विष्णुधर्मोत्तरपुराणम् · अध्याय 2.116.120
2.116
पुष्कर उवाच ॥
आयुषि कर्मणि क्षीणे संप्राप्ते मरणे नृणाम् ॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः
शरीरमुपरुध्याथ कृत्स्नान्दोषान्रुणद्धि वै ॥
भिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि
शैत्यात्प्रकुपितो वायुश्छिद्रमन्विष्यते ततः ॥
द्वे नेत्रे च तथा कर्णौ द्वौ तु नासापुटौ तथा
ऊर्ध्व तु सप्त च्छिद्राणि सप्तकं वदनं तथा ॥
एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणाम्
अधः पायुरुपस्थं च छिद्रद्वयमुदाहृतम् ॥
छिद्रद्वयेन तेनाथ म्रियन्तेऽशुभकारिणः
मूर्धानं योगिनां भित्त्वा जीवो व्रजति भार्गव ॥
अथवा स्वेच्छया राम येन चेच्छन्ति योगिनः
अन्तकाले तु संप्राप्ते प्राणापानेष्ववस्थितः ॥
तमसा संवृते ज्ञाने संवृतेषु च मर्मसु
स जीवो नाभ्यधिष्ठानश्चाल्यते मातरिश्वना ॥
स जीवश्चाल्यमानस्तु कर्मभिस्तैः पुरातनैः
अष्टाङ्गां प्राणवृत्तिं तां शनैश्च्यावयते द्विज ॥
शरीरं प्रजहात्यस्मान्निश्वासस्तु भवेत्ततः
च्यवन्तं जायमानं वा प्रविशन्तं च योनिषु ॥
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा
स तु देहपरित्यागकाले प्राप्ते तदानघ ॥
तत्क्षणादेव गृह्णाति शरीरमतिवाहिकम्
ऊर्ध्वं भजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात् ॥
आकाशवायुतेजांसि द्वे चाधो भृगुनन्दन
सलिलं च महाभाग तथैव च वसुन्धरा ॥।
एवं पञ्चत्वमापन्नः पुरुषस्त्वभिधीयते
एवं पञ्चत्वमापन्ने तद्देहमतिवाहिकम् ॥
भयानकैर्महाघोरैर्नानावेषधरैस्तथा
उच्चैस्तस्य तदा बद्धं कालपाशेन सत्वरम् ॥
नीयते कालपुरुषैर्याम्यं मार्गं सुदुस्तरम्
तप्ताम्बरीषसंकाशं त्वयोगुणनिभं महत् ॥
संतप्तसिकतं घोरं ताम्रपर्णनिभं तथा
षडशीतिसहस्राणि योजनानां महीतलम् ॥
यमस्य तु पुरी राम घोरा संयमनी स्मृता
नीयते तेन मार्गेण तादृशेन तु तां पुरीम् ॥
आकृष्यमाणं पुरुषैर्याम्यैर्घोरैर्महीतले
पीडामनुभवँस्तत्र म्रियते न च मानद ॥
अत्यर्थविषमः प्रोक्तः स मार्गो घोरदर्शनः॥॥
विश्वरूपधरो राम भुवि शीतावृतो महान् ॥
हिमप्रपातबहुलश्चातिशीतः सुदुस्तरः
अन्धकारवृते दुर्गे गर्भवासोपमस्तथा॥
अग्निसंस्पर्शवदनैः काककाकोलजम्बुकैः
मक्षिकादंशमशकैरावृतः सर्पवृश्चिकैः ॥
भक्ष्यमाणोऽपि तैर्जन्तुर्भक्ष्यते चापि राक्षसैः
उत्कृत्योत्कृत्य सहसा न च प्राणैर्वियुज्यते ॥
मुद्गरैश्चूर्ण्यते घोरैस्तुद्यते लोहकण्टकैः
क्षुधया तृषया चैव घोरया चापि पीड्यते ॥
दह्यमानोऽतिघोरेण सैकतेन च नीयते
एवं संयाप्यमानस्तु प्राप्यते यममन्दिरम् ॥
दशभिः स मुहूर्तैस्तु पन्थानमतिदुस्तरम्
प्राप्नोति भीमनिर्घोषं दुर्गन्धिभयदर्शनम् ॥
तत्कालं सुमहद्वेत्ति पुरुषो देवमायया
पापानुरूपं तत्कालं तस्य तत्राभिजायते ॥
कस्यचिद्विशतं कालं कस्यचिच्छतसम्भवम्
क्षुत्तृष्णासम्भवाश्चैव भवन्त्यथ महाभयाः ॥
दण्डपिण्डस्य धर्मज्ञ प्रेतत्वमुपजायते
प्रेत लोके स वसति ततः संवत्सरं नरः ॥
सोदकुम्भमतोन्नाद्यं बान्धवैस्तस्य दीयते
दिनेदिने यद्धर्मज्ञ तद्भुङ्क्ते नात्र संशयः ॥
न दीयते तु यस्यैतत्स तु तत्र यथा स्वयम्
पूर्वदत्तमथान्नाद्यं प्राप्नोति स्वयमेव तु ॥
स्वयमेव न दत्तं तु तथा दाता न विद्यते
न चास्त्युदकदाता च स तु तत्परितप्यते ॥
बान्धवैस्तूदकं दत्त तत्र तत्रास्य जायते
नदी शीतजला नाम बहुपानीयसंयुता ॥
मासिमासि च यच्छ्राद्धं तस्य तत्र प्रदीयते
तेन तृप्तिमवाप्नोति परमां नात्र संशयः ॥
मानुष्येण तु मासेन पितृलोके दिनं स्मृतम्
।
प्रेतलोके तु दिवसो मानुष्येण विधीयते ॥
तस्माद्दिनेदिने देयं प्रेतायान्नं तु वत्सरम्
एवं स याप्यमानस्तु प्राप्नोति यममन्दिरम् ॥
ततः पश्यत्यसौ देवं पापात्मा घोरदर्शनम्
चित्रगुप्तस्ततस्तस्य ज्ञात्वा कर्म यथाविधम् ॥
आज्ञापयति धर्मज्ञ शुभं वा यदि वाशुभम्
ततः श्मशानिका नाम देवा याम्या भयावहाः ॥
शीतवातातपोपेतं तदा रक्षन्ति मानवम्
यथेह बन्धने कश्चिद्रक्ष्यते विषमैर्नरैः ॥
प्रेत पिण्डैस्ततो दत्तैर्देहमाप्नोति भार्गव
भोगदेहमिति प्रोक्तं क्रमादेव न संशयः ॥
प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्षणम्
श्मशानिकेभ्यो देवेभ्य आकल्पं नैव विद्यते ॥
तत्रास्य यातना घोराः शीतवातातपोद्भवाः
ततः सपिण्डीकरणे बान्धवैश्च कृते नरः ॥।
पूर्णे संवत्सरे देहमतोऽन्यं प्रतिपद्यते
ततः स नरकं याति स्वर्गं वा स्वेन कर्मणा ॥
ततः स कालं वसति कर्मणामनुरूपतः
अर्वाक् सपिण्डीकरणं यस्य संवत्सरात्कृतम् ॥
प्रेतत्वमपि तस्यापि प्रोक्तं संवत्सरं धुवम्
यैरिष्टं विविधैर्यज्ञैः पूजितो यैश्च केशवः ॥
प्रेतलोकं न ते यान्ति तथा ये समरे हताः
श्मशानिकानां देवानां भवन्ति वशगा न ते॥
प्रेतलोकं प्रपद्यन्ते तथा घोरं भयावहम्
।
एवं याम्येन मार्गेण यान्ति पापा नराधमाः ॥
आरामसदनं यान्ति तथैव द्रुमरोपकाः
शीतलेन तु मार्गेण फलपुष्पवता सुखम् ॥
छत्रदाश्च सुखं यान्ति मार्गेण ससुखेन ते
यानमश्वतरीयुक्तमास्थायोपानहप्रदाः ॥
विमानैर्यानदा यान्ति तथा शय्यासनप्रदाः
गृहदाः सविहारन्तु यान्ति तृप्ता जलप्रदाः ॥
भक्ष्यैर्भोज्यैस्तथा तृप्ता यान्ति भोजनदायिनः
दीपप्रदाः प्रकाशेन यान्ति मार्गेण ते सुखम् ॥
पूज्यमाना यमभटैर्यान्ति भक्ता जनार्दनम्
नास्ति तेषां भयं किञ्चिदिहलोके परत्र च ॥
ते तृप्ताः सर्वकामैश्च तरसा यान्ति मानवाः ॥
बुद्धिं समास्थाय तु सात्त्विकीं ये भक्ताः सुरेशस्य जनार्दनस्य ॥
तेषां गतिस्तत्र तु यत्र राम श्वेताः पुमांसो गतसर्वपापाः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० रामं प्रति पुष्करोपाख्याने यममार्गवर्णनन्नाम षोडशोत्तरशततमोध्यायः
2.117
राम उवाच ॥
भगवञ्छ्रोतुमिच्छामि ये नराः स्वर्गगामिनः ॥
केन धर्मभृतां श्रेष्ठ तथा निरयगामिनः
पुष्कर उवाच ॥
आश्रमेषु यथोक्तेषु वर्तन्ते ये द्विजोत्तमाः ॥
स्वधर्मसक्ताः सततं ते नराः स्वर्गगामिनः
वर्तन्ते ये महीपाल राजधर्मानुसारतः ॥
पुरोहितमते युक्ता राजानः स्वर्गगामिनः
प्रजासुखे सुखं येषां तद्दुःखे ये च दुःखिताः ॥
दुष्टनिग्रहकर्तारो ज्ञेयास्ते स्वर्गगामिनः
स्वाम्यर्थे ब्राह्मणार्थे वा मित्रकार्ये च ये हताः ॥
गोग्रहे निहता ये च ते नराः स्वर्गगामिनः
देहधातून्परित्यज्य सलिलारण्यवह्निषु ॥
अनाशने वा धर्मज्ञ मृताः स्युः स्वर्गगामिनः
तीर्थयात्राप्रसक्ताश्च नित्यमध्वनि कर्षिताः ॥
तपसा कर्षिता ये च ते ज्ञेयाः स्वर्गगामिनः
मधुमांसनिवृत्ताश्च निवृत्ता मधुपानतः ॥
काममैथुनतश्चापि विज्ञेयाः स्वर्गगामिनः
मातापितृपरा दान्ता गुरुभक्ताः प्रियंवदाः ॥
सत्यार्जवरता ये च ते नराः स्वर्गगामिनः
वैवाहिकानां वस्त्राणां प्रपाणां ये प्रदायिनः ॥
उद्यानारामकर्तारस्ते नराः स्वर्गगामिनः
तडागकूपकर्तारस्तथा कन्याप्रदायकाः ॥
छत्रोपानहदातारस्ते नराः स्वर्गगामिनः
इन्धनानां प्रदातारस्तथा गोग्रामदायिनः ॥
गवां शुश्रूषका ये च ते नराः स्वर्गगामिनः
परोपकारसक्ताश्च परबन्धविवर्जकाः ॥
पूज्यपूजयितारश्च ते नराः स्वर्गगामिनः
स्वाध्यायसक्ता धीमन्तो गुरुशुश्रूषणे रताः ॥
उपासकाश्च वृद्धानां ते ज्ञेयाः स्वर्गगामिनः
प्रतिश्रयप्रदातारस्तथा ये सत्रदायकाः ॥
भक्ता गोदेवविप्राणां ते नराः स्वर्गगामिनः
श्रोतारो ये च धर्माणां ये तथा यज्ञयाजिनः ॥
उपवासरता ये च ते ज्ञेयाः स्वर्गगामिनः
क्लेशाननुभवन्तीह शास्त्राध्ययनतत्पराः ॥
शास्त्राणां च हिते युक्तास्ते ज्ञेयाः स्वर्गगामिनः
आर्तप्राणप्रदा ये च ये च हिंसाविवर्जकाः ॥
अपीडकाश्च भूतानां ते नराः स्वर्गगामिनः॥
दरिद्राय च दातारः प्रभवश्च क्षमान्विताः ॥
यौवनस्थाश्च ये शान्तास्ते नराः स्वर्गगामिनः
पौत्रदौहित्रसंयुक्ता ये तथा चिरजीविनः॥
प्रियङ्कराश्च बालानां ते नराः स्वर्गगामिनः॥
पोषकाणामनाथानां ये चैवोद्वाहकारिणः॥
द्विरागमनदा ये च ते नराः स्वर्गगामिनः
ग्रहाणां पूजका ये च ये तथा श्राद्धकारिणः ॥
संविभागकरा ये च ते नराः स्वर्गगामिनः
सर्वासां देवतानां च ये च पूजारताः सदा ॥
सर्वदानरता ये च ते नराः स्वर्गगामिनः
अहताश्च तथा तत्र कृत्वा कर्मातिदुष्करम् ॥
कालेनापि मृता राम ते नराः स्वर्गगामिनः
ये भक्तिमन्तो मधुसूदनस्य देवेश्वरस्याप्रतिमस्य नित्यम् ॥
सत्त्वेन हीना रजसा वियुक्तास्ते यान्ति नाकं सुरसंघपूज्याः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने स्वर्गभाग्वर्णनन्नाम सप्तदशोत्तरशततमोऽध्यायः
2.118
पुष्कर उवाच ॥
महापातकिनो ये च ये च पातकिनो जनाः ॥
मांसाशिनो नरा ये च तथा येऽगम्यागामिनः ॥
परदाररता ये च ते वै निरयगामिनः
अतिक्रामन्ति ये भार्यां पीडयन्ति च ये नरान् ॥
ये सभास्ववन्यन्ते ते वै निरयगामिनः
बहुभार्याश्च भार्यासु वर्तन्ते न समं च ये ॥
ऋतुकालहरा ये च ते वै निरयगामिनः॥॥।
सम्यग्भर्तृषु या नार्यो वर्तन्ते नावलेपतः ॥
अप्रिये च तथा सक्ता ज्ञेयास्ता निरयङ्गमाः
भर्तारमवमन्यन्ते भाषन्ते विप्रियाणि च ॥
स्वातन्त्र्येण च वर्तन्ते ज्ञातव्या निरयङ्गमाः
राजशास्त्रोपदेशं ये संत्यज्य वसुधाधिपाः ॥
वर्तन्ते सर्वकार्येषु ते वै निरयगामिनः
वर्णाश्रमोक्तं वर्तन्ते धर्मं त्यक्त्वा तु ये नराः ॥
बहिःशास्त्रान्महाभाग ते वै निरयगामिनः
अयाज्ययाजिनो ये च कूटसाक्ष्यप्रदाश्च ये ॥
तथानृतरता ये च ते वै निरयगामिनः
व्यवहारेषु ये सक्ताः पक्षपाताभिधायिनः ॥
असम्यग्दर्शिनो ये च ते वै निरयगामिनः
प्रेक्ष्यमाणे परिजने मिष्टमश्नन्ति ये नराः ॥
असंविभज्य धर्मज्ञ ते वै निरयगामिनः
भृतकास्तु महाभाग कुर्वन्ते नैव ये भृतम् ॥
अनिर्दिष्टभुजश्चैव ते वै निरयगामिनः
वञ्चका भृतकानां च तथैवाश्रितवञ्चकाः ॥
वञ्चकाश्च तथाऽन्येषां ज्ञेया निरयगामिनः
कृतघ्ना निर्घृणा ये च परस्वादायिनश्च ये ॥
शठाचाराश्च मित्राणां ते वै निरयगामिनः
गवां पानप्रवृत्तानां ये तथा विघ्नकारिणः ॥
तथाऽन्येषां च भूतानां ते वै निरयगामिनः
धर्मकार्यप्रवृत्तस्य ये नरा विघ्नकारिणः ॥
पापप्रोत्साहकाश्चैव ते वै निरयगामिनः
त्यागिनस्त्वाश्रितानां ये ऋत्विजां त्यागिनश्च ये ॥
याज्यानां च गुरूणां च ते वै निरयगामिनः
त्यागिनो देवतानां च वह्नीनां त्यागिनश्च ये ॥
शास्त्राणां त्यागिनो ये च ते वै निरयगामिनः
बालकातिथिविप्राणां सुराणां चैव मानद ॥
ये च पूर्वभुजो नित्यं ते वै निरयगामिनः
रजस्वलां च ये यान्ति ये च प्रेष्यकरा स्त्रियम् ॥
वियोनिं ये च गच्छन्ति ते वै निरयगामिनः
शुक्रं त्यजन्त्ययोनौ ये तथाकाशे च निर्घृणाः ॥
पर्वस्वपि च धर्मज्ञ ते वै निरयगामिनः
अनध्यायेषु ये राम स्वाध्यायमिह कुर्वते ॥
निन्दति च गुरून्ये वै ते वै निरयगामिनः
देवतानां च वेदानां ब्राह्मणानां च निन्दकाः ॥
पुराणचरितानां च ते वै निरयगामिनः
ये नास्तिका नरा राम ये च श्रद्धाविवर्जिताः ॥
अहङ्कारगृहीताश्च ते वै निरयगामिनः
कुकर्मसक्ता मनुजाः सुकर्मपरिवर्जकाः ॥
स्वामिमित्रद्रुहो ये च ते वै निरयगामिनः
ये च द्रोहरता राज्ञां ब्राह्मणानां गवामपि ॥
सुहृदामपि धर्मज्ञ ते वै निरयगामिनः
ये तु पैशुन्यसंसक्ताः परमर्मस्पृशोऽपि च ॥
अशुचश्च तथा मर्त्यास्ते वै निरयगामिनः
सोमविक्रयिणो ये च बीजविक्रयिणस्तथा ॥
आत्मविक्रयिणो ये च ज्ञेया निरयगामिनः
रजः पश्यन्ति धर्मज्ञ येषां वेश्मनि कन्यकाः ॥
शुल्के च दत्ता सा यैश्च ते वै निरयगामिनः
ब्रह्मेशकेशवानां च ये नरा भेदवादिनः ॥
तमोऽभिभूताः परितस्ते वै निरयगामिनः
कुलजानां सपिण्डानां ये च पिण्डविलोपकाः ॥
अश्राद्धदाश्च पूर्वेषां ते वै निरयगामिनः
कामात्मानो नरा ये च ये तथार्थपरायणाः ॥
ये च धर्मद्विषो लोके ते वै निरयगामिनः
नाभिपश्यन्ति ये शक्त्या दीनमातुरमाश्रितम् ॥
आर्तं च नाभिधावन्ति ते वै निरयगामिनः
ये चावहासं कुर्वन्ति दीनानां मानगर्विताः ॥
अनागसं परिभवन्त्येते निरयगामिनः
पीडामथोत्पाद्य नरस्य राम यथाकथंचिन्नरकं प्रयाति ॥
तस्मात्प्रयत्नेन विवर्जनीया परस्य पीडा मनुजेन राम ॥।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने निरयगामिवर्णनन्नामाष्टादशोत्तरशततमोऽध्यायः
2.119
॥ राम उवाच ॥
नामानि नरकाणां च यातना विविधास्तथा ॥
भगवञ्छ्रोतुमिच्छामि पुंसां नरकगामिनाम्
पुष्कर उवाच ॥
तामिस्र मन्धतामिस्रं महारौरवरौरवौ ॥
नरकं कालसूत्रं च महानरकमेव च
संजीवनं महावीचिं तपनं संप्रतापनम् ॥
संघातं च सकाकोलं कश्मलं पूतिमृत्तिकम्
लोहशंकुं नृभीमं च मन्थानं शाल्मलिं नदीम् ॥
असिपत्रवनं चैव लोहकारं तथैव च
पातालेषु महाबाहो त्रींस्त्रीन्वृद्धिक्रमेण तु ॥
एकैकस्य तथैवाष्टौ दिक्षु चापि विदिक्ष्वपि
स्थितास्तथा ये विज्ञेया नरका घोरदर्शनाः ॥
यान्त्येते पापकर्माणो नरा येषु भृगूत्तम
एकस्मिन्नरके केचित्क्रमादन्ये बहुष्वपि ॥
यांत्येते मानवा राम पीड्यमानाः पुनःपुनः
नरकाणां नराणां तु यातनाकारिणश्च ये॥
घोररूपास्तु ते प्रोक्ता दृष्टमात्रभयावहाः
मार्जारोलूकगोमायुगृध्रश्येनखराननाः ॥
गजाश्वोष्ट्रवराहाणां सिंहानां च तथा परे
गोधामहिषकाकानां मद्गुसारसयोस्तथा ॥
उरभ्राजपतङ्गानां सर्पमूषकयोस्तथा
अन्येषां चैव सत्त्वानां तथान्ये जठरा नराः ॥
स्कन्दाननास्तथैवान्ये कबन्धाकारदर्शनाः
भीमानना भयकरा नानायुधधरास्तथा ॥
उग्रवाचो दुराधर्षाः सर्पवृश्चिकवेष्टिताः
तैलद्रोण्यां नरान्क्षिप्त्वा ज्वालयित्वा हुताशनम् ॥
सुसमिद्धं नरान्कांश्चित्क्वाथयन्ति पुनःपुनः
अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् ॥
अयःपात्रेषु चैवान्यान्द्रवद्वह्निकणेष्वपि
शूलेषु रोपितानन्याञ्शुष्काग्नावपरांस्तथा ॥
उत्कृत्य विपचन्त्येतानन्यांश्छित्वा तथा परान्
कशाभिस्ताडयन्त्यन्यांस्तथान्यानपि मानवान् ॥
भोजयन्ति महाभाग वह्नितप्तानयोगुडान्
पांसूनपि तथैवान्यान्वान्तमन्यत्र चापरम् ॥
विष्ठामन्यत्र च कफं तथान्यत्र च कण्टकान्
अन्यत्र वह्निसंकाशास्तथा भार्गव वालुकाः ॥
पाययन्ति तथान्यत्र वह्निवर्णां च वारुणीम्
अन्यत्र नारकाणां ते छिन्दन्त्यङ्गानि भागशः ॥
पाटयन्ति तथान्यत्र करपत्रैः पुनःपुनः
पीडयन्ति तथान्यत्र कृत्वा यन्त्रेषु नारकान् ॥
उलूखलकृतानन्यान्मुसलैस्ताडयन्ति च
कुम्भीगतांस्तथान्यत्र कुम्भीतः किञ्चिदुद्गतान् ॥
घ्नन्ति मुद्गरकूटेन महतीं वेदनां गतान्
त्वचमुत्कृत्य चान्यत्र शुनां नरकवासिनः ॥
त्यजन्ति ते च भक्ष्यन्ते तीक्ष्णदन्तैर्मुहुर्मुहुः
अन्धकारे तथान्यत्र भीमगन्धे भयावहे ॥
अत्युष्णे तैश्च पात्यन्ते गर्भवाससमे जनाः
काकैर्गोमायुभिः सर्पैर्वृश्चिकैर्मूषकैरपि ॥
मक्षिकाभिश्च भक्ष्यन्ते तेषामन्यत्र शासनात्
अन्यत्र शाल्मलिं घोरं संतप्तं तीक्ष्णकण्टकम् ॥
सर्पकीटादिबहुलमारोप्यन्ते नराधमाः
अन्यत्र च तथा घोरां सन्तप्तामयसः शिलाम् ॥
आलिङ्गन्ते सुदुःस्पर्शा तेषामेव तु शासनात्
अन्यत्रासेव्यवसतौ वसन्ति भयपीडिताः॥
तत्र तेषां तु नासाक्षिकर्णवक्त्रेषु मानद
प्रविशन्ति महाभोगाः कृमयो मांसभोजिनः ॥
क्षारनद्यां तथैवान्ये पात्यन्ते नारकान्मुहुः
बहुशीतान्धकारे च पात्यन्ते नरके परे ॥
रक्ततोयवहामन्ये प्रपद्यन्ते महानदीम्
असिपत्रवने चान्ये कृष्यन्ते भीमदर्शनाः ॥
तृष्णया क्षुधया चान्ये बाध्यन्ते तत्र मानवाः
परान्नपानं लिप्सन्तस्ताड्यन्ते कूटमुद्गरैः ॥
पाययन्ति तथान्यत्र परान्यमभटास्तथा
तीव्रधूममधोवक्त्रान्बद्ध्वा वृक्षेषु मानद ॥
त्वचोत्कर्तनमन्यत्र तिलशः क्रियते भटैः
काष्ठान्यन्यत्र बध्यन्ते नारकाणां तथास्थिषु ॥
कूटागारप्रमाणैश्च तथा देहैर्भयार्दिताः
सूचीवक्त्रांस्तथान्यत्र याप्यन्ते क्षुधया भृशम् ॥
सिच्यन्ते च तथान्यत्र तैलेन च गुडेन च
सन्तप्तेन महाभाग भृशं दुःखप्रदायिनाम् ॥
अन्यत्र जातपिटकाः स्रस्तजिह्वाः सुविह्वलाः
घोरातपविनिक्षिप्ता भक्ष्यन्ते च पिपीलकैः॥
सूत्रेणान्यत्र छिद्यन्ते पादतः प्रभृति क्रमात्
तिलशो भृगुशार्दूल नारकाः पर्वतोपमाः ॥
यावच्च तेषां मूर्धानं तावदेव पुनःपुनः
कृत्वा च पिष्टं पचनं पच्यन्तेऽन्ये तथा भृशम् ॥
अयःपात्रेषु चान्यत्र तीक्ष्णशङ्कुभिरायसैः
क्रियन्ते संयता घोरैः सन्तप्तेषु महाभुज ॥
आपोथ्यन्ते तथान्यत्र विनिगृह्य शिलासु ते
गर्तेषु ते मृदं दत्त्वा पूर्यन्ते मुसलैर्भृशम् ॥
बद्धास्तम्भे तथान्यत्र क्षिप्यन्ते सायकैर्नराः ॥
शृङ्खलाभिश्च बध्यन्ते लोठ्यन्ते कण्टकेषु च ॥
गन्धेनान्यत्र बोध्यन्ते विषमेण पुनःपुनः
नारकैश्च तथा सत्त्वैर्नानावेषैर्भयानकैः ॥
यातनाभिश्च बह्वीभिर्याप्यन्ते नरके भृशम्
अन्योन्यस्य च मांसानि भक्षयन्त्यपरे तथा ॥
हा तात मातेति तथा क्रन्दमानाः पुनःपुनः
निन्दन्तः स्वानि कर्माणि ताड्यमानाश्च तैर्भटैः ॥
यातनाभिश्च बह्वीभिर्याप्यन्ते भृगु नन्दन
विमुक्तनारका ह्यन्ये वह्निमन्ये सुशीतलम् ॥
विजानन्ति महाभाग सुखस्पर्शतमं तथा
।
विमुक्तो नारकाच्छीतात्सुखोष्णं हिमसंचयम् ॥
मन्यते सर्वमेवान्यत्सुखस्पर्शतमं तथा
नरकेभ्यश्च शस्त्रेभ्यो विमुक्तो यो नराधमः ॥
शस्त्राण्यन्यानि जातानि सुखस्पर्शसमानि च
सुखदुःखे तु मानुष्ये त्रिदिवे केवलं सुखम् ॥
नरके दुःखमेवोग्रं सततं भृगुनन्दन
॥
तृष्णा तत्र क्षुधा तत्र गन्धस्तीव्रो भयङ्करः ॥
यातना विविधाः प्रोक्ता भयं तत्रातिदारुणम्
दुर्गन्धिकंटकाकीर्णं तथा कुणपसंकुलम् ॥॥
केशास्थिबहुलं भीमं नरकं दुःखमेव तु
आर्तनादमहानादकाकक्रव्यादसंकुलम् ॥
कृमिकीटपतङ्गाढ्यं पूयासृग्बहुलं तथा
।
अन्योऽन्यक्लेशसंयुक्तमन्योऽन्यकर्षकारकम् ॥
अन्योऽन्यताडकं घोरं तथाऽन्योन्यभयङ्करम्
एवमेतेषु ते पापा नरकेषु समागताः ॥
बहवः खलु याप्यन्ते मानवाः पापकारिणः
यावत्तेषां न पापानि क्षयं यान्ति भृगूत्तम ॥
तावत्ते न विमुच्यन्ते नरकाद् घोरदर्शनात्
अत्यन्तभीमा नरकाः सुघोरा भयावहव्यालगणावकीर्णाः ॥
भक्तिं वहन्तः पुरुषोत्तमस्य न यान्ति ते भार्गववंशमुख्य
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नरकयातनावर्णनन्नामैकोनविंशत्युत्तरशततमोध्यायः
2.120
राम उवाच ॥
कर्मणा केन धर्मज्ञ नरा नरकवासिनः ॥
कां कां योनिं प्रपद्यन्ते तिरश्चो ब्रूहि तन्मम
पुष्कर उवाच ॥
अमेध्यमध्ये कृमयो महापातकिनो जनाः ॥
भवन्ति बहुधा भूम्यां ततश्चैव शिलासु ते
तृणगुच्छलतागुल्मद्रुमत्वं प्राप्यते क्रमात् ॥
भवन्ति च मृगाः पश्चान्नित्यं व्याधभयार्दिताः
ब्रह्मस्वहारिणो हिंस्रा रौद्राचाराः सदैव तु ॥
अटव्यां घोररूपायां जायन्ते ब्रह्मराक्षसाः
परदाररता मूढाः सन्तप्तायां तथा भुवि ॥
कृकलासा हि जायन्ते पिशाचाश्चाप्यनन्तरम् ॥
अटव्यां घोररूपायां संशुष्कद्रुमकोटरे ॥
कृष्णाहयो हि जायन्ते ततः पश्चान्न संशयः
कूटसाक्षिप्रदाः पापास्त्वमेध्ये कृमयश्चिरम् ॥
कृत्वा भवन्ति सर्पास्ते पिशाचास्तदनन्तरम्
गुरुमित्रद्रुहः पापा ये च स्वा मिदुहो जनाः ॥
द्विजशिष्यद्रुहश्चैव कृतघ्ना नास्तिकास्तथा
त्यागिनो बान्धवानां च त्यागिनः शरणार्थिनाम् ॥
निक्षेपहारिणो ये च कन्यकाक्रयिणश्च ये
अमेध्ये कृमयः सर्पा मृगा व्यालमृगास्तथा ॥
ततो घोरगणोपेता जायन्ते जम्बुकाः खलाः
परस्वहारिणः पापाः कुञ्जरास्तुरगाः खराः ॥
बलीवर्दास्तथैवोष्ट्रा जायन्ते नात्र संशयः
हृतं यस्य तु तैर्द्रव्यं तस्य भाग्यानुरूपतः ॥
आत्मदोषानुसारेण जायन्ते धनिनस्तु ते
चन्द्रार्कग्रहणे भुक्त्वा जायन्ते कुञ्जरा नराः ॥
आमश्राद्धं तथा भुक्त्वा जायन्ते गृध्रयोनिषु
असत्प्रतिग्रहं राम गृहीत्वा वानरास्तथा ॥
आशाभङ्गं तथा कृत्वा शृगालाश्च तथाधमाः
सूचकस्तु दुराचारो वागुरिर्नाम जायते ॥
बहु कालं महाभाग भूयोभूय इति श्रुतिः
मांसभुग्यावतां राम मांसमश्नाति देहिनाम् ॥
तावतां योनिमाप्नोति भूयोभूयो न संशयः
भोक्तव्यानि च तैस्तस्य राम मांसान्यसंशयम् ॥
यावन्तः प्राणिनो येन बहिर्वेद्यां निपातिताः
तावत्यो योनयस्तेन गन्तव्या भृगुसत्तम ॥।
योनौयोनौ च हन्तव्यस्तेनासौ नात्र संशयः
वान्ताशी गुणपाशी च पूयभुग्रुधिराशिनः ॥
स्वकर्मविच्युता वर्णा जायन्ते प्रेतयोनिषु
।
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ॥
मधु दंशः पयः काको रसं श्वा नकुलो घृतम्
मांसं गृध्रो वसां मद्गुस्तैलं तैलापगः खगः ॥
चीरीवाकस्तु लवणं बलाका शकुनिर्दधि
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा च दर्दुरः ॥
कर्पासं तान्तवं क्रौञ्चं गां गोधा वागुदो गुडम्
छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं शिखी तथा ॥
मक्षिकास्तु तथैवान्नमकृतान्नं तु शल्यकः
भेको भवति हृत्त्वाग्निं गृहहारी च तस्करः ॥
रक्तानि हृत्वा वासांसि जायते जीवजीवकः
वृको मृगेभं व्याघ्राश्वं फलपुष्पं तु मर्कटः ॥।
स्त्रियं हृत्वा भवेद्यक्षो यानमुष्ट्रः पशूनजः
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ॥
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥
तिर्यक्षु दुःखं परमं विदित्वा पापानि वर्ज्यानि नरेण नित्यम् ॥
भक्तिश्च कार्या मधुसूदनस्य तया स दुःखं सकलं जहाति
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० स० रामं प्रति पुष्करोपाख्याने तिर्यग्योनिवर्णनन्नाम विंशत्युत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0