विष्णुधर्मोत्तरपुराणम् · अध्याय 2.126.130
2.126
पुष्कर उवाच ॥
संहितां वैष्णवीं जप्त्वा विष्णुं प्रीणाति मानवः ॥
सर्वकाममवाप्नोति तथा हुत्वा च भार्गव
स्कन्दस्य संहितां जप्त्वा स्कन्दात्कामानुपाश्नुते ॥
आस्यदघ्ने जले तिष्ठन्नघेनाकीर्णमानसः
त्रिःसप्तकृत्वो जप्त्वा च सर्वान्कामानुपाश्नुते ॥ ॥
तथा च संहितां पित्र्यां तत्प्रसादमुपाश्नुते
गुरुगोब्राह्मणादीनामुक्त्वा नाम प्रियं नरः ॥
सोपवासो जपेत्तोये त्विदं विष्णुर्विचक्रमे
सदा गावश्च शुचयः प्रयाज्ययजने जपेत् ॥
अमेध्यदर्शने जापोः पन्था अमे दिवः
एतदिन्द्रस्तवामीति सर्वपापहरं जपेत् ॥
शुक्रं तेऽन्यद्यजतं जप्त्वा स्तेयाद्विमुच्यते
चक्रानिति तथा जप्त्वा पारयायी विमुच्यते ॥
सहन्तः सोममित्येतज्जप्त्वा मुच्येत्प्रतिग्रहात्
यत्तत्सोम इन्द्र इति हिंसादोषविनाशनम् ॥
अग्नेर्भयात्प्रमुच्येत अग्निस्तिग्मेति वै जपन्
सर्वपापहरं ज्ञेयं परितो षिञ्चतामिति ॥
पर्वासुसोमेति जपेज्जीवितुं तु सुकर्मणा
अविक्रेयं च विक्रेयं जपेद्घृतवतीत्विति ॥
अप्यानी देवसवितो ज्ञेयं दुःस्वप्ननाशनम्
त्रातारमिन्द्रमित्येव महि त्रीणामवोस्त्विति ॥
उदुत्तमं वरुणपाशेत्यायुष्याणि जपेत्सदा
शुक्रचन्द्रेति जाप्येन पूतो भवति मानवः ॥
शुद्धाशुद्धीयमेतच्च तं वचोसूक्तमेव च
न्यग्रोधशृङ्गमादाय शरमूलं तथैव च ॥
त्रिवृतं तु मणिं कृत्वा जुहुयाच्च सहस्रशः
बोध्यासिरिति मन्त्रेण घृतं राम यथाविधि ॥
अभ्यज्य घृतशेषेण मेखलाबन्ध इष्यते
स्त्रीणां यासां तु गर्भाणि पतन्ति भृगुसत्तम ॥
वणिग्जातस्य बालस्य बध्नीयात्तदनन्तरम्
गोर्वै स्वरूपवत्सायाः शुक्लाया जुहुयाद्घृतम् ॥
उग्रप्रिया तु शरणं मंत्रेणानेन मन्त्रवित्
रक्षसा मुच्यते जन्तुर्मणिं शिरसि धारयेत् ॥
कौत्स्यं घृतं तु प्राश्नीयान्नित्यमेव विचक्षणः
विश्वापृतन्निति मन्त्रेण व्याधिभिर्विप्रमुच्यते ॥
चर्षणीवृतमेतेन घृतं हुत्वा यथाविधि
शतायारिमणिं बद्ध्वा न सर्पैः परिभूयते ॥
समत्यायन्तीति जपेन्न म्रियेत पिपासया
इष्ट्याहोत्रितयं जप्त्वा सलिले नाप्नुयाद्भयम् ॥
त्वमेमा ओषधीत्वेतज्जप्त्वा व्याधिं न चाप्नुयात्
यत्ते पयांसि पूर्वेण ग्रासं वै प्रक्षिपेन्मुखे ॥
निगिरेदुत्तरेणैतन्नित्यमारोग्यमाप्नुयात्
देवव्रतेन हुत्वाज्यमुच्छेषेण विचक्षणः ॥
करवीरकमभ्यज्य दण्डहस्तगतेन तु
स्वस्तिमांस्तेन भवति यत्र क्वचन गच्छति ॥
पथि देवव्रतं जप्त्वा भयेभ्यो विप्रमुच्यते
यदिन्द्रो अनयत्वेति हुतं सौभाग्यवर्धनम् ॥
भद्रान्नो अग्निरिति च दन्तकाष्ठं च भक्षयेत्
संवत्सरमनिष्ठीवन्मध्वाज्यसहितं सदा ॥
सौभाग्यं महदाप्नोति यत्र क्वचन गच्छति
भगो न चित्र एतेन नेत्रयोरञ्जनं स्मृतम् ॥
सौभाग्यवर्धनं राम नात्र कार्या विचारणा
जपन्निन्द्रेति वर्गं च तथा सौभाग्यमाप्नुयात् ॥
करिप्रियो दिवः कविः काम्यां संश्रावयेत्स्त्रियम्
सा तं कामयते राम नात्र कार्या विचारणा ॥
रथन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनम्
यशसामेति जुहुयात्पुष्पेण तु प्रियङ्गुकम् ॥
यशसा योगमाप्नोति कर्मणानेन मानवः
प्राशयेद्बालकं नित्यं वचाचूर्णं घृताप्लुतम् ॥
इन्द्रमिद्गाथिनं जप्त्वा भवेच्छ्रुतिधरस्त्वसौ
हुत्वा रथन्तरं जप्त्वा पुत्रमाप्नोत्यसंशयम् ॥
गीर्वाणः पाहि सततं जप्तं स्यादघतारकम्
मयि श्रीरिति मन्त्रेण जप्तव्यं श्रीविवर्धनम् ॥
दानाविशति देवोऽपि मन्त्रेणानेन धर्मवित्
क्रीत्वा घृतं तु पुष्पेण सुषुमाणीत्यतः पिबेत् ॥
अलक्ष्मीनाशनं कर्म मयैतत्ते प्रकीर्तितम्
पुष्पेण सर्षपान्गौरांश्चूर्णयित्वा विचक्षणः ॥
इन्द्रेहिमत्स्यं धर्मेति कुर्यादुत्सादनं बुधः
घृतस्नानं बुधः कृत्वा सर्षपाञ्जुहुयात्ततः ॥
अद्येत्वीडाविन्द्रियेति मन्त्रेणानेन मन्त्रितम्
पुष्टिदं कर्म कथितं मयैतत्तव भार्गव ॥
मिश्रान्व्रीहि यवानग्नौ हुत्वा भृगुकुलोद्भव
मुनीशो धाम एतेन धान्यभागी भवेत्सदा ॥
मध्वाज्यदधिमिश्राणि विप्राणीति जुहोति यः
साष्टं सहस्रं धर्मज्ञ श्रावयन्तीह मानवाः ॥
मासोपवासी लभते कनकं बहु भार्गव
गव्येषुणेति च द्वाभ्यां यस्तु संवत्सरं नरः ॥
न्यग्रोधजपनिष्ठीवं भक्षयेद्दन्तधावनम्
सहस्रसङ्ख्यं स धनं लभते नात्र संशयः ॥
भद्रो न अग्न इत्येतत्तथा हुत्वा सहस्रशः
औदुम्बरेध्महोमेन मन्त्रेणानेन गां लभेत् ॥
हुत्वा व्रीहियवानग्नौ धान्यमाप्नोति मानवः
एवासि वीरेयुरिति द्वादशाहमुपोषितः ॥
सर्पिषा त्वयुतं हुत्वा ग्राममाप्नोति मानवः
वैरूपाष्टकवन्नित्यं प्रयुञ्जानः श्रियं लभेत् ॥
श्रान्ताष्टकं प्रयुञ्जानः सर्वान्कामानवाप्नुयात्
गव्येषुणेति यो नित्यं सायं प्रातरतन्द्रितः ॥
उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे
अग्ने विवस्वदुषसा मन्त्रेणानेन मन्त्रवित् ॥
भाजनस्योपनीतस्य यस्त्वग्रं जुहुयात्सदा
उत्तरेण बलिं दत्त्वा सर्वान्कामानवाप्नुयात् ॥
क्षीरैकवृक्षमासाद्य मणिभद्राय मानवः
अष्टरात्रोषितः पूजां कृत्वा दद्यात्ततो बलिम् ॥
सुसंस्कृतेन मांसेन कृष्णपक्षं क्षपेद्बुधः
एषस्यतेति मधुमन्निन्द्र एतेन भार्गव ॥
सुवर्णमाप्नोति नरो यावदिच्छति शत्रुहन्
शुक्लपक्षचतुर्दश्यां त्रिरात्रोपोषितो नरः ॥
मौनं मासं पायसं च रसत्रय समन्वितम्
सप्तधेनवो दुदुहुर्मन्त्रेणानेन मन्त्रवित् ॥
कृष्णपक्षचतुर्दश्यां त्रिरात्रोपोषितस्तथा
मत्स्यानुपहरेद्रात्रावासुरीमाप्नुयाच्छ्रियम् ॥
बलयुक्तश्च भवति दीप्ततेजास्तथैव च
धानावन्तं करम्भिणं मन्त्रेणानेन पायसम् ॥
हुत्वा दिगष्टके दद्याद्दिक्पालानां ततो बलिम्
वास्तुदोषहरं कर्म मयैतत्परिकीर्तितम् ॥
राजा समाचरेत्स्नानं पुष्येण श्रवणेन च
आप्रातृव्य इति सदा रहस्यं स्नानमाचरेत् ॥
स्वेच्छापतितजीवन्तीगवां शृङ्गसमुद्भवैः
काशैर्मध्वाज्यसम्पूर्णैर्दधिक्षीरयुतैस्तथा ॥
निःसपत्नमवाप्नोति राज्यं निर्गतकण्टकम्
घृताक्तं तु यवद्रोणं वात आवतभेषजम् ॥
अनेन हुत्वा विधिवत्सर्वान्दोषान्व्यपोहति
प्रादेवो दास एतेन कृष्णान्हुत्वा तथा तिलान् ॥
कृत्वा कर्माणि तीर्थोदैः स्तैन्यात्क्षिप्रं विमुच्यते
अभि त्वा पूर्वपीतं ये वषट्कारसमन्वितम् ॥
बाधकेध्मसहस्रं तु हुतं युद्धे जयप्रदम्
हस्त्यश्वपुरुषान्कुर्याद्बुधः पिष्टमयाञ्छुभान् ॥
परकीयानथोद्दिश्य प्रधानपुरुषाँस्तथा
स्वस्त्यन्नापिष्टपचने क्षुरेणोत्कृत्य भागशः ॥
अभित्वा शूर नो नुमो मन्त्रेणानेन मन्त्रवित्
कृत्वा सर्षपतैलाक्तान्क्रोधेन जुहुयात्ततः ॥
एतत्कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात्
आषाढ्यां पौर्णमास्यां तु सोपवासो विचक्षणः ॥
सायं धान्यानि वस्त्राणि सस्यानि तोलयेद बुधः
इध्ममिद्देवतामन्ने मन्त्रेणामन्त्रयेत्तु ताम् ॥
पूजितां वासयेद्रात्रौ देशे परमपूजिते
देशानां भूमिपालानां तथा देवचतुष्पदाम् ॥
मृन्मयानां तु कर्तव्यं तथा रात्र्याधिवासनम्
तुलितानां द्वितीयेह्नि तत्तद्वृद्धि प्रवर्धने ॥
हीनस्य क्षयमादेश्यं समस्य समता तथा
गोव्रतं तु बुधः कुर्यादादौ मासचतुष्टयम् ॥
ततस्त्वरण्यं प्रविशेत्तत्र कुर्याज्जपं शुभम्
तपः सदृशमासाद्य जाप्त्वैतदिति वै सदा ॥
सहस्रकृत्वस्तु जपेत्सप्तरात्रत्रये गते
मनसा कांक्षितान्कामान्ध्रुवमाप्नोति मानवः॥
अन्तरिक्षेण वा याति रूपान्यत्वं करोति वा
अदृश्यत्वमवाप्नोति दैत्यत्वमथ वा पुनः ॥
तंतं काममवाप्नोति यंयं वा मनसेच्छति
साम्नस्तु देवतां ज्ञात्वा तेन साम्ना तु देवताम् ॥
आराधयेत्सुप्रसन्ना साम्ना स्यात्संशयं विना
अमूषु पूर्वं तु सदा मन्त्रमावर्तयेच्छुचिः ॥
चन्दनेनानुलिप्तांगो जातिपुष्पधरस्तथा
श्वेतोष्णीषः श्वेतवासाः सर्वान्कामानवाप्नुयात् ॥
एवं दुदुहकेत्येतत्सोपवासस्तु यो जपेत्
अक्षतैः सुमनोभिश्च तथा वा गौरसर्षपैः ॥
अवकीर्य शुभं देशं त्वेकाकी प्रस्वपेन्निशि
वाग्यतस्तु तथा स्वप्ने पश्यतीति शुभंशुभम् ॥
यथावद्भृगुशार्दूल भविष्यद्भूतमेव वा
भारुण्डं वामदेव्यं च रथन्तरबृहद्रथौ ॥
सर्वपापप्रशमनाः कथिताः संशयं विना
साम्नां विधिस्ते कथितो नृवीर संक्षेपतः कर्मकरो मयैषः ॥
आथर्वणं वच्मि निबोध तन्मे चेतः समाधाय महानुभाव
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सामविधिकथनन्नाम षड्विंशत्युत्तरशततमोऽध्यायः
2.127
॥ पुष्कर उवाच ॥
शान्तातीतं गणं हुत्वा शान्तिमाप्नोति मानवः ॥
भैषज्यं च गणं हुत्वा सर्वान्रोगानपोहति
त्रिषस्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ॥
क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयं गणम्
न क्वचिज्जायते राम गणं हुत्वा पराजयः ॥
आयुष्यं च गणं हुत्वा चापमृत्यून्व्यपोहति
एते दशगुणाश्चैव होतव्याः स्युर्यथाक्रमम् ॥
अष्टादशसु धर्मज्ञ दशशान्तिषु भार्गव
वैष्णवी च तथा चैन्द्री ब्राह्मी रौद्री तथैव च ॥
वायव्या वारुणी चैव कौबेरी भार्गवी तथा
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ॥
मारुद्गणी च गान्धारी शान्तिर्वै रुदती तथा
शान्तिरांगिरसी याम्या पार्थिवी च भृगूत्तम ॥
एतास्तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा
यस्त्वामृत्युरितीत्येतज्जप्तं मृत्युविनाशनम् ॥
हुत्वा च मातृनामानि कामानेवमवाप्नुयात्
सुपर्णस्त्विति हुत्वा च भुजगैर्नैव बाध्यते ॥
यस्येदं भूमिमिति च भूमिकामो जपेत्सदा
पृथिव्यामुत्तमोसीति हुतं श्रैष्ठ्यप्रदं सदा ॥
औदुम्बरं यो न इति तथा वीर्यविवर्धनम्
इन्द्रेण दत्तमित्येतत्सर्वबाधाविनाशनम् ॥
हिरण्यवर्ण इति च स्नानं पापहरं भवेत्
असितस्येति सर्वाणि विषघ्नानि भृगूत्तम ॥
सारस्वतीति मन्त्रांश्च विषघ्नान्निर्विशेद्बुधः
शरभादीनि सर्वाणि पिशाचक्षपणानि च ॥
यमस्य लोकादित्येतद्दुःस्वप्नशमनं परम्
अग्नेर्व इति चाप्येतत्कथितं मन्युनाशनम् ॥
ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः
इन्द्रं वयं वणिजमिति पण्यलाभकरं परम् ॥
कामो मे राज्ञीति हुतं स्त्रीणां सौभाग्यवर्धनम्
भद्राय कर्णमित्येतत्कर्णप्रस्यन्दने जपेत् ॥
भद्रासाक्षिवधे जाता कर्णप्रस्यन्दने तथा
तुभ्यमेवाजिरिति आयुष्यं तु हुतं भवेत् ॥
आयातु पितमित्येतन्मित्रलब्धिकरं हुतम्
आशासानमिदं जना मिश्रधान्येन होमयेत् ॥
आधिपत्यमवाप्नोति सर्वत्र मनुजोत्तम
अग्निरीशेभिरित्येतद्गवां वृद्धिकरं परम् ॥
द्वादशाहं तु जुहुयात्पराकेण विशेषतः
शातो हविरितीत्येतद्ग्रामस्वास्थ्यकरं भवेत् ॥
तस्माद्ग्रामान्मृदा कृत्वा वेदिसाम्यं समश्नुते
विधाय स्वेति सर्वाणि राष्ट्रस्वीकरणानि तु ॥
त्रिभ्यो भद्रेभ्य इत्येतद्वास्तोष्पतमुदाहृतम्
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ॥
अच्युतापोस्तथा राम कथितं स्थानलाभदम्
पयो देवेष्विति हुतं रायस्पोषकरं परम् ॥
युनक्त सीरेति शुना कृषिलाभकरं भवेत्
अयं ते योनिरित्येतत्पुत्रलाभकरं भवेत् ॥
शुने वत्सा तथा ह्येतद्गवां वृद्धिकरं हुतम्
... ... मेति कथितं सर्वत्र श्रैष्ठ्यकारकम् ॥
यदग्न इति चाप्येतद्बन्धनान्मोक्षकारकम्
यो न स्व इति चाप्येतच्छत्रुनाशकरं परम् ॥
सवन्नहन्निति तथा नात्र कार्या विचारणा
( त्वमत्वममितीत्येतद्यशसो वर्धनं परम् ॥
यथा वृषिमितीत्येतत्स्त्रीणां सौभाग्यवर्धनम् ॥
आनो अग्न इत्येतच्च कथितं पतिलाभदम् ॥
येन वेहेति मां चैव गर्भलाभकरं भवेत्
इमं तपस्विन्निति तथा भवेत्सौभाग्यवर्धनम् ॥
यत्पृथिव्यामनावृत्तं हुतमेतद्यथाविधि
कृत्वा तु संशनं ज्ञेयं नात्र कार्या विचारणा ॥
...........
।)
शिवं शिवाभिरित्येतद्भवेच्छ्रेयस्करं परम् ॥
दूत्या दूषणमित्येतत्कृत्यादूषणमुच्यते
बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत् ॥
मनो विवन्न भयदं पथि स्वस्त्ययनं भवेत्
अयन्नो अग्निरध्यक्षो भवेदग्निप्रसादतः ॥
संवत्सरं तु शिरसा धारयेद्यो हुताशनम्
ऽ
मन्त्रमेतज्जपेन्नित्यमाग्नेयाशामुखः स्थितः ॥
अनग्निज्वलनं कुर्याद्रामसंवत्सरे गते
दूत्या दूतिरसीत्येतज्जपेन्मन्त्रमनुत्तमम् ॥
कुर्यात्प्रदिसराबन्धं सर्वदोषनिबर्हणम्
प्राणसूक्तञ्च कथितं तथा प्राणविवर्धनम् ॥
मुञ्चामि त्वेति कथितमपमृत्युविमोक्षणम्
अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते ॥
परमं पावनं तद्धि सर्वकल्मषनाशनम्
एवमेते शुभा मन्त्राः प्रतिवेदं मया तव ॥
समासात्कथिता राम समुद्धृत्य प्रधानतः
एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः ॥
कथिता भृगुशार्दूल पुराणैः सुमहात्मभिः
न ते शक्या महाभाग वक्तुं वर्षशतैरपि ॥
प्राधान्येन तु मन्त्राणां किञ्चित्कर्म तवेरितम्
होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव ॥
हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु
वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः ॥
आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः
अक्षतानि तिलाश्चैव दधि क्षीरञ्च भार्गव ॥
दर्भास्तथैव दूर्वाश्च बिल्वानि कमलानि च
शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि भार्गव ॥
तैलेन्धनानि धर्मज्ञ राजिकां रुधिरं विषम्
समिधः कण्टकोपेता अभिचारेषु योजयेत् ॥
आर्षं वै दैवतं छन्दस्त्वविज्ञाय भृगूत्तम ॥
मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत् ॥
छन्दसि ब्राह्मणे सूक्ते यदव्यक्तं प्रदृश्यते
विद्वद्भि सह निश्चित्य तद्यज्ञमवतारयेत् ॥
सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः
शाखां प्रति तथा तत्र तत्प्रमाणमिति स्थितिः ॥
यः स्वसूत्रमतिक्रम्य परसूत्रेण वर्तते
अप्रमाणमृषिं कृत्वा सोऽप्यधमेण युज्यते ॥
तस्मात्सर्वप्रयत्नेन स्वसूत्त्रं न विलंघयेत्
प्राक्तन्त्रोत्तरतन्त्रे द्वे स्वशाखाप्रत्यया द्विज ॥
सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते
अथर्वणोऽयं कथितो विधिस्ते संक्षेपतो भार्गववंशमुख्य ॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष
इति श्रीविष्णुधर्मोत्तरे द्वितीय खण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्यानेऽथर्वविधिकथनन्नाम सप्तविंशत्युत्तरशततमोऽध्यायः
2.128
राम उवाच ॥
एकं मन्त्रं समाचक्ष्व देव लक्ष्मीविवर्धनम् ॥
प्रतिवेदं जगन्नाथ यादोगणनृपात्मज
पुष्कर उवाच ॥
श्रीसूक्तं प्रतिवेदञ्च ज्ञेयं लक्ष्मीविवर्धनम् ॥
अस्मिँल्लोके परे वापि यथाकामं द्विजस्य तु
राम उवाच ॥
प्रतिवेदं समाचक्ष्व श्रीसूक्तं पुष्टिवर्धनम् ॥
श्रीसूक्तस्य तथा कर्म सर्वधर्मभृतां वर॥
पुष्कर उवाच ॥
हिरण्यवर्णा हरिणीमृचः पञ्चदश द्विज ॥
श्रीसूक्तं कथितं पुण्यमृग्वेदे पुष्टिवर्धनम्
रथे अक्षेषु वाजेति चतस्रस्तु तथा ऋचः ॥
श्रीसूक्तं तु यजुर्वेदे कथितं पुष्टिवर्धनम् ४५॥
श्रायन्तीयं तथा मासं सामवेदे प्रकीर्तितम् ॥
श्रियं दातुर्मयि देहि प्रोक्तमाथर्वणे तथा
श्रीसूक्तं यो जपेद्भक्त्या तस्यालक्ष्मीर्विनश्यति ॥
जुहुयाद्यश्च धर्मज्ञ हविष्येण विशेषतः
श्रीसूक्तेन तु पद्मानां घृताक्तानां भृगूत्तम ॥
अयुतं होमयेद्यस्तु वह्नौ भक्तियुतो नरः
पद्महस्तद्वया लक्ष्मीस्तं नरं तूपतिष्ठति ॥
दशायुतं तु पद्मानां जुहुयाद्यस्तथा जले
नापैति तत्कुलाल्लक्ष्मी विष्णोर्वक्षोगता यथा ॥
घृताक्तानान्तु बिल्वानां हुत्वा रामायुतं तथा
बहुवित्तमवाप्नोति स यावन्मनसेच्छति ॥
बिल्वानां लक्षहोमेन कुले लक्ष्मीमुपाश्नुते
पद्मानामथ बिल्वानां कोटिहोमं समाचरेत् ॥
श्रद्दधानः समाप्नोति देवेन्द्रत्वमपि ध्रुवम्
संपूज्य देवीं वरदां यथावत्पद्मैः सितैर्वा कुसुमैस्तथान्यैः ॥
क्षीरेण धूपैः परमान्नभक्ष्यैर्लक्ष्मीमवाप्नोति विधानतश्च
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने श्रीसूक्तमाहात्म्यकथनन्नामाष्टाविंशत्युत्तरशततमोऽध्यायः
2.129
राम उवाच ॥
एकं मन्त्रं समाचक्ष्व सर्वकर्मकरं शिवम् ॥
ऐहिकं सर्वधर्मज्ञ पारलौकिकमेव च
पुष्कर उवाच ॥
प्रतिवेदं महाभाग यत्सूक्तं पौरुषं स्मृतम् ॥
सर्वकर्मकरं ज्ञेयं पवित्रं माधुसूदनम्
एकैकया ऋचा राम स्नातो दत्त्वा जलाञ्जलीः ॥
पौरुषेण च सूक्तेन मुच्यते सर्वकिल्बिषैः ॥।
अन्तर्जलगतो जप्त्वा तथा सूक्तं तु पौरुषम् ॥
सर्वकल्मषनिर्मुक्तो यथेष्टां लभते गतिम्
एकैकया ऋचा स्नातः पुष्पं पुष्पं निवेदयेत ॥
पुरुषाय जले राम सर्वपापैर्विमुच्यते
एकैकया ऋचा स्नातो दत्त्वा राम फलंफलम् ॥
सर्वान्कामानवाप्नोति यान्कांश्चिन्मनसेच्छति
पौरुषेण च सूक्तेन प्राणायामो महाफलः ॥
जपहोमौ तथा राम सर्वकल्मषनाशनौ
सुरापो ब्रह्महा स्तेनस्तथैव गुरुतल्पगः ॥
पापेभ्यो विप्रमुच्येत जप्त्वा सूक्तं तु पौरुषम्
कृच्छैर्विशोधितः पूर्वं मध्याह्ने सलिलापगः ॥
स्नातस्तु पौरुषं सूक्तं जपेन्नित्यमतन्द्रितः
संवत्सरेण देवेशं वासुदेवं प्रपश्यति ॥
स्वयमेव महाभाग शाकमूलफलाशनः
तस्मात्काममवाप्नोति यद्राम मनसेच्छति ॥
श्रियमग्र्यां तथा रूपं जीवितं दीर्घमेव च
अणिमां लघिमां प्राप्तिं महिमां च भृगूत्तम ॥
ईशित्वञ्च वशित्वञ्च प्रकाम्यञ्च भृगूत्तम
यत्र कामावसायित्वं तस्मात्प्राप्नोति मानद ॥
दुरवापमथान्यद्वा यत्किञ्चिन्मनसेच्छति
अकामः पौरुषं सूक्तं जप्त्वा नित्यमतन्द्रितः ॥
तत्र याति महाभाग यद्विष्णोः परमं पदम्
मांगल्यमेतत्परमं पवित्रं संसारदुःखौघविनाशकारि ॥
सुखप्रदं धर्मविधं नराणां मनोरमावाप्तिकरं प्रदिष्टम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषसूक्तमाहात्म्यवर्णनन्नामैकोनत्रिंशदुत्तरशततमोऽध्यायः
2.130
राम उवाच ॥ ।
पुरा धर्माणि प्रोक्तानि ब्रह्मचारिगृहस्थयोः ॥
कर्माण्युक्तानि च ब्रूहि शिष्टमप्याश्रमद्वयम्
(गृहस्थधर्मानाश्रित्य काम्यानि सुरसत्तम ॥।
कर्माणि तानि मे ब्रूहि शिष्टान्यप्याश्रमद्वये
पुष्कर उवाच ।
सुखं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ॥
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः
)
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ॥
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत्
संत्यज्य ग्राम्यमाहारं सर्वञ्चैव परिच्छदम् ॥
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा
अग्निहोत्रं समादाय गृह्यं चाग्निं परिच्छदम् ॥
ग्रामादरण्यं निःसृत्य निवसेद्विजितेन्द्रियः
मुन्यन्नैर्विविधैमेध्यैः शाकमूलफलेन वा ॥
सर्वानेव महायज्ञान्निर्वपेद्विधिपूर्वकम्
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा ॥
जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखांस्तथा
यद्यच्च स्यात्ततो दद्याद्बलिं भिक्षाञ्च शक्तितः ॥
समूलफलभिक्षाभिरर्चयेदाश्रमागतान्
स्वाध्यायनित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः ॥
दाता नित्यमनादाता सर्वभूतानुकम्पकः
वैतानिकश्च जुहुयादग्निहोत्रं यथाविधि ॥
दर्शयन्स्कन्दयन्पर्वं पौर्णमासीञ्च योगतः
ऋक्षेष्ट्याग्रयणश्चैव चातुर्मास्यानि चाहरेत् ॥
उत्तरायणञ्च क्रमशो दक्षिणायनमेव च
वासन्तैः शारदैमेध्यैर्मुन्यन्नैः सुसमाहृतैः ॥
पुरोडाशांश्चरूँश्चैव विधिवन्निर्वपेत्पृथक्
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः ॥
शेषमात्मनि युञ्जीत लवणञ्च स्वयं कृतम्
स्थलजोदकशाकानि पुष्पमूलफलानि च ॥
मध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंयुतान्
वर्जयेन्मधुमांसानि भौमानि कवकानि च ॥
भूस्तृणं शिग्रुकञ्चैव भल्लातकफलानि च
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ॥
जीर्णानि चैव वासांसि पुष्पमूलफलानि च
न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥
न ग्रामजातमन्नञ्च पुष्पाणि च फलानि च
अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा ॥
अश्मविद्धो भवेद्वापि दन्तोलूखलिकस्तथा
सद्यः प्रक्षालिको वा स्यान्माससञ्चयिकोऽपि वा ॥
षण्मासनिचयो वा स्यात्समानिचय एव वा
नक्तं वान्नं समश्नीयाद्दिवा चाहृत्य शक्तितः॥
चतुर्थकालिको वा स्यात्स्याद्वा चाष्टमकालिकः
चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्तयेत् ॥
पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत्
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा ॥
कालपक्वैः स्वयं शीर्णैर्वैखानसपथि स्थितः
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ॥
स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः
ग्रीष्मे पञ्चतपास्तु स्याद्वर्षासु भावकाशकः ॥
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः
उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत् ॥
तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः
अग्नीनात्मनि वैतानान्समारोप्य यथाविधि ॥
अनग्निरनिकेतश्च मुनिर्मूलफलाशनः
अप्रपन्नः सुखार्थेषु ब्रह्मचारी धराश्रयः॥
शरणेषु समश्चैव वृक्षमूलनिकेतनः
।
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥
गृहमेध्येषु चान्येषु द्विजेषु वनवासिषु
ग्रामादाहृत्य नाश्नीयादष्टौ ग्रासान्वने वसन् ॥।
विविधाश्चोपनिषदो ह्यात्मसंशुद्धये श्रुतीः
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ॥
विद्यातपोभिवृद्ध्यर्थं शरीरस्य च शुद्धये
अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः ॥
आनिपाताच्छरीरस्य युक्तो वार्यनिलाशनम्
त्यक्त्वा तनुं सम्यगथोदितस्य विधेरथैकस्य वने निवासी ॥
प्राप्नोति लोकं स पितामहस्य त्यक्त्वा भयं नात्र विचारमस्ति
इति श्रीविप्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वानप्रस्थाश्रमकथनन्नाम त्रिंशदुत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0