भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.121.125

2.121.125.1

2.121
राम उवाच ॥
नरकाद्यान्ति तिर्यक्त्वं ततो मानुष्यमेव च ॥
तेषां चिह्नानि मे ब्रूहि मानुष्ये वरुणात्मज

2.121.125.2

पुष्कर उवाच ॥ मणिमुक्ताप्रवालानि रत्नानि विविधानि च ॥
अपहृत्य नरो राम जायते हेमकर्तृषु

2.121.125.3

यद्वा तद्वा परद्रव्यमपहृत्य नरो बलात् ॥
प्राप्नोति भृगुशार्दूल मानुष्ये भारवाहिताम्

2.121.125.4

यं कञ्चिद् घातयित्वापि प्राणिनं भृगुनन्दन ॥
मांसं भुक्त्वा तु धर्मज्ञ भवतीह गदातुरः

2.121.125.5

सुवर्णचोरः कुनखी सुरापः श्यावदन्तकः ॥
ब्रह्महा क्षयरोगी स्याहुश्चर्मा गुरुतल्पगः

2.121.125.6

पिशुनः पूतिनासः स्यात्सूचकः पूतिवक्त्रकः ॥
धान्यचौरोङ्गहीनः स्यादव्यङ्गो मिश्रहृद्भवेत्

2.121.125.7

व्याधितश्चान्नहर्ता स्यान्मूको वागपहारकः ॥
वस्त्रापहारकः श्वित्री पङ्गुश्चाश्वापहारकः

2.121.125.8

खल्वाटो मत्सरी राम नास्तिको वेदनिन्दकः ॥
भूय एव समाप्नोति तथा नास्तिकतां द्विज

2.121.125.9

अन्धो दीपापहारी स्यात्काणो निर्वापकस्तथा ॥
अन्धो भवति गोघ्नस्तु घाण्टिकस्तैलिकस्तथा

2.121.125.2.121.10

दरिद्रः परवित्तघ्नो उन्मत्तश्च तथाग्निदः ॥
प्रतिकूलो गुरोर्यस्तु सोऽपस्मारी प्रजायते

2.121.125.11

मिष्टाश्येको महाभाग वातगुल्मी भवेन्नरः ॥
खगभक्ष्यस्तु कुण्डाशी दीर्घरोगी च पीडकः

2.121.125.12

भवतीह मृगव्याधस्त्वविक्रेयस्य विक्रयात् ॥
श्लीपदी चावकीर्णी स्यान्मूर्खश्चाक्रोशको भवेत्

2.121.125.13

उक्तास्तु मुख्या हि मया तिरश्चां या योनयो यानि च लक्षणानि ॥
शक्यं न कार्त्स्येन मया प्रवक्तुं या यातनाश्चैव नराधमानाम्

2.121.125.121

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० नारकिचिह्नवर्णनन्नामैकविंशत्युत्तरशततमोऽध्यायः

2.121.125.1

2.122
मार्कण्डेय उवाच ॥
एतच्छ्रुत्वा यदुश्रेष्ठ रामो रतिकरः पितुः ॥
पपात भुवि निश्चेष्टश्छिन्नमूल इव द्रुमः ॥

2.121.125.2

तं विसंज्ञं महाभाग पीनोन्नतपयोधराः ॥
सचन्दनैः शीतजलैः सिषिचुर्देवयोषितः

2.121.125.3

वारुणेराज्ञया चान्यास्तालवृन्तैर्मनोरमैः ॥
वीजयन्ति महाभाग रामं धर्मभृतां वरम्

2.121.125.4

लब्धसंज्ञं मुहूर्तेन भार्गवं चित्तविह्वलम् ॥
आश्वासयामास तदा वारुणिः परवीरहा

2.121.125.5

।
समाश्वस्तस्ततो रामः पप्रच्छ वरुणात्मजम् ॥
दुर्गातितरणं वीरो रामो धर्मभृतां वरः

2.121.125.6

राम उवाच ॥ ॥
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः ॥
दुर्गाण्यतितरेद्येन ब्रूहि मे वरुणात्मज

2.121.125.7

पुष्कर उवाच ॥
आश्रमेषु यथोक्तेषु यथोक्तं ते द्विजातयः ॥
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते

2.121.125.8

ये दम्भान्न जहतीह येषां वृत्तिश्च संवृता ॥
विषयाँश्च न गृह्णन्ति दुर्गाण्यतितरन्ति ते

2.121.125.9

वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः ॥
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते

2.121.125.2.122.10

मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ॥
वर्जयन्ति दिवास्वापं दुर्गाण्यतितरन्ति ते

2.121.125.11

स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमृतावृतौ ॥
अग्निहोत्रपराः सन्तो दुर्गाण्यति तरन्ति ते

2.121.125.12

आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् ॥
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते

2.121.125.13

ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा ॥
निक्षिप्तदण्डा भूतानां दुर्गाण्यतितरन्ति ते

2.121.125.14

कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः ॥
येषामर्थश्च साध्वर्थो दुर्गाण्यतितरन्ति ते

2.121.125.15

ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ॥
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते

2.121.125.16

येषां न कश्चित्त्रसति त्रस्यन्ति न च कस्यचित् ॥
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते

2.121.125.17

परश्रिया न तप्यन्ते सन्तः पुरुषसत्तमाः ॥
ग्राम्यास्वाद निवृत्ताश्च दुर्गाण्यतितरन्ति ते

2.121.125.18

सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते ॥
ये श्रद्दधानाः पुरुषा दुर्गाण्यतितरन्ति ते

2.121.125.19

ये न लोभान्नयन्त्यर्थान्राजानो रजसा वृताः ॥
विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते

2.121.125.2.122.20

ये न मानितुमिच्छन्ति मानयन्ति च ये नरान् ॥
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते

2.121.125.21

ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः ॥
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते

2.121.125.22

ये क्रोधं नैव कुर्वन्ति क्रोधार्तं शमयन्ति च ॥
न च कुप्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते

2.121.125.23

मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः॥
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते

2.121.125.24

यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम् ॥
वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते

2.121.125.25

तडागारामकर्तारस्तथान्ये वृक्षरोपकाः ॥
कूपानां ये च कर्तारो दुर्गाण्यतितरन्ति ते

2.121.125.26

गवां ग्रासप्रदातारो गवां कण्डूयकाश्च ये॥
भक्तिमन्तो गवां ये च दुर्गाण्यति तरन्ति ते

2.121.125.27

पूजयन्ति सदा विप्रान्साधूनपि गुरूँस्तथा ॥
तपस्विनश्च धर्मज्ञ दुर्गाण्यतितरन्ति ते

2.121.125.28

गायत्रीजापनिरतास्तीर्थयात्रारताश्च ये ॥
ये चैकमाश्रितास्तीर्थं दुर्गाण्यतितरन्ति ते

2.121.125.29

ये चैकमाश्रिता देवं सर्वभावेन भार्गव ॥
धर्मज्ञाश्च विनीताश्च दुर्गाण्यति तरन्ति ते

2.121.125.2.122.30

सायं प्रातश्च भुञ्जानाः पिबन्त्यापस्तु ये नराः ॥
सदोपवासिनो राम दुर्गाण्यतितरन्ति ते

2.121.125.33

उपवासरता नित्यं नित्यं व्रतपरायणाः॥
नित्यं संयतचित्ताश्च दुर्गाण्यतितरन्ति ते

2.121.125.32

दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ॥
कथयन्ति च विप्रेभ्यो दुर्गाण्यति तरन्ति ते

2.121.125.33

ईश्वरः सर्वभूतानां जगतां प्रभवोऽप्ययः ॥
भक्ता नारायणे चैव दुर्गाण्यतितरन्ति ते

2.121.125.34

भक्तानां केशवे राम न भयं विद्यते क्वचित् ॥
तथा गीतश्च श्लोकोऽयं यमेन शृणु भार्गव

2.121.125.35

पृथ्वीशतस्करभुजङ्गहुताशविप्रदुःस्वप्नदुष्टगतमृत्युसपत्नजातम् ॥
संविद्यते न हि भयं भुवनैकभर्तुर्भक्ताश्च ये मधुरिपोर्मनुजेषु तेषु

2.121.125.122

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने दुर्गातितरणवर्णनन्नाम द्वाविंशत्युत्तरशततमोध्यायः

2.121.125.1

2.123
राम उवाच ॥
भूय एव समाचक्ष्व कर्मणा येन मानवाः ॥
दुर्गाण्यतितरन्त्याशु सर्वधर्मभृतां वर

2.121.125.2

पुष्कर उवाच ॥
दुर्गाण्यतितरन्त्याशु ये नरा कृच्छ्रकारिणः ॥
प्राप्नुवन्ति तथा कामान्सर्वान्वै मनसेप्सितान्

2.121.125.3

राम उवाच ॥
कृच्छ्राणां श्रोतुमिच्छामि नामानि च विधींस्तथा ॥
एवं मे ब्रूहि धर्मज्ञ त्वं हि वेत्सि यथातथम्

2.121.125.4

पुष्कर उवाच ॥
कृच्छ्राण्येतानि कार्याणि राम वर्णत्रयेण च ॥
कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो विधीयते

2.121.125.5

आदौ तु मुण्डनं कार्यं सर्वकृच्छ्रे भार्गव ॥
नित्यं त्रिषवणस्नानं केशवस्य च पूजनम्

2.121.125.6

होमः पवित्रमन्त्रैश्च तथान्ते जाप्य एव च ॥
स्त्रीशूद्रपतितानां च तथालापं विवर्जयेत्

2.121.125.7

एतत्कृच्छ्रेषु सर्वेषु कर्तव्यं चाविशेषतः ॥
वीरासनं च कर्तव्यं कामतोऽप्यथवा न वा

2.121.125.8

वीरासनेन सहितं कृच्छ्रं बहुगुणं भवेत् ॥
वीरासनेन रहितं विधिहीनं प्रकीर्तितम्

2.121.125.9

राम उवाच ॥
वीरासनमहं त्वत्तः श्रोतुमिच्छामि सुव्रत ॥
वीरासनेन सहितं कृच्छ्रं बहुगुणं यतः

2.121.125.2.123.10

पुष्कर उवाच ॥
उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ॥
एतद्वीरासनं प्रोक्तं महापातकनाशनम्

2.121.125.11

आमिक्षया तु द्वौ मासौ पक्षं तु पयसा तथा ॥
अष्टरात्रं तथा दध्ना त्रिरात्रमथ सर्पिषा

2.121.125.12

निराहारस्त्रिरात्रं तु कुर्याद्वा तालकव्रतम् ॥
सर्वपापप्रशमनं सर्वकामप्रदं तथा

2.121.125.13

स्नपयेदात्मनोऽर्थाय पावकं भृगुनन्दन ॥
वह्नौ ततोऽऽनुजुहुयाद्दद्यादन्नञ्च कस्यचित्

2.121.125.14

ब्रह्मा देवेति मन्त्रेण साध्यमाने विचक्षणः ॥
दर्भांस्तु खलु बध्नीयाद्रक्षार्थमिति नः श्रुतिः

2.121.125.15

श्रितं च श्राप्यमाणं च भाण्डे न्यस्त तथा पुनः ॥
अनेन राम मन्त्रेण नरस्त्रिरभिमन्त्रयेत्

2.121.125.16

यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः ॥
निर्णोदः सर्वपापानां पवित्रमृषिभिः। स्मृतम्

2.121.125.17

घृतं यवा मधु यवा आपो वा अमृतं यवाः ॥
सर्वं पुनीत मे पापं यन्मया दुष्कृतं कृतम्

2.121.125.18

वाचा कृतं कर्मकृतं दुःस्वप्नं दुर्विचिन्तितम् ॥
अलक्ष्मीं नाशय तथा सर्वं पुनीत मे यवाः

2.121.125.19

श्वसुकरावलीढं च ह्युच्छिष्टोपहृतं च यत् ॥
मातुर्गुरोरशुश्रूषा सर्वं पुनीत मे यवाः

2.121.125.2.123.20

गणान्नं गणिकान्नं च शूद्रान्नं च तथा विशाम् ॥
चौरस्यान्नं नवश्राद्धं सर्वं पुनीत मे यवाः

2.121.125.21

बालवृत्तमधर्मं च राजधर्मकृतं च यत् ॥
सुवर्णस्तेयमव्रात्यमयाज्यस्य च याजनम्

2.121.125.22

ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः ॥
भाण्डेन्यस्तस्य मन्त्रोऽयं ततस्तु परिकीर्तयेत

2.121.125.23

(ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा)
अनेनात्मनि धर्मज्ञ जुहुयात्प्रयतः सदा ॥
न कुर्यादतिसौहित्यं व्रतमेतद्धि यावकम्

2.121.125.24

मेधार्थिनस्त्रिरात्रं तु षड्रात्रमतिपापिनः ॥
उपपातकिनः प्रोक्तं सप्तरात्रमरिन्दम

2.121.125.25

।
महापातकिनश्चैव षड्रात्त्रं द्विगुणं स्मृतम् ॥
एकविंशतिरात्रेण कामानाप्नोत्यभीप्सितान्

2.121.125.26

मासेन सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ॥
गवां निर्हारमुक्तैस्तु यवैः कृत्वैतदेव हि ॥

2.121.125.27

फलं प्राप्नोति धर्मज्ञ तथा दशगुणं ध्रुवम् ॥
मासेन साक्षात्त्रिदशान्वेदान्विद्याश्च पश्यति

2.121.125.28

वरशापसमर्थस्तु तथा भवति भार्गव ॥
शुक्लपक्षसमारम्भादारभेत्प्रत्यहं नरः

2.121.125.29

एकैकवृद्ध्या ह्यश्नीयात्पिण्डाञ्श्रीखण्डसंयुतान् ॥
एकैकं ह्रासयेत्कृष्णे प्रतिपत्प्रभृति क्रमात्

2.121.125.2.123.30

हविष्यस्य महाभाग नाश्नीयाच्चन्द्रसंक्षये ॥
एतच्चान्द्रायणं प्रोक्तं यवमध्यं महात्मभिः

2.121.125.31

एतदेव विपर्यस्तं वज्रमध्यं प्रकीर्तितम् ॥
अष्टभिः प्रत्यहं ग्रासैर्यतिचान्द्रायणं स्मृतम्

2.121.125.32

प्रातश्चतुर्भिः सायं च शिशुचान्द्रायणं स्मृतम् ॥। ।
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम्

2.121.125.34

मासेन भक्षयेदेतत्सुरचान्द्रायणं स्मृतम् ॥
गोक्षीरं सप्तरात्रं तु पिबेत्स्तनचतुष्टयम् ।३३।
स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् ॥
स्तनात्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत्

2.121.125.35

एतत्सोमायनं नाम व्रतं कल्मषनाशनम् ॥
त्र्यहं पिबेदपस्तूष्णास्त्र्यहमुष्णं पयः पिबेत्

2.121.125.36

त्र्यहमुष्णं घृतं पीत्वा वायुभक्ष्यो भवेत्त्रयहम् ॥
तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितम्

2.121.125.37

कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतीन् ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

2.121.125.38

एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥
एतच्च प्रत्यहाभ्यस्तं महासान्तपनं स्मृतम्

2.121.125.39

कृच्छ्रं पराकसंज्ञं स्याद्द्वादशाहमभोजनम् ॥
एकभुक्तेन नक्तेन तथैवायाचितेन च

2.121.125.2.123.40

उपवासेन चैकेन कृच्छ्रपादः प्रकीर्तितः ॥
एतदेव त्रिरभ्यस्तं शिशुकृच्छ्रं प्रकीर्तितम्

2.121.125.41

त्र्यहं सायं त्र्यहं प्रातस्त्र्यहमद्यादयाचितम् ॥
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः

2.121.125.42

पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ॥
एकैकमुपवासं च सौम्यकृच्छं प्रकीर्तितम्

2.121.125.43

अम्बुसिद्धैस्तथा मासः केवलैर्वारुणं समैः ॥
फलैर्मासेन कथितं फलकृच्छ्रं मनीषिभिः

2.121.125.45

श्रीकृच्छ्रं श्रीफलैः प्रोक्तं पद्माक्षैरपरं तथा ॥
मासमामलकैरेव श्रीकृच्छ्रमपरं स्मृतम् ४४ ॥
पत्रैर्मतं पत्रकृच्छ्रं पुष्पैस्तत्कृच्छ्रमुच्यते ॥
मूलकृच्छ्रं तथा मूलैस्तोयकृच्छ्रं जलेन तु

2.121.125.46

दध्ना क्षीरेण तक्रेण पिण्याकेन कणैस्तथा ॥
शाकैर्मासं तु कार्याणि सुनामानि विचक्षणैः

2.121.125.47

सायं प्रातस्तु भुञ्जानो नरो यो नान्तरा पिबेत् ॥
षडभिर्वर्षैरिदं प्रोक्तं कृच्छ्रं नित्योपवासिता

2.121.125.48

एकभक्तेन मासेन कथितं चैकभक्तकम् ॥
न तु कृच्छ्रं तु नक्तेन महत्संवत्सराद्भवेत्

2.121.125.49

नक्ताशिनस्तु धर्मज्ञ एकभुक्तस्य वा पुनः ॥
त्र्यहं वोपवसेद्युक्तः स्नायीत सवनत्रयम्

2.121.125.2.123.50

निम्नवत्सु तथैवाप्सु त्रिः पठेदघमर्षणम् ॥ ।
देवताभाववृत्तस्तु च्छन्दश्चैवाप्यनुष्टुभम्

2.121.125.51

संस्मरेत्तस्य च तथा ऋषिं चैवाघमर्षणम् ॥
चतुर्थेऽहनि दातव्या ब्राह्मणाय तपस्विने

2.121.125.52

त्र्यहं जपेद्यथाशक्ति शुचिश्चैवाघमर्षणम् ॥
भाववृत्तस्तथा देवस्तथा च पुरुषः परः

2.121.125.53

तद्दैवत्यं विजानीयात्सूक्तं तदघमर्षणम् ॥
यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः

2.121.125.54

तथाघमर्षणं सूक्तं सर्वकल्मषनाशनम् ॥
कृष्णाजिनं वा कुतपं परिधायाथ वल्कलम्

2.121.125.55

संवत्सरं व्रतं कुर्यात्सम्मितं नाम भार्गव ॥
गृहं न प्रविशेत्तत्र भवेदाकाशशायकः

2.121.125.56

अशक्तौ वा भवेद्राम तथा शैलगुहाशयः ॥
नित्यं त्रिषवणस्नायी तथा स्याद्द्विजसत्तम

2.121.125.57

भैक्ष्यशाकफलाहारः कामं स्याद्द्विजपुङ्गव ॥
वीरासनं तथा कुर्यात्काष्ठमौनं तथैव च

2.121.125.58

सर्वकामप्रदं ह्येतत्सर्वकल्मषनाशनम् ॥
वायव्यं कृच्छ्रमुक्तं तु पाणिपूरान्नभोजिनः

2.121.125.59

मासेनैकेन धर्मज्ञ सर्वकल्मषनाशनम् ॥
तिलैर्द्वादशरात्रेण कृच्छ्रमाग्नेयमुच्यते

2.121.125.2.123.60

लाजाप्रसृतिमप्येकां कनकेन समन्विताम् ॥
भुञ्जानस्य तथा मासं कृच्छ्रं धनददैवतम्

2.121.125.61

गवां निर्हारनिर्मुक्तैर्यवैः सक्तून्समन्त्रतः ॥
याम्यं कृच्छ्रं विनिर्दिष्टं मासेन भृगुनन्दन

2.121.125.62

गोमूत्रेण चरेत्स्नानं वृत्तिं गोमयमाचरेत् ॥
गवां मध्ये सदा तिष्ठेद्गोपुरीषे च संवसेत्

2.121.125.63

गोष्वतृप्तासु न पिबेदुदकं भृगुनन्दन ॥
अभुक्तासु तु नाश्रीयादुत्थितासूत्थितो भवेत्

2.121.125.64

तथा चैवोपविष्टासु सर्वासूपविशेन्नरः ॥
मासेनैकेन कथितं गोमूत्रं कल्मषापहम्

2.121.125.65

अजाकृच्छ्रं तथैवैतदजामध्ये तु वर्ततः ॥
तृणानां भक्षणेनेह समतुल्यफले उभे

2.121.125.66

द्वादशाहेन कथितं सर्वपातकनाशनम् ॥
उपोषितश्चतुर्दश्यां पञ्चदश्यामनन्तरम्

2.121.125.67

पञ्चगव्यं समश्नीयाद्धविष्याशी त्वनन्तरम् ॥
ब्रह्मकूर्चमिदं कुर्यादुक्तप्रशमनाय वै

2.121.125.68

पक्षान्ते त्वथ वा कार्यं मासमध्ये तु वा पुनः ॥
ब्रह्मकूर्चं नरः कुर्यात्पौर्णमासेषु यः सदा

2.121.125.69

तस्य पापं क्षयं याति दुर्भुक्तादि न संशयः ॥
मासाभ्यां च नरः कृत्वा ब्रह्मकूर्चं समाहितः

2.121.125.2.123.70

सर्वपापविनिर्मुक्तो यथेष्टां गतिमाप्नुयात् ॥
ब्रह्मभूतममावस्यां पौर्णमास्यां तथैव च

2.121.125.71

योगभूतं परिचरेत्केशवं महदाप्नुयात् ॥
एवमेतानि कृच्छ्राणि कथितानि मया तव

2.121.125.72

शासनानीह पापानां दुरितानां च भार्गव ॥
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः

2.121.125.73

अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥
अज्ञातं यदि वा ज्ञातं कृच्छ्रं पापं विशोधयेत्

2.121.125.74

कृच्छ्रसंशुद्धपापानां नरकं न विधीयते ॥
श्रीकामः पुष्टिकामश्च स्वर्गकामस्तथैव च

2.121.125.75

देवताराधनपरस्तथा कृच्छ्रं समाचरेत् ॥
रसायनानि मन्त्राश्च तथा चैवौषधाश्च ये

2.121.125.76

तस्य सर्वे हि सिध्यन्ति यो नरः कृच्छ्रकृद्भवेत् ॥
वैदिकानि च कर्माणि यानि काम्यानि कानिचित्

2.121.125.77

सिध्यन्ति सर्वाणि सदा कृच्छ्रकर्तुर्भृगूत्तम ॥
तेजसा तस्य संयोगो महता चैव जायते

2.121.125.78

वाञ्छितान्मानसान्कामान्स चाप्नोति न संशयः ॥
ज्ञातो भवति देवेषु तथा चर्षिगणेषु च ॥
विपाप्मा वितमस्कश्च संशुद्धश्च विशेषतः

2.121.125.79

आराधनार्थं पुरुषोत्तमस्य कृच्छ्राणि कृत्वा मधुसूदनस्य ॥
सुरोत्तमानां समतीतलब्धं तल्लोकमाप्नोति जनार्दनस्य

2.121.125.123

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृच्छ्रप्रायश्चित्तवर्णन्नाम त्रयोविंशत्युत्तरशततमोऽध्यायः

2.121.125.1

2.124
॥ राम उवाच ॥
वैदिकानि समाचक्ष्व कर्माणि सुरसत्तम ॥
अधिकारी भवेद्येषां कृच्छ्रकारी त्वनन्तरम्

2.121.125.2

पुष्कर उवाच ॥
शृणु काम्यानि कर्माणि पुष्कलानि ममानघ ॥
प्रतिवेदं महाभाग गदतो भृगुनन्दन

2.121.125.3

अन्तर्जले तथा होमे जपेच्च मानसेप्सितम् ॥
कामं करोति गायत्री प्राणायामाद्विशेषतः

2.121.125.4

गायत्र्या दशसाहस्रो जपो नक्ताशिनो द्विज ॥
बहिः स्नातस्य तत्रैव सर्वकल्मषनाशनः

2.121.125.5

दशायुतानि जप्त्वा च हविष्याशी सुसंयतः ॥
वायुभूतस्तदाप्नोति यद्विष्णोः परमं पदम्

2.121.125.6

परस्य ब्रह्मणो राम वाचकः प्रणवः स्मृतः ॥
पुरुषस्याप्रमेयस्य सर्वगस्याविनाशिनः

2.121.125.7

तज्जपेनेह पूयन्ते येऽपि दुष्कृतकारिणः ॥
कारपूतं सलिलं नाभिमात्रोदकस्थितः

2.121.125.8

शतजप्तं पिबेद्यस्तु स पापैर्विप्रमुच्यते ॥
अकारश्चाप्युकारश्च मकारश्च भृगूत्तम

2.121.125.9

यजुर्वेदः सामवेद ऋग्वेदश्च विचक्षणैः ॥
कथितस्तु त्रिमात्रश्च प्रणवः परिकीर्तितः

2.121.125.2.124.10

मात्रात्रयं तु प्रणवस्त्रयो देवाः सनातनाः ॥
एत एव त्रयो लोकास्त्रयश्चैवाग्नयस्तथा

2.121.125.11

महाव्याहृतिभिर्होमात्सर्वपापैः प्रमुच्यते ॥
महाव्याहृतयो ज्ञेयाः सप्तलोका विचक्षणैः

2.121.125.12

गायत्री परमा जप्ये होमे व्याहृतयस्तथा ॥
अन्तर्जले तथा राम प्रोक्तश्चैवाघमर्षणः

2.121.125.13

अग्निमीळे पुरोहित सूक्तोऽयं वह्निदेवतः ॥
शिरसा धारयेद्वह्निं यो जपेत्परिवत्सरम्

2.121.125.14

होमं त्रिषवणं चैव तथा तेन समाचरेत् ॥
अनग्निज्वलनं कुर्याद्भैक्षाहारस्तु वत्सरान्

2.121.125.15

अतः परमृचः सप्त चाग्नेय्यः परिकीर्तिताः ॥
ता जपन्प्रयतो नित्यमिष्टान्कामान्समश्नुते

2.121.125.16

मेधाकामो जपेन्नित्यं सदसत्पदमित्यृचम् ॥
अम्बयो यान्ति याः प्रोक्ता न बन्धोमृत्युनाशिनी

2.121.125.17

शुनःशेफमृषिं तद्वत्संनिरुद्धोऽथ वा जपेत् ॥
मुच्यते सर्वपापेभ्यो गदाचापगदी गदन्

2.121.125.18

यदीच्छेच्छाश्वतं काममिन्द्रात्प्राप्तं पुरन्दरात् ॥
ऋग्भिः षोडशभिः स्तूयादिन्द्रमेति दिनेदिने

2.121.125.19

हिरण्यस्तूपमित्येतज्जपञ्शत्रून्प्रबाधते ॥
क्षेमी भवति चाध्माने ये ते पक्ता जपन्नरः

2.121.125.2.124.20

रौद्रीभिः षड्भिरीशानं स्तूयाद्यो वै दिनेदिने ॥
चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत्

2.121.125.21

उदित्युद्यन्तमादित्यमुपतिष्ठेद्दिनेदिने ॥
क्षिपेज्जलाञ्जलीन्सप्त मनोदुःखविनाशनम्

2.121.125.22

द्विषन्तमित्यथानर्च्य द्विष्यन्तं च जपन्स्मरेत् ॥
अगच्छन्सप्तरात्रेण विद्वेषमधिगच्छति

2.121.125.23

आरोग्यकामो रोगी च प्रस्कन्नस्योत्तमं जपेत् ॥
उत्तमस्तस्य चावजपेद्वैरविनाशने

2.121.125.24

॥
उदयत्यायुरक्षय्यं तेजोमध्यन्दिने जपेत् ॥
अस्तं व्रजति सूर्ये च द्विषन्तं प्रतिपादितम् ॥

2.121.125.25

नवपद्येति सूक्तानि जपञ्शत्रून्नियच्छति ॥
एकादश सुवर्णस्य सर्वकामांस्तु निर्दिशेत्

2.121.125.26

आध्यात्मिकैः क इत्येतज्जपन्मोक्षमवाप्नुयात् ॥
आसनो रुद्रमित्येतद्दीर्घमायुरवाप्नुयात्

2.121.125.27

त्वं सोमेति च सूक्तेन नवं पश्येन्निशाकरम् ॥
उपतिष्ठेत्समित्पाणिर्वासांस्याप्नोत्यसंशयम्

2.121.125.28

आयुरिप्सन्निदमिति कौत्ससूक्तं यदाभ्यसेत् ॥
अप नः शोशुचदिति स्तुत्वा मध्ये दिवाकरम्

2.121.125.29

यथा मुञ्जादिवेषीका तथा पापं प्रमुञ्चति ॥
जातवेदस इत्येतज्जपेत्स्वस्त्ययनं पथि

2.121.125.2.124.30

भयैर्विमुच्यते सर्वैः स्वस्तिमानाप्नुयाद्गृहम् ॥
व्युष्टायां च तथा रात्रावेतद्दुःस्वप्ननाशनम्

2.121.125.31

प्रमन्दितेति सूर्यस्य जपेद्गर्भविमोचनम् ॥
जपन्निन्द्रमिति स्नातो वैश्वदेवं तु सप्तकम्

2.121.125.32

मुञ्चत्याज्यं तथा जुह्वत्सकलं किल्बिषं नरः ॥
इमामिति जपञ्शश्वत्कामानाप्नोत्यभीप्सितान्

2.121.125.33

मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचि ॥
औदुम्बरीस्तु जुहुयाद्दधिमध्वाज्यसंस्कृताः

2.121.125.34

छित्वा सर्वान्मृत्युपाशाञ्जीवेद्रोगविवर्जितः ॥
ऊर्ध्वबाहुरनेनैव स्तुत्वा शस्त्रं तथैव च

2.121.125.35

मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ॥
अदृश्यः सर्वभूतानां जायते संशयं विना

2.121.125.36

चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ॥
समित्पाणिर्नरो नित्यं प्राप्नुयात्तु धनायुषी

2.121.125.37

एतद् दुःस्वप्नस्येति च जपन्प्रातर्दिनेदिने॥
दुःस्वप्नं दहते कृत्स्नं भोजनं चाप्नुयाच्छुभम्

2.121.125.38

उभेषुनामीति तथा रक्षा च परिकीर्तिता ॥
निर्वर्त्य पञ्चयज्ञांश्च हुत्वा चाग्निं कृताह्निकः

2.121.125.39

देवासाविति देव्येदं जपन्कामानवाप्नुयात् ॥
आततायिनमायान्तं दृष्ट्वा व्याघ्रादिकं नरः

2.121.125.2.124.40

न मा गिरन्निति जपंस्तेभ्य एव प्रमुच्यते ॥
कया शुभेति च जपञ्ज्ञातिश्रैष्ठ्यमवाप्नुयात्

2.121.125.41

इमं नु सोममित्येतत्सर्वान्कामानवाप्नुयात् ॥
पित्रन्त्वित्युपतिष्ठेत नित्यमन्नमुपस्थितम्

2.121.125.42

नास्य स्यादन्नतो व्याधिर्विषमप्यन्नतामियात् ॥
अग्ने नयेति सूक्तेन प्रत्यृचं जुहुयाद् घृतम्

2.121.125.43

पक्वान्नं प्रतिपद्येत कृत्वा चाकर्म गर्हितम् ॥
वीरान्वयं समाप्नोति सश्लोकं यो जपेत्सदा

2.121.125.44

कं कता चेति सूक्तेन विघ्नान्सर्वानपोहति ॥
यो जात इति सूक्तेन सुखमाप्नोत्यनुत्तमम्

2.121.125.45

ये पराजन्नितीमां तु दुःस्वप्नशमनामृचम् ॥
एकामाहमितीयां तु विज्ञेया श्रीकरी तथा

2.121.125.46

चतुर्दशीमुपोष्यैकां कृष्णासु जुहुयाद् घृतम् ॥
आत्तसूक्तेन रौद्रेण व्याधिमेकं विमुञ्चति

2.121.125.47

स्नात्वानश्नञ्जपेदप्सु शीतत्रयमतन्द्रितः ॥
आमिषस्येतयोर्मोहात्कृत्वा वा कर्म गर्हितम्

2.121.125.48

अध्वनि प्रस्थितो यस्तु पश्येच्छकुनमुत्थितम् ॥
अप्रशस्ते प्रशस्ते वा कनिक्रदमिदं जपेत्

2.121.125.49

अस्पृष्ट्वैव च जप्तव्यमेतत्तस्करमोहनम् ॥
ॐष्वित्यृचमपां मध्ये जपेद्यो वै नदीं तरेत्

2.121.125.2.124.50

उद्धौर्मिभिरितीमां तु जपेद्रथगतस्तरन् ॥ .
अध्वानं प्रस्थितश्चैव मन्त्रैरिति च संस्मरेत्

2.121.125.51

सुदातारं सुपुष्ट्यर्थं सर्ववेदे स्थितं नरम् ॥
नास्ति विद्यागमो यस्य सुयुक्तस्यापि भार्गव

2.121.125.52

स सर्पीरिति च जपन्मासात्तं प्रतिपद्यते ॥
यानाक्षं समभज्यन्तं दृष्ट्वा दुर्गेऽध्वनि द्विज

2.121.125.53

अभित्यवस्येति जपेदृक्षमक्षबलं दधत् ॥
कृष्णपक्षचतुर्दश्यां त्रिरात्रोपोषितः शुचिः

2.121.125.54

दक्षिणाप्रवणे देशे श्मशानस्थः समाहितः ॥
रक्तोष्णीष्यसिपाणिश्च तौलाकीभ्योऽनिलाशनः

2.121.125.55

सप्ताहं जुहुयात्तैलं सार्षपं लवणान्वितम् ॥
समिधो राजवृक्षस्य वसिष्ठे द्वेषिणीः पठन्

2.121.125.56

यं द्विष्यात्तस्य कृत्वा तु शम्या केनाहृतं निशि ॥
अधिष्ठाय च तं कुर्यादृग्भिश्च तिसृभिर्द्विजः

2.121.125.57

उद्दिश्य राम होमोऽयं सप्तरात्रं न जीवति ॥
द्वाविंशकं जपन्सूक्तमध्यात्मिकमनुत्तमम्

2.121.125.58

पर्वसु प्रयतो नित्यमिष्टान्कामानुपाश्नुते ॥
बृहस्पतिमजाश्वं च सतारं बभ्रुमेव च

2.121.125.59

पञ्चर्चेन स्तुवन्नेतान्पञ्चकामानवाप्नुयात्॥
कृणुष्वेति जपन्सूक्तं जुह्वदाज्यं समाहितः

2.121.125.2.124.60

अरातीनां हरेत्प्राणान्रक्षांस्यपि च नाशयेत्॥
उपतिष्ठेत यो वह्निं परीत्य च दिने दिने

2.121.125.61

तं रक्षति स्वयं वह्निर्विश्वतो विश्वतोमुखः॥
को अद्येति च सूक्तेन वासांसि लभते परम्

2.121.125.62

कायेति वामदेवेन कुर्यात्स्वस्त्ययनं निशि॥।
हंसः शुचिषदित्येतच्छुचिरीक्षन्दिवाकरम्

2.121.125.63

कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ॥
जुहुयात्क्षेत्रमध्ये तु शुना वाहस्तु पञ्चभिः

2.121.125.64

।
इन्द्राय च मरुद्भ्यश्च पर्जन्याय भगाय च ॥
यथालिङ्गं तु विहरेल्लाङ्गलं तु कृषीवलः

2.121.125.65

पूष्णे धान्याय सीतायै शुनासीरमथोत्तरम् ॥ ।
गन्धमाल्योपहारैश्च यजेदेताश्च देवताः

2.121.125.66

प्रवापणे प्रलपने खलसीतोपहारयोः ॥
अमोघं कर्म भवति वर्धते सर्वदा कृषिः

2.121.125.67

।
क्षेत्रस्य पत्ये तत्क्षेत्रं सूर्यदृग्विन्दते भुवम् ॥
आखूत्करेषु चरणौ यजेदेतेन मूषिकाम्

2.121.125.68

चित्रा इन्द्रेति च स्तूयान्नास्य वृष्टिभयं भवेत् ॥।
विज्येतिष्येति ज्वलयेद्यत्रेच्छेज्जातवेदसम्

2.121.125.69

समुद्रादिति सूक्तेन कामानाप्नोति पावकात्॥
विश्वानि च इति द्वाभ्यामृग्भ्यां यो वह्निमर्चति॥

2.121.125.2.124.70

स तरत्यापदः सर्वाः यशः प्राप्नोति चाक्षयम् ॥
अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितम्

2.121.125.71

उरोष्ट इति(५.३८.१) सूक्तेन वित्तमाप्नोत्यसंशयम् ॥
प्रजाकामो जपेन्नित्यं वरुणादेवसन्नया

2.121.125.72

स्वस्त्यात्रेयं जपेत्प्रातः सदा स्वस्त्ययनं जपेत् ॥
स्वस्तिपन्थामिति प्रोद्य स्वस्तिमान्व्रजतेऽध्वनि

2.121.125.73

विजहीषुर्वनस्यान्ते शत्रूणां बाधनं भवेत् ॥
स्त्रियो गर्भप्रमूढाया गर्भमोक्षणमुत्तमम्

2.121.125.74

अवच्छादिति सूक्तेन वृष्टिकामः प्रयोजयेत्॥
निराहारः क्लिन्नवासा न चिरेण प्रवर्षति

2.121.125.75

श्रियः पञ्चदशर्चं तु जपञ्जुहुयाद् घृतेन वा॥
उपैतु मां देवसख इति सर्वौषधीजलैः

2.121.125.76

सदा स्नातः श्रियं दीप्तां कुले प्राप्नोत्यसंशयम् ॥
मनसः काम इत्येतां पशुकामो नरो जपेत्

2.121.125.77

कर्दमेनेति च स्नायात्प्रजाकामः शुचि व्रतः॥
अश्वपूर्वामिति स्नायाद्राज्यकामस्तु मानवः

2.121.125.78

रोहिते चर्मणि स्नायाद्ब्राह्मणस्तु यथाविधि ॥
राजा चर्मणि वैयाघ्रे छागे वैश्यस्तथैव च

2.121.125.79

दशसाहस्रिको होमः प्रत्येकं परिकीर्तितः ॥
अप्सु वा जुहुयाद्राम पद्मान्ययुतशोऽग्निषु

2.121.125.2.124.80

इष्टान इत्यृचा वह्निं स्तुवञ्शत्रून्विनाशयेत्॥
आचार इति सूक्तेन गोष्ठे गां लोकमातरम्

2.121.125.81

उपतिष्ठेद्व्रजेच्चैव य इच्छेद्गाः सदाक्षयाः॥
वाक्सिद्धिं तु स्तुवञ्शक्रं महद्धनमवाप्नुयात्

2.121.125.82

उपैतेति मृती राज्ञो दुन्दुभीनभिमन्त्रयेत् ॥
तेजो बलं च प्राप्नोति शत्रूंश्चैव नियच्छति

2.121.125.83

तृणपाणिर्जपेत्सूक्तं रक्षोघ्नं दस्युभिर्वृतः ॥
ये के च मेत्यृचं जप्त्वा दीर्घमायुरवाप्नुयात्

2.121.125.84

यस्य नष्टं भवेद्द्रव्य सम्पूज्य स जपेन्निशि ॥
सौमारौद्रं जपन्सूक्तं सर्वपापैः प्रमुच्यते

2.121.125.85

जीमूतसूक्तेन तथा सेनाङ्गानभिमन्त्रयेत् ॥
यथालिङ्गं ततो राजा विनिहन्ति रणे रिपून्

2.121.125.86

अग्निं नरेति सूक्तेन स्तुवन्नग्निं सुखी भवेत् ॥
प्राणपेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम्

2.121.125.87

अभीतयः प्रगाथेन स्तुत्वा शक्रं धनी भवेत् ॥
शंवतीः शन्न इन्द्राग्नी जपेद्व्याधिविनाशनम्

2.121.125.88

समुद्रज्येष्ठेति जपेत्सूक्तमेतज्जयावहम् ।
वास्तोष्पते प्रतीत्येतत्सूक्तं वातोष्पतेर्जपेत्

2.121.125.89

अनीवहेति सूक्तेन भूतान्निःस्वापयेन्निशि ॥
सम्बाधे विषमे दुर्गे बन्धे वा निगडैः क्वचित्

2.121.125.2.124.90

पलायित्वा गृहीतो वा सूक्तमेतत्तथा जपेत् ॥
त्रिरात्रं नियतोपोष्य श्रपयेत्पायसं चरुम्

2.121.125.91

तेनायुतशतं पूर्णं जुहुयात्त्र्यम्बकेत्यृचा ॥
समुद्दिश्य महादेवं जीवेदब्दशतं सुखी

2.121.125.92

तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरम् ॥
उद्यन्तं मध्यमं चैव दीर्घमायुर्जिजीविषुः

2.121.125.93

व्युषा इत्युपतिष्ठेत यः प्रातः प्रयतः शुचिः ॥
प्राप्नुयात्सहिरण्यादि नानारूपधरं बहु

2.121.125.94

ध्रुवं सन्ध्यासु क्षितिषु जपन्बद्धः प्रमुच्यते ॥
इदमापः प्रवहत यत्किंचिद्दुरितं पुनः

2.121.125.95

अपः प्रविश्य तु जपन्सर्वपापैः प्रमुच्यते ॥
सूक्ताभ्यां पर एताभ्यां हुताभ्यां भूतिमाप्नुयात्

2.121.125.96

सूक्ताभ्यां तिस्र एताभ्यामास्यदल्पोदकस्थितः ॥
उपतिष्ठन्रविं देवं पञ्चरात्रे गते नरः

2.121.125.97

अनश्नन्भार्गवश्रेष्ठ महद्धर्षमवाप्नुयात् ॥
इन्द्रासोमेति सूक्तं तु कथितं शत्रुनाशनम्

2.121.125.98

यस्य लुप्येद्व्रतं मोहाद्वात्यैर्वा संसृजेत्सह ॥
उपोष्याज्यस्य जुहुयात्त्वमग्ने व्रतपा इति

2.121.125.99

आदित्यदृक्प्रमाद्रौजं जप्त्वा वादी जयी भवेत् ॥
समग्निरग्निभिश्चेति प्रपद्येद्वायुभास्करौ

2.121.125.2.124.100

अग्निं प्रथमतः स्तुत्वा महत्कष्टात्प्रमुच्यते ॥
न हीति च चतुष्केण मुच्यते महतो भयात्

2.121.125.101

ऋचं जप्त्वा य इत्येतत्सर्वान्कामानवाप्नुयात् ॥
प्राग्भोजनमिदं ब्रह्म मानवानां महर्षिणाम्

2.121.125.102

पूर्वाह्णे जपतो नित्यं त्वर्थसिद्धिः परा भवेत् ॥
अग्निनेत्याश्विनं सूक्तं मृजाकरमुदाहृतम्

2.121.125.103

समिधेति जुहोत्यग्नौ प्राप्नुयात्कीर्तिमुत्तमाम् ॥
द्विचत्वारिंशकं चैन्द्रं जप्त्वा नाशयते रिपून्

2.121.125.104

नाशं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ॥
दुःस्वप्नघ्नाः परा जप्या नरः पापैः प्रमुच्यते

2.121.125.105

शन्नो भवेति द्वाभ्यां तु भुक्त्वान्नं प्रयतः शुचिः ॥।
हृदयं पाणिना स्पृष्ट्वा व्याधिभिर्नाभिभूयते

2.121.125.106

अहोरात्रोषितः स्नात्वा शक्रं सम्पूज्य मानवः ॥
इत इत्याज्यमुत्पूय जुहुयादिन्द्रमचर्येत्

2.121.125.107

घृतं तिलं वा धर्मज्ञ भयेभ्यो विप्रमुच्यते ॥
तत्त्वामन्दमिति स्नातो हुत्वा शत्रून्प्रमापयेत्

2.121.125.108

तान्विद्यादित्यदैवत्यं जप्त्वा मुच्येत बन्धनात् ॥
यद्द्याव इति जप्त्वा च सर्वान्कामान्समश्नुते

2.121.125.109

पवित्राणां पवित्रं तु पावमानऋचः स्मृताः ॥
वैखानसऋचस्त्रिंशत्पवित्राः परमाः स्मृताः

2.121.125.2.124.110

ऋचां द्विषष्टिः प्रोक्तं चोपवसेदृषिसत्तमैः ॥
सर्वकल्मषनाशाय पावनाय शिवाय च

2.121.125.112

स्वादिष्टयेति सूक्तानां सप्तषष्टिरुदाहताः ॥
दशोत्तरा ऋचश्चैताः पावमान्यः शतानि षट् १११ ॥
एतज्जुह्वञ्जपंश्चैव घोरं मृत्युभयं जयेत् ॥
आध्यात्मिकं पवित्रं च सूक्तं जप्त्वाल्पतः क्वचित्

2.121.125.113

गतिमिष्टामवाप्नोति विन्दते महतीं श्रियम् ॥
आपोहिष्ठेति महतः प्रयुञ्जीतोदकस्थितः

2.121.125.114

सर्वपापविनिर्मुक्तस्त्वशेषफलमश्नुते ॥
उपतिष्ठेत राजानं यमसूक्तेन वै द्विज ॥

2.121.125.115

चतुर्दश्या तु कुर्वीत स्थालीपाकं यथाविधि ॥
परेयिवांसमित्येतत्सूक्तमत्र प्रयोजयेत्

2.121.125.116

पुरायुषः प्रमीयेत न स जातु कथञ्चन ॥
मृत्युमेव प्रपद्येत परं मृत्योरिव द्विज

2.121.125.117

वैशाख्यां पौर्णमास्यां तु नक्तभोजी सदा नरः ॥
पुरायुषः प्रमीयेत न स जातु कथञ्चन

2.121.125.118

फलाहारो जयेन्मृत्युं त्रिभिर्वर्षैः सदा नरः ॥
दशाक्षरं तु शान्त्यर्थं भद्रं न इति संस्मरन्

2.121.125.119

फलाहारो भवेन्मासं मासान्मासं पयः पिबेत् ॥
वायुभक्ष्यो भवेन्मासं जपन्नेतत्सहस्रशः

2.121.125.2.124.120

अन्तर्धानमवाप्नोति सिद्धान्पश्यति चारणान् ॥
प्रदेवतेति नियतो जपेत मरुधन्वसु

2.121.125.121

प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ॥
वैभीतकांस्तु त्रीनक्षान्गन्धैः समधिवासयेत्

2.121.125.122

पुष्पैरवकिरेच्चैव स्थापयित्वा विहायसि ॥
संहृत्य पादौ तौ तत्र तिष्ठेद्दक्षस्तुतिं जपेत्

2.121.125.123

प्रावे मासेत्यृचामेकां जपेच्च मनसा निशि ॥
व्युष्टायामुदिते सूर्ये द्यूते जयमवाप्नुयात्

2.121.125.124

अब्रध्नमुषसानक्तेत्येतत्स्वस्त्ययनं जपेत् ॥
नमो मित्रस्य वरुणस्य चक्षुषेति च नित्यशः

2.121.125.125

तथाज्यं जुहुयान्नित्यं भीतिभ्यो विप्रमुच्यते ॥
देवस्यरीति नित्यं तु जपेद्देवं समश्नुते

2.121.125.126

मा प्रगामीति मूढस्तु पन्थानं पथि विन्दति ॥
क्षीणायुरिति मन्येत यं कचित्सुहृदं प्रियम्

2.121.125.127

यत्तेयमिति तु स्नातस्तस्य मूर्धानमालभेत् ॥
सहस्रकृत्वा पञ्चाहं तेनायुर्विन्दते पुनः

2.121.125.128

स्रुक्स्रुवे दशमेनैव इध्ममौदुम्बरं भवेत् ॥
इदमिध्मेति जुहुयाद् घृतं प्राज्ञः सहस्रशः

2.121.125.129

पशुकामो गवां गोष्ठे अन्नकामश्चतुष्पथे ॥
पारावतः स्वस्त्ययनं स्नातकस्य विधीयते

2.121.125.2.124.130

बृहस्पते प्रथममिति ज्ञानकामस्य भार्गव ॥
वयः सुपर्णमित्येतां जपन्वै विन्दते श्रियम्

2.121.125.131

यस्ते मन्यो इति सदा मयत्नघ्नं विधीयते ॥
हविष्मतीयमभ्यस्य सर्वपापैः प्रमुच्यते

2.121.125.132

या ओषधीः स्वस्त्ययनं सर्वपापविनाशनम् ॥ ।
तस्य माया विनश्येत कायाग्निर्वर्धते तथा

2.121.125.133

बृहस्पतिः प्रतीत्येतद् वृष्टिकामः प्रयोजयेत् ॥
सर्वत्र तु परा शक्तिर्ज्ञेया प्रतिरथा तथा ॥

2.121.125.134

भूतांशं काश्यपं नित्यं प्रजाकामस्य कीर्तितम् ॥
अहं रुद्रेभिरित्येतद्वाग्ग्मी भवति मानवः

2.121.125.135

न योनौ जायते विद्वांञ्जपन्नत्रीति रात्रिषु ॥
रात्रिसूक्तं जपन्रात्रौ रात्रिक्षेमी भवेन्नरः

2.121.125.136

या कल्पयतीति जपेन्नित्यं कृत्वा विनाशनम् ॥
आयुष्यं चैव वर्चस्यं सूक्तं दाक्षायणं महत्

2.121.125.137

उत देवा इति जपेदामयघ्नं धृतव्रतः ॥
अग्ने अग्नाव इत्येद्धनकामः प्रयोजयेत्

2.121.125.138

वैभीतकेऽब्दं हुत्वाग्निं द्विषद्द्वेषं ततो जपेत् ॥
द्विषन्तु धन्विनं हुत्वा द्विषतो विन्दते धनम्

2.121.125.139

अयमग्ने जनितेति जपेदग्निं भये सति ॥
द्विमार्जन्निति पाठं तु जपन्नुत्थापयेद्द्विजः

2.121.125.2.124.140

प्रातश्च पाठयेदेनं संसदि ब्रह्मचारिणाम् ॥
इमामिति च सूक्तेन शतकृत्वोऽभिमन्त्रितम्

2.121.125.141

घृतेन पीत्वा तं प्रातः सपत्नीभिर्विमुच्यते ॥
अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनम्

2.121.125.142

श्रद्धासूक्तं जपेन्नित्यं श्रद्धाकामविवर्धनम् ॥
ब्राह्मी यद्यस्य सूक्ते द्वे जपेत नियतः सदा

2.121.125.143

शंखपुष्पीं तु पयसा ब्राह्मीपुष्पाणि सर्पिषा ॥
शतावरी तु पयसा वचामद्भिर्घृतेन वा

2.121.125.144

सूक्ताभ्यां ह्यनुमन्त्राभ्यां चैकैकं तु त्र्यहं पिबेत् ॥
श्रद्धां मेधां स्मृतिं पुष्टिं वर्णं लक्ष्मीं च विन्दति

2.121.125.145

शासन्नर्थाञ्जपन्नित्यं संग्रामे विजिगीषतः ॥
गृहीतदक्षिणादर्भान्गृहीत्वा संस्पृशेज्जपेत्

2.121.125.146

मुञ्चामि त्वा हविषेति यक्ष्माणमपकर्षति ॥
ब्रह्मणाग्निः संविदानं गर्भमृत्युविनाशनम्

2.121.125.147

अपेहीति जपेत्सूक्तं शुचिर्दुःस्वप्ननाशनम् ॥
देवाः कपोत इति तु कपोतस्योपवेशने

2.121.125.148

कौशिकस्य जपेत्सूक्तं घृतेन जुहुयात्तथा ॥
सपत्नघ्नं प्रयुञ्जीत ऋषभं जपहोमयोः

2.121.125.149

येनेदमिति जप्त्वा वै समाधिं विन्दते पराम् ॥
मयोभूर्वात इति तु गवां स्वस्त्ययनं परम्

2.121.125.2.124.150

यवानां च घृताक्तानां गोमयाग्नौ समाहितः ॥
जुहुयाद्गोष्ठ मध्ये तु दधिमध्वाज्यसंस्कृतम्

2.121.125.151

पतन्तमिति नित्यं तु जपेत विजने वने ॥
शाम्बरीमिन्द्रजालां वा मालामेतेन धारयेत्

2.121.125.152

अदृश्यानां च सत्त्वानां मायामेतेन बाधते ॥
न प्रतिष्ठेति स्वस्त्ययनं नारीगर्भविवर्धनम्

2.121.125.154

विष्णुर्ण्यानमितीमं च तथैवापरमुच्यते ॥
महित्यृणां मवोस्विति परिस्वस्त्ययनं जपेत् ॥ १५३ ।
प्रापयेद्विद्विषद्वेषं जपेच्च रिपुनाशनम् ॥
आयङ्गौः सप्तराज्ञस्तु सर्पानेतैः प्रसाधयेत् ॥

2.121.125.155

संसमिद्युवसेच्चैतत्सौभ्रातृकरणं महत ॥
तच्छंयोरावृणीमहे जपेत्स्वस्त्ययनं सदा

2.121.125.156

पितॄणां संहितां विद्यात्पितॄन्प्रीणाति वै तथा ॥
वास्तोष्पतेन मन्त्रेण यजेत गृहदेवताम्

2.121.125.157

तल्लिङ्गैर्देवतामन्त्रैर्देवाराधनमुच्यते ॥
जपस्येष विधिः प्रोक्तो हुते यज्ञे विशेषतः ॥

2.121.125.158

होमान्ते दक्षिणा देया यथाशक्त्या च भार्गव ॥
हुतेन शम्यते पापं हुतमन्नेन शम्यते

2.121.125.159

अन्नं हिरण्यदानेन अमोघा ब्राह्मणाशिषः॥
सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा

2.121.125.2.124.160

क्षीरवृक्षास्तथेध्माश्च सर्वकामप्रदाः स्मृताः ॥
समिधः कण्टकिन्यश्च राजिका रुधिरं विषम् ॥

2.121.125.161

तैलं च भृगुशार्दूल विज्ञेयमभिचारकम् ॥
सक्तवः फलमूलानि शाकानि विविधानि च

2.121.125.162

पयो दधि सुवर्णं च भैक्ष्यं नाशनमुच्यते ॥
हविःस्नानं च कर्तव्यं सर्वत्र भृगुसत्तम

2.121.125.163

ऋचां विधानं कथितं तवैतत्समासतः कर्मकरं द्विजानाम् ॥
ततो विधानं यजुषां निबोध समासतो धर्मभृतां वरिष्ठ

2.121.125.124

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० ऋग्विधानं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः

2.121.125.1

2.125
पुष्कर उवाच ॥
ॐकारपूर्विका नाम महाव्याहतयः स्मृताः ॥
सर्वकल्मषनाशिन्यः सर्वकर्मप्रदास्तथा

2.121.125.2

आज्याहुतिसहस्रेण देवमाराधयेद्द्विज॥
मनसः कांक्षितं राम मनसेप्तितकामदम्

2.121.125.3

शान्तिकामो यवैः कुर्यात्तिलैः पापापनुत्तये ॥
धान्यैः सिद्धार्थकैश्चैव सर्वकामकरं तथा

2.121.125.4

औदुम्बरीभिरिध्माभिः पशुकामस्य शस्यते ॥
दश चैवान्नकामस्य पयसा शान्तिमिच्छतः

2.121.125.5

अपामार्गसमिद्भिश्च कामयन्कनकं बहु ॥
कन्याकामो घृताक्तानि युग्मशो ग्रथितानि च

2.121.125.6

जातीपुष्पाणि जुहुयाद्वामार्थी तिलतण्डुलम् ॥
वशीकर्मणि शाखोटवाशापामार्गमेव च

2.121.125.7

वसासृङ्मिश्रसमिधो व्याधिघातस्य भार्गव ॥
क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया

2.121.125.8

सर्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विजः ॥
सहस्रशस्तु जुहुयात्प्रजावशगतो भवेत्

2.121.125.9

वस्त्रकामस्य पुष्पाणि दूर्वा व्याधिविनाशनी ॥
ब्रह्मवर्चसकामस्य वामाग्रं च विधीयते

2.121.125.2.125.10

प्रत्यङ्गिरेप्सुर्जुहुयात्तुषकण्टकभस्मभिः ॥
विद्वेषणे च पक्षाणि काककौशिकयोस्तथा

2.121.125.11

कापिलं तु घृतं हुत्वा तथा चन्द्रग्रहे द्विज ॥
वचाचूर्णेन संपीतांस्तानानीय च तां वचाम्

2.121.125.12

सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ॥
सूर्योदयेऽर्काभिमुखं पुत्रकामो जपेन्नरः

2.121.125.13

एकादश्यां गुग्गुलं लौहं बैल्वं खादिरमेव वा ॥
द्विषन्तन्त्वां बधानीति निखनेद्रिपुवेश्मनि

2.121.125.14

उच्चाटनमिदं कर्म शत्रूणां कथितं तव ॥
शक्रं ध्रुवं भूपतये महाव्याहृतिभिर्भवेत्

2.121.125.15

सूर्यस्त्वेति तथा मन्त्रं ज्ञेया प्रत्यङ्गिरा परा ॥
एतेनौदुम्बरैरिध्मैर्देवं वर्षापयेद्ध्रुवम्

2.121.125.16

अहोरात्रं जले जप्त्वा चक्षुष्मानित्ययं द्विज ॥
प्रणष्टचक्षुर्धर्मज्ञ योगमाप्नोति चक्षुषः

2.121.125.17

उपप्रयन्तमित्येतद्धुत्वा विप्रो महानसे ॥
अनुवाकं महाभाग नित्यसन्नेन युज्यते

2.121.125.18

तनूपाग्नेऽसि इति च दूर्वा हुत्वा रुजान्वितः ॥
व्याधिमोक्षमवाप्नोति नात्र कार्या विचारणा

2.121.125.19

इहैव तेभ्यः पतितं गृहीत्वा गोमयं द्विज ॥
घृताज्यमधुसंयुक्तं हुत्वा धेनुं तु तां लभेत्

2.121.125.2.125.20

एष ते रुद्रभागेति हुत्वा राम गवेधुकाम् ॥
अर्धर्चेन तथाप्नोति धनं नास्त्यत्र संशयः

2.121.125.21

अर्धर्चेन द्वितीयेन क्षेत्रमध्ये बलिं हरेत् ॥
मूषिकाशलभोत्पाते सुरामांसासवादिभिः

2.121.125.22

भेषजमिति मन्त्रेण दध्याज्यमधुहोमकः ॥
चतुष्पदानां सर्वेषामुपसर्गं विनाशयेत्

2.121.125.23

त्र्यम्बकं यजामहेति होमः सर्वार्थसाधकः ॥
कन्यानाम गृहीत्वा च कन्यालाभकरः परः

2.121.125.24

भयेषु च जपेन्नित्यं भयेभ्यो विप्रमुच्यते ॥
धत्तूरपुष्पं सघृतं तथा हुत्वा चतुष्पथे

2.121.125.25

।
शून्ये शिवालये वापि शिवात्कामानवाप्नुयात् ॥
हुत्वा च गुग्गुलं राम स्वयं पश्यति शङ्करम्

2.121.125.26

अकृत्या इति चैवाष्टौ ऋचो हुत्वा घृतादिभिः ॥
अन्वहं त्वापदां नाशं स्वकुले कुरुते धुवम्

2.121.125.27

भवत्युत्तरवादी च जप्त्वा च विदसीत्यृचम् ॥
अग्नेस्तनोरिति तथा हुत्वा च तिल तण्डुलैः

2.121.125.28

सहस्रशस्तु धर्मज्ञ भवेत्सर्वातिथिर्नरः ॥
युञ्जते मन इत्येतदनुवाकं तु वैष्णवम्

2.121.125.29

सायं प्रातः समासीत दीर्घमायुरवाप्नुयात् ॥
दिवो वा विष्ण इत्यस्य कर्म व्याहृतिवद्भवेत्

2.121.125.2.125.30

विष्णोरराटमित्येतत्सर्वबाधाविनाशनम् ॥
रक्षोघ्नं च यशस्यं च तथैव विवर प्रदम्

2.121.125.31

अयन्नो यज्ञ इत्येतत्संग्रामे विजयप्रदम् ॥
इदमापः प्रवहत स्नाने पापापनोदनम्

2.121.125.32

दैवांश इति दैवेतदभिचारेषु योजयेत् ॥
व्याधिघातः समिद्भिस्तु राजिकासृग्विषैस्तथा

2.121.125.33

यक्ष्माहीति तथा हुत्वा बहिर्निर्गम्य मानवः॥
उपश्रुतिं तु गृह्णीयात्सा तस्यावितथा भवेत्

2.121.125.34

अग्ने पवस्वेति हुतं ब्रह्मवर्चसकारकम् ॥
उदुत्यं चित्रमित्यस्य कर्म व्याहतिवद्भवेत्

2.121.125.35

यस्मान्नरादभ्यधिको नरो भवितुमिच्छति ॥
स्वस्ति नेन्द्रेति तु जपेत्तस्य नामान्तसंयुतम्

2.121.125.36

भवत्यभ्यधिकस्तस्माद्विद्यया यशसा श्रिया ॥
तथा होमादनेनैव दासलाभमवाप्नुयात्

2.121.125.37

विश्वकर्म हविष्यं च सूचीं लौहीं दशाङ्गुलीम् ॥
कन्याग्रे निखनेद्द्वारि ततस्सास्मै प्रदीयते

2.121.125.38

देवस्येति तरीतेन हुतेनैवान्नवान्भवेत् ॥
वाजस्यसति चैतेन हुत्वाज्यं सप्तभिर्द्विजः

2.121.125.39

यदेव जुहुयात्पश्चात्तदेवाक्षयमाप्नुयात् ॥
अग्ने अच्छेति जुहुयाद्धनकामो द्विजोत्तमः ॥

2.121.125.2.125.40

तिलैर्यवैश्च धर्मज्ञस्तथापामार्गतण्डुलैः ॥
सहस्रमन्त्रितां कृत्वा तथा गोरोचनां द्विजः

2.121.125.41

तिलकं च तथा कृत्वा जनस्य प्रियतां व्रजेत् ॥
पौर्णमास्यां तथा हुत्वा मेघं राजानमित्यपि

2.121.125.42

उपस्थानं तथा कृत्वा दत्त्वा चान्नं द्विजन्मने ॥
सोमयाजी भवेद्राम नात्र कार्या विचारणा

2.121.125.43

एष ते निरृतेत्याभिरभिचारककर्मणा ॥
गृहान्नैरृत्यके भागे हुत्वा स्नात्वा नदीजले

2.121.125.44

कापिलाद्गोमयान्नित्यं पञ्चगव्याभिषेचितम् ॥
कृत्वा रुद्रांस्तथा जप्त्वा मैत्र्यमाप्नोति गुह्यकैः

2.121.125.45

रुद्राणां च तथा जप्यं सर्वाघविनिषूदनम् ॥
सर्वकर्मकरं होमं तथा सर्वत्र शान्तिदम्

2.121.125.46

अजाविकानामश्वानां कुञ्जराणां तथा गवाम् ॥
मनुष्याणां नरेन्द्राणां बालानां योषितामपि

2.121.125.47

ग्रामाणां नगराणां च देशानामपि भार्गव ॥
अनिद्रुतानां धर्मज्ञ व्याधितानां तथैव च

2.121.125.48

मरणे समनुप्राप्ते रिपुजे च तथा भये ॥
रुद्रहोमः परा शान्तिः पायसेन घृतेन च

2.121.125.49

कूष्माण्डैर्घृतहोमेन सर्वान्पापानपोहति ॥
सक्तुयावकभैक्ष्याशी नक्तं मनुजसत्तम

2.121.125.2.125.50

बहिः स्नानरतो मासान्मुच्यते ब्रह्महत्यया ॥
मधुवातेति मन्त्रेण हुत्वैवाज्यमतन्द्रितः

2.121.125.51

सहस्रशस्तु धर्मज्ञ दीर्घमाप्नोति जीवितम् ॥
हुत्वा दध्ना तथा पुत्रान्प्राप्नोति मनसेप्सितान्

2.121.125.52

गुग्गुलोः कणिकाभिस्तु सौभाग्यं विन्दते ध्रुवम् ॥
कृत्वाष्टपत्रं कमलं तन्मध्ये शशिनं लिखेत्

2.121.125.53

लवणेन ततस्तस्य पूजां कृत्वा यथाविधि ॥
सौभाग्यं महदाप्नोति मधुवातेति वै जपन्

2.121.125.54

जप्त्वा पुष्पवतीत्येवं मन्त्रं राम सहस्रशः ॥
देवतायै निवेद्यैव कुसुमानि शिवं भवेत्

2.121.125.55

जीमूतस्यैव भवति मन्त्रं जयकरं द्विज ॥
पयस्वतीति पयसा तथा हुत्वा सहस्रशः

2.121.125.56

ब्रह्मवर्चसमाप्नोति दध्ना वा भृगुनन्दन ॥
दधिक्राव्णेति हुत्वा तु पुत्रान्प्राप्नोत्यसंशयम्

2.121.125.57

तथा घृतवतीत्येतदायुष्यं स्याद् घृतेन तु ॥
बोधश्च मेति कथितं तथा स्वस्त्ययनं परम्

2.121.125.58

स्वस्ति न इन्द्रेत्येतं च सर्वबाधाविनाशनम् ॥
इह गावः प्रजायध्वमिति पुष्टिविवर्धनम्

2.121.125.59

स्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलम् ॥
मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः

2.121.125.2.125.60

बहित्वदन्यदित्येतत्कर्म व्याहृतिवद्भवेत् ॥
भद्रयन्ते पलाशस्य समिद्भिः कनकं लभेत्

2.121.125.61

हंसः शुचिषदित्येतज्जपंस्तोयेऽघनाशनम् ॥
चत्वारि शृङ्गेत्येतच्च सर्वपापहरं जले

2.121.125.62

देव यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ॥
जप्त्वा पितृभ्य इत्येतत्तृप्तिं प्राप्नुयान्नरः

2.121.125.63

वसन्तेति च हुत्वाज्यमादित्याद्धनमाप्नुयात् ॥
शिवो भवस्वाग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः

2.121.125.64

याम्येन इति चैतच्च तस्करेभ्यो भयावहम् ॥
दंष्ट्राभ्यामिति चैतच्च व्रीहिभिर्जुहुयान्नरः

2.121.125.65

यो अस्मभ्यमरातीयान्हुत्वा कृष्णतिलैर्नरः ॥
सहस्रशोऽभिचारात्तु मुच्यते विकृतिं द्विजः

2.121.125.66

अन्नेनान्नपतेत्वेतद्धुत्वा चान्नमवाप्नुयात् ॥
सुपर्णोऽसीति दैत्यस्य कर्म व्याहृतिवद्भवेत्

2.121.125.67

मनः स्वतीति जप्त्वा च बन्धनान्मोक्षमाप्नुयात् ॥
रोपयेत वचां राजा चन्द्रे ग्रस्ते जलाशये

2.121.125.68

या ओषधय इत्येतज्जपंस्तामुद्धरेत्पुनः ॥
तिरात्रोपोषितः कूर्चां कृत्वा तां ताम्रभाजने

2.121.125.69

तेनैव मन्त्रितां चन्द्रं दृष्ट्वा मासं सदा जपेत् ॥
सकापिलघृतक्षीरे पीत्वा श्रुतिधरो भवेत् ॥

2.121.125.2.125.70

एतमेवौषधीपाने सदा मन्त्रं जपेद्द्विज ॥
सिद्धा भवन्त्योषधयो मन्त्रेणानेन मन्त्रिताः

2.121.125.71

द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥
अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः

2.121.125.72

इह गावः प्रजायध्वं मन्त्रोऽयं पुष्टिवर्धनः ॥
हुतस्तु सर्पिषा दध्ना पयसा पायसेन वा

2.121.125.73

शतं व इति चैतेन हुत्वा पर्णफलानि वै ॥
आरोग्यं चिरमाप्नोति दीर्घमाप्नोति जीवितम्

2.121.125.74

ओषधीः प्रतिमोदध्वं जपेत्कर्मकवत्सदा ॥
लवने बीजवापे वा विशेषात्सिद्धिमाप्नुयात्

2.121.125.75

सर्वौषधीः समानीय सर्वव्रीहियुतास्ततः ॥
क्षेत्रमध्ये द्विजो हुत्वा कृषिमाप्नोति पुष्टिदाम्

2.121.125.76

अपामार्गं यवं धान्यमोषधीरिति मातरः ॥
गोकामश्चाश्वकामो वा तं कामं शीघ्रमाप्नुयात्

2.121.125.77

ओषधीः समजन्तेति हुत्वा चाज्येन मानवः ॥
भयमाप्नोति नैवेह यातुधानभवं क्वचित्

2.121.125.78

ग्रन्थावतीति चैतेन पायसं जुहुयाद्द्विज ॥
सर्वत्र शान्तिमाप्नोति नात्र कार्या विचारणा

2.121.125.79

सीरां युञ्जति इत्येतद्धुत्वा कृषिमवाप्नुयात् ॥
उच्छुग्मा इति चैतेन बन्धनस्थो विमुच्यते

2.121.125.2.125.80

युवा सुवासा एतेन वासांस्याप्नोत्यसंशयम् ॥
यस्मिँश्चापः स्थितः काष्ठे तद्गृहीत्वा विचक्षणः

2.121.125.81

सायं यक्ष्मेति मन्त्रेण शत्रोस्तु निखनेत्पदे ॥
कुष्ठी भवति चाषस्य पक्षं गृध्रस्य वा पुनः

2.121.125.82

सहस्रमन्त्रितं कृत्वा शत्रोः प्रतिकृतिं ततः ॥
तेन बद्ध्वा ततो मृत्युं शत्रुः प्राप्नोत्यसंशयम्

2.121.125.83

शत्रुं तु नाशयत्याशु सर्वातङ्कविनाशनम् ॥
प्रपतन्तीति च ऋचा जुहुयादोषधीर्द्विज

2.121.125.84

मिष्टान्नभागी भवति भाण्डानां चैव रक्षिता ॥
मा मा हिंसीति चाज्येन हुतं रिपुविनाशनम्

2.121.125.85

कान्तारमध्वरस्येति मधुसैन्धवसंयुताम् ॥
सौभाग्यकामो जुहुयात्स्त्रियो वा पुरुषस्य वा

2.121.125.86

होमो द्रप्सश्च स्कन्देति वश्यकामस्य शस्यते ॥
नमोस्तु सर्पेभ्य इति पायसं सघृतं नरः

2.121.125.87

नागस्थानेति जुहुयात्सुवर्णं प्राप्नुयाद्बहु ॥
कृणुष्व पाज इत्येतदभिचारविनाशनम्

2.121.125.88

अग्ने तिष्ठेति जुहुयाद्द्रव्याः खल्वभिचारकाः ॥
शत्रोर्नाम गृहीत्वा तु शत्रुं कुर्यात्तदा वशे

2.121.125.89

दूर्वाकाण्डायुतं हुत्वा काण्डात्काण्डेति मन्त्रतः ॥
ग्रामे जनपदे वापि मरकं तु शमं नयेत्

2.121.125.2.125.90

रोगार्तो मुच्यते रोगात्तथा दुःखात्तु दुःखितः ॥
औदुम्बर्यस्तु समिधो मधुमान्नो वनस्पतिः

2.121.125.91

हुत्वा सहस्रशो राम धनमाप्नोति मानवः ॥
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम्

2.121.125.92

योगादिति तथा हुत्वा देवं वर्षापयेद्ध्रुवम् ॥
अपः पिबन्निति तथा हुत्वा दधिघृतं मधु

2.121.125.93

प्रवर्तयति धर्मज्ञ महावृष्टिमनन्तरम् ॥
अग्निर्देवतेति तथा यवमुष्ट्ययुतं द्विज

2.121.125.94

हुत्वा श्रद्धेयवाक्यस्तु सर्वत्रैवाभिजायते ॥
अयं पुरेति जुहुयादनुवाकेन मानवः

2.121.125.95

घृतपूर्णानि पद्मानि सहस्रं भृगुनन्दन ॥
कन्यां तां समवाप्नोति यामसौ मनसेप्सति

2.121.125.96

श्रियमाप्नोति च तथा धनमाप्नोत्यनुत्तमम् ॥
नमस्ते रुद्र इत्येतत्सर्वोपद्रवनाशनम्

2.121.125.97

सर्वशान्तिकरं प्रोक्तं महापातकनाशनम् ॥
रक्षोघ्नं च यशस्यं च श्रीरायुःपुष्टिवर्धनम्

2.121.125.98

अभ्यवोचदित्यनेन रक्षा स्याद्व्याधितस्य तु ॥
सिद्धार्थकानां क्षेपेण पथि चैतत्सदा पठेत्

2.121.125.99

क्षेमेण स्वगृहानेति सर्वबाधाविवर्जितः ॥
असौ यस्ताम्र इत्येतत्पठेन्नित्यं दिवाकरम्

2.121.125.2.125.100

उपतिष्ठेत धर्मज्ञ सायंप्रातरतन्द्रितः ॥
अन्नमक्षय्यमाप्नोति दीर्घमायुश्च विन्दति

2.121.125.101

प्रमुञ्चन्तो न इत्येतत्षड्भिरायुधमन्त्रणम् ॥
रिपूणां भङ्गदं युद्धे नात्र कार्या विचारणा

2.121.125.102

मानो महान्त इत्येतद्बालानां शान्तिकारकम् ॥
नमो हिरण्यबाहवे इत्यनुवाक् हर्षकारकम् ॥
राजिकां तिलतैलाक्तां जुहुयाच्छत्रुनाशनम्

2.121.125.104

॥।
नमो वः किरिकेभ्यश्च पद्मलक्षे हुते नरः ॥
राजलक्ष्मीमवाप्नोति नात्र कार्या विचारणा ॥
बिल्वानां च तथा हुत्वा कनकं बहु विन्दति ॥१ ०३ ।
इमा रुद्रायेति तिलैः कृत्वा होमं विचक्षणः ॥
शीघ्रमेव महाभाग धनमाप्नोति चिन्तितम्

2.121.125.105

अनेनैव तु मन्त्रेण दूर्वाहोमेन मानवः ॥
सर्वव्याधिविनिर्मुक्तो भयान्सर्वान्व्यपोहति

2.121.125.106

वरारोहेण इध्मानां याते रुद्रशिवा-तनूः ॥
हुत्वाऽयुतं तु धर्मज्ञं पुत्रमाप्नोत्यभीप्सितम्

2.121.125.2.125.110

असंख्याताः सहस्राणि मन्त्रैस्तदभिचारकम् ॥
नमोऽस्तु रुद्रेभ्य इति प्रोक्ता प्रत्यङ्गिरा परा ॥ १ ०७॥
रक्तोष्णीषो रक्तवासा रक्तमाल्यानुलेपनः ॥
अनेनैव श्मशाने तु लोहशङ्कुं नरोत्तम ॥१ ०८॥
प्रादेशमात्रं जुहुयात्सहस्रं भृगुनन्दन ॥
कृत्यामुत्थापयेज्जातां रक्तकुम्भेन पूजयेत् ॥१ ०९॥
पूर्णपात्रेण च तथा सर्वकर्मकरो भवेत ॥
आशुः शिशान इत्येतदायुधानां च रक्षणम्

2.121.125.111

संग्रामे कथितं राम सर्वशत्रुविनाशनम् ॥
इमं सोममित्येतन्नदीं गत्वा समुद्रगाम्

2.121.125.112

स्नातस्तोयेऽयुतं जप्त्वा हुत्वा दशशतं ततः ॥
साष्टं मनुजशार्दूल ग्राममाप्नोत्यभीप्सितम्

2.121.125.113

वाजश्च मेति जुहुयात्सहस्रं पञ्चभिर्द्विज ॥
आज्याहुतीनां धर्मज्ञ चक्षुरोगाद्विमुच्यते

2.121.125.114

मनोभवस्वेति गृहे तथा हुत्वा विचक्षणः ॥
वास्तुदोषांस्ततः सर्वान्क्षिप्रमेव व्यपोहति

2.121.125.115

अग्न आयूंषि चैतेन हुत्वेवाज्यमतन्द्रितः ॥
सहस्रशस्तु धर्मज्ञ वशं नाप्नोति केनचित्

2.121.125.116

अपाम्फेनेति लाजाभिर्हुताभिर्जयमाप्नुयात् ॥
भद्रा इतीन्द्रियैर्हीनो जपन्स्यात्सकलेन्द्रियः

2.121.125.117

अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ॥
अध्वनीति जपन्मन्त्रं व्यवहारे जयी भवेत्

2.121.125.118

ब्रह्मराजभ्यामिति च कर्मारम्भेषु वै जपेत् ॥
सर्वेषु सर्वधर्मज्ञ तेषां सिद्धिमुपाश्नुते

2.121.125.119

नूनपादोसुर इति न्यग्रोधे द्विजसत्तम ॥
अशोकपुष्पान्सघृताञ्जुहुयाल्लक्षसंमितान्

2.121.125.2.125.120

ततो दानवकन्यां तु स्वयमेवेह पश्यति ॥
अनुवाकस्य शेषेण तस्यान्नं विनिवेदयेत्

2.121.125.121

ददाति सा ततो रुक्मं तूष्णीं तत्रेच्छया भवेत् ॥
अनुगच्छेत्ततस्तूष्णीं पाणौ सङ्गृह्य सा नरम्

2.121.125.122

बिलं प्रवेशयेद्राम नात्र कार्या विचारणा ॥
शून्यायतनमासाद्य माषमिश्रमथौदनम्

2.121.125.123

कया नश्चित्र इत्येतज्जपंस्तु जुहुयान्नरः ॥
हुते शतसहस्रे तु तस्य विद्याधरः स्वकाम्

2.121.125.124

सुवर्णराशिं धर्मज्ञ शीघ्रमेव प्रयच्छति ॥
संवत्सरोशीत्यनया घृतं हुत्वा विचक्षणः

2.121.125.125

यावज्जीवमरोगी स्याल्लक्षहोमेन पण्डितः ॥
केतुं कृण्वन्नित्येतत्संग्रामे जयवर्धनम्

2.121.125.126

ऐन्द्राग्नं वर्म इत्येतद्रणे सन्नाहबन्धनम् ॥
धननागेति मन्त्रश्च धनुर्ग्रहणिकः परः

2.121.125.127

वक्ष्यन्तीति तथा मन्त्रो विज्ञेयो ज्याभिमन्त्रणे ॥
मन्त्रश्चाहिरिवेत्येतत्तृणमन्त्रः प्रकीर्तितः

2.121.125.128

युञ्जतीति तथाश्वानां योजने मन्त्र उच्यते ॥
आशुः शिशान इत्येतद्गात्रालम्भनमुच्यते

2.121.125.129

विष्णोः क्रमेण मन्त्रश्च रथारोहणिकः परः ॥
आजंघन्तीति चाश्वानां ताडनीय उदाहृतः

2.121.125.2.125.130

यः सेना अभीत्वरीति परसैन्यमुखो जपेत् ॥
डुण्डुभ इति वाप्येतड् डुण्डुभीताडने भवेत्

2.121.125.131

एतैः पूर्वहुतैर्मन्त्रैः कृत्वैवं विजयो भवेत् ॥
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः

2.121.125.132

रथमुत्पादयेच्छ्रीघ्रं संग्रामे विजयप्रदम् ॥
आकृष्णेति तथैतस्य कर्म व्याहतिवद्भवेत्

2.121.125.133

युवं च्यवानमेतच्च भयेषु भयनाशनम् ॥
घृताहुतिसहस्रेण नात्र कार्या विचारणा

2.121.125.134

मित्रं हुवेत इत्येतन्मेधाकामस्य शस्यते ॥
स राज इति चैतेन देवताराधनं नरः

2.121.125.135

कुयाद्भार्गव सर्वत्र होमजप्यैर्यथेप्सितम् ॥
शिवसङ्कल्पजप्येन समाधिं मनसो लभेत्

2.121.125.136

पञ्च नद्य इत्यनेन पद्मलक्षं घृताप्लुतम्॥
हुत्वा शीघ्रमवाप्नोति श्रियं ते पद्ममालिनीम्

2.121.125.137

उभावपि त इत्येतद्रूपकामस्य शस्यते ॥
यदाबध्नन्दाक्षायणा मन्त्रेणानेन मन्त्रितम्

2.121.125.138

सहस्रकृत्वः कनकं धारयेद्रिपुनाशनम्॥
गुह्यकानां च सर्वेषां तथा निर्वहणं परम्

2.121.125.139

इमं जीवेभ्य इति च सीतालोष्टं चतुर्दिशम् ॥
क्षिपेद्गृहे तदा तस्य न स्याच्चोरभयं निशि

2.121.125.2.125.140

परी मे गामनेषतेति वशीकरणमुत्तमम् ॥
हर्तुमप्यागतस्तस्य वशीभवति मानवः

2.121.125.141

भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितं तु प्रयच्छति ॥
यस्य धर्मस्य वशगः सोऽस्य शीघ्रं भविष्यति

2.121.125.142

शन्नोमिति त इत्येतत्सदा सर्वत्र शान्तिदम् ॥
मनसः काममाकूतिः पुष्टिकामस्य शस्यते

2.121.125.143

चमषट्कं च धर्मज्ञ सर्वकामकरं स्मृतम् ॥
षट्केन च तथा होमः सर्वदेवप्रसादनः

2.121.125.144

औदार्येणोदकं स्पृष्ट्वा तद्दोषाद्विप्रमुच्यते ॥
विवृतं चैतदाज्येन हुतं शूलापहं भवेत्

2.121.125.145

गणानां त्वा गणपतिं होम कृत्वा चतुष्पथे ॥
वशे कुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम्

2.121.125.146

वैकङ्कतेध्महोमे च समास्त्वाग्न इतीत्यपि ॥
यशसा योगमाप्नोति विपुलं नात्र संशयः

2.121.125.147

अग्निर्मूर्धेतिमन्त्रेण हुत्वैवाज्यं हुताशने ॥
तत्प्रसादमवाप्नोति नात्र कार्या विचारणा

2.121.125.148

एवं हि देवतालिङ्गैस्तथा राम यथा स्वकैः ॥
हुतैः प्रसादयेदिष्टां देवतां नात्र सशयः

2.121.125.149

हिरण्यवर्णाः शुचयो मन्त्रोऽयमभिषेचने ॥
शन्न आपश्च धन्वन्याः सर्वपापहराः स्मृताः

2.121.125.2.125.150

शन्नो देवीरभिष्टये चेति शान्तिकरः परः ॥
एकचक्रेति मन्त्रेण हुतेनाज्येन भार्गव

2.121.125.151

ग्रहेभ्यः शीघ्रमाप्नोति प्रसादं नात्र संशयः ॥
याज्यानुवाकौ वृक्षाणां समाग्ने वर्च इत्यपि

2.121.125.152

तत्प्रसादमवाप्नोति नात्र कार्या विचारणा ॥
गावो भग इति द्वाभ्यां हुत्वैवाज्यं सहस्रशः

2.121.125.153

गाः समाप्नोति धर्मज्ञ नात्त्र कार्या विचारणा ॥
उदुत्तमं वरुण इति जुहुयाद्भृगुनन्दन

2.121.125.154

नदीवाहतडागेषु सुकृतेषु द्विजोत्तम ॥
संवदत्तां हिरण्यकोशं रूपं कृत्वा तथैव च

2.121.125.155

प्रवादसां सेति चैव गृहे यज्ञो विधीयते ॥
देवेभ्यो वनस्पत इति ब्रह्मयज्ञो विधीयते

2.121.125.156

रात्रीयख्य इति द्वाभ्यां रात्रियज्ञाः प्रकीर्तिताः ॥
शमे शमीकं शम्याकामश्वत्थं प्लक्षमेव च

2.121.125.157

उदुम्बरं च न्यग्रोधमपामार्गं च गोमयम्॥
यां कुर्याद्दर्भपिंजूलां दूर्वां प्राचीनगामिनीम्

2.121.125.158

सीतां लोष्टं सुवर्णं च तथा वल्मीकमृत्तिकाम् ॥
सं वः सृजामीति द्वाभ्यां बीजान्यप्सु विनिक्षिपेत्

2.121.125.159

या ओषधय इत्येतदनुवाकं ततो जपेत् ॥
अपामिवेद्विति ततः प्रोक्षणं तु विधीयते

2.121.125.2.125.160

इन्नोभयमितीत्येतच्चाष्टर्चं जुहुयाद्द्विजः ॥
यद्देवा देवहेडनमृचस्तिस्रस्तथैव च

2.121.125.161

।
हुत्वा सम्प्रोक्षणं कुर्याद्भूयः सर्वत्र मानवः ॥
सर्वोत्पातप्रशमनं कर्मैतत्परिकीर्तितम्

2.121.125.162

गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमं पदम् ॥
सर्वपापप्रशमनी सर्वकर्मकरी तथा

2.121.125.163

एतावदुक्तं यजुषां विधानं मया हि किञ्चित्तव धर्मनिष्ठ ॥
अतः परं वच्मि नृवीर साम्नां तन्मे शृणुष्वायतलोहिताक्ष

2.121.125.125

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने तन्त्रविधानन्नाम पञ्चविंशत्युत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc