वैकृतं दिव्यमांतरिक्षं निबोध मे
उल्कापातो दिशां दाहः परिवेषस्तथैव च ॥
गन्धर्वनगरं चैव वृष्टिस्तु विकृता च या
एवमादीनि लोकेस्मिन्नांभसानि विनिर्दिशेत् ॥
चरस्थिरभयं भूमौ भूकलामपि भूमिजम्
जलाशयानां वैकृत्यं भूमौ तदपि कीर्तितम् ॥
भौमं याम्यफलं ज्ञेयं चिरेण भुवि पश्यते
नाभसं मध्यफलदं मध्यकालफलप्रदम् ॥
दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारि तथैव च
अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत् ॥
सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं हि तत्
अद्भुतस्य विपाकश्चेद्विना शान्तेर्न दृश्यते ॥
त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद्भयकारकम्
राज्ञः शरीरे लोके च पुरदारे पुरोहिते ॥
पाकमायाति पुत्रेषु तथा वै कोशवाहने
दत्तस्वभावजा ये च भवन्त्यद्भुतसंज्ञका ॥
शुभावहास्ते विज्ञेयास्ताँश्च मे गदतः शृणु
वज्राशनिमहीकम्पसन्ध्यानिर्वातनिस्वनाः ॥
परिवेषं रजो धूमं रक्तार्कोस्तमनोदये
द्रुमेभ्यो वरयश्चेह बहुपुष्पफलापगाः ॥
गोपक्षमधुवृद्धिश्च शुभानि मधुमाधवे
तारोल्कापातकलुषं कपिलार्कं तु मण्डलम् ॥
अनग्निज्वलनास्फोटधूमरेष्वनिलावहम्
रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् ॥
सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत्
शक्रायुधं परीवेशं विधुशुष्कविरोहणम् ॥
कम्पोद्वेलनवैकृत्यं त्रसनं दारुणं क्षितेः
नद्योदपानसरसां वृद्ध्यश्वतरण प्लवाः ॥
शीर्णता चाह्नि गेहानां वर्षासु च भविष्यति
दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम् ॥
ग्रहनक्षत्रताराणां दर्शनं च दिवाकरे
गीतवादित्रनिर्घोषो वनपर्वतसानुषु ॥
रसवृद्धीरसोत्पत्तिः शरत्काले शुभाः स्मृताः
शीतालुलत्तुपारत्वं नन्दनं गृहपक्षिणाम् ॥
रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी
दिशो धूम्रान्धकारश्च शरभोधनपर्वताः ॥
उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः
हिमपातानिलोत्पातौ विरूपाद्भुतदर्शनम् ॥
कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम्
चित्रगर्भोद्भवं स्त्रीषु गोजाश्वमृगपक्षिषु ॥
पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः
ऋतुस्वभावेन विनाद्भुतस्य जातस्य दृष्टस्य तु शीघ्रमेव॥
कृत्वा शमं शान्तिरनन्तरं तु कार्या यथोक्ता वसुधाधिपेन
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने नानाविधोत्पातकथनो नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः
2.135
गर्ग उवाच ॥
देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ॥
आरटन्ति च रोदन्ति प्रस्विद्यन्ति हसन्ति च
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति वसन्ति च ॥
भुञ्जते विक्षिपन्ते वा गात्रप्रहरणाध्वजान्
अवाङ्मुखावतिष्ठन्ति स्थानात्स्थानं भ्रमन्ति च ॥
वमन्त्यग्निं तथा धूमं स्नेहरक्ते तथा वसाम्
एवमादीनि दृश्यन्ते विकारा सहसोत्थिताः॥
लिङ्गायतनचित्रेषु तत्र वासं न रोचयेत्
राज्ञो वा व्यसनं तत्र सर्वादेशो विनश्यति॥
देवयात्रां सचोत्पातां दृष्ट्वा देशभयं वदेत्
पितामहर्षिधर्मेषु यन्निमित्तं द्विजेषु तत् ॥
गुरुशुक्राग्निजातानि यानि तानि पुरोहिते
पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम्॥
ज्ञेयं सेनापतीनां तु यत्स्यात्स्कन्दविनायकम्
लोकानां विष्णुवाय्विन्द्रविश्वकर्मसमुद्भवम् ॥
विनायकोद्भवं ज्ञेयं गणानां ये तु नायकाः
देवप्रेष्यनृपप्रेष्यदेव स्त्रीषु नृपस्त्रियः ॥
वास्तुदेवेषु विज्ञेयं गृहिणामेव नान्यथा
देवतार्चाविकारेषु श्रुतिवेत्ता पुरोहितः ॥
देवतार्चां ततो गत्वा स्नातामाच्छाद्य भूषयेत्
पूजयेच्च महाभाग गन्धमाल्यान्नसम्पदा ॥
मधुपर्केण विधिवदुपतिष्ठेदनन्तरम्
तल्लिङ्गेन च मन्त्रेण स्थालीपाकं यथाविधि ॥
पुरोधा जुहुयाद्वह्नौ सप्तरात्रमतन्द्रितः
विप्राश्च पूज्या मधुरान्नपानैः सदक्षिणैः सप्तदिनं द्विजेन्द्र॥
प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाञ्चनैः शांतिमुपैति पापम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने अर्चाविकारोपशमनवर्णनो नाम पञ्चत्रिंशदुत्तरुशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0