विष्णुधर्मोत्तरपुराणम् · अध्याय 2.111.115
2.111
राम उवाच ॥ भगवञ्छ्रोतुमिच्छामि पापानां कर्मणां फलम् ॥
त्वत्तः कमलपत्राक्ष तन्ममाचक्ष्व पृच्छतः
पुष्कर उवाच ॥
भुक्त्वैवान्नमभोज्यं तु नरकं याति मानवः ॥
व्रतलोपे तदर्धं च प्रकीर्णे तु दशाहकम्
अग्निहोत्रसमिद्यादीन्सहस्रं याति वत्सरान् ॥
महापातकिनः सर्वे कल्पं पश्यन्ति भार्गव
मन्वन्तरं तु तां कृत्वा नरकं प्रतिपद्यते ॥
चतुर्युगं क्षत्त्रियहा वैश्यहा त्रियुगं तथा
शूद्रं हत्वा महाभाग युगं तु नरकं व्रजेत् ॥
यावन्ति पशुरोमाणि तावत्कृत्वेह मानवः
वृथापशुघ्नः प्राप्नोति वर्षाणि नरकं नरः ॥
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः
याति संवत्सरशतं गुरुब्राह्मणताडनात् ॥
तच्छस्त्रवर्ती नृपतिः कल्पं पश्यति मानद
पक्षपाती तथा सभ्यस्तावदेव भृगूत्तम ॥
ब्राह्मणस्य च शूद्रस्य सहस्रं भृगुसत्तम
5
शोणितं यावतः पांसून्निगृह्णाति महीतले ॥
तावद्वर्षसहस्राणि नरकं प्रतिपद्यते
राजनि प्रहरेद्यस्तु कृतगाम्याति दुर्मतिः ॥
अराजा नरकं याति स तु कल्पशतं नरः
नित्यान्यकुर्वन्धर्माणि तथा वर्षशतं व्रजेत् ॥
द्रुमाणां छेदने राम पञ्चाशद्वर्षमेव तु ॥
गुल्मवल्लीलतानां तु दशवर्षाणि भार्गव ॥
अनागसामथाक्रोशे तिरश्चामथ ताडने
तावदेव यथाकालं नरकं प्रतिपद्यते ॥
अगम्यागामिनः सर्वे महापातकिभिः समाः
अनिविष्टां भृतिं भुक्त्वा द्वे शते प्रतिपद्यते ॥
तथा पुस्तकहारी च सहस्रं याति वत्सरान्
सस्यानां नाशकारी च नरकं प्रतिपद्यते ॥
अगारवनदाही च नास्तिकश्च तथा नरः
कल्पमेकं प्रपद्यन्ते नरकं नात्र संशयः॥
देवतानां द्विजातीनां शास्त्राणां निन्दकस्तथा
श्रुतीनां दूषकश्चैव तावदेव द्विजोत्तम॥
प्रतिश्रुत्य तथा चार्थं यो न दद्यान्महाभुज
आश्रितस्य परित्यागं वृथा कुर्याद्द्विजोत्तम ॥
अपराधं तथा राम वृथा भार्यावमन्तकः
क्रतुहा चैव धर्मज्ञ सहस्रं पतिपद्यते ॥
बहूनि राम पापानि पापेषूक्तेषु भार्गव ॥
अन्तर्भावं प्रपद्यन्ते तानि चिन्त्यानि धर्मतः
नरकाणां गणनमुदितं पापानां ते मया राम ॥
एतच्च भवति घोरं त्वनुबन्धकृतं मनुष्याणाम्
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पापनिश्चयो नामैकादशोत्तरशततमोऽध्यायः
2.112
राम उवाच ॥
जन्तुः कथं सम्भवति कथं चैव विपद्यते ॥
कथं देहान्तरं याति तन्ममाचक्ष्व पृच्छतः
पुष्कर उवाच ॥
विश्वस्यावरणं राम तथैवाण्डं न हेम यत् ॥
तथा प्राणिशरीरस्य पार्थिवत्वं महाभुज
आकाशे नरशार्दूल यथैवाण्डं व्यवस्थितम् ॥
सुषिरं तद्वदेवेह पुरुषस्य शरीरगम्
धारयन्ति यथा विश्वमण्डस्याभ्यन्तरे स्थिताः ॥
वाय्वग्निसोमाः सततं तथा देहं शरीरिणाम्
आधारभूते द्वे भूते आद्यन्ते सर्वदेहिनाम् ॥
प्रपद्यन्ते महाभाग कललत्वं हि तत्क्षणात्
करोति तत्र च ततः प्रवेशं कर्मचोदितः ॥
वायुभूतस्तथा जीवस्त्यक्त्वा भोगविवर्धनम् ॥
स्वर्गाद्वा नरकाद्देहं तिर्यग्योनावथापि वा
एवं प्रवेशं स करोति गर्भे जीवस्तदा कर्मवशानुबन्धात् ॥
ततः प्रविष्टस्तु तथा स मूढो मासांश्च षट् तिष्ठति वेद नित्यः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने गर्भसंक्रान्तिवर्णनन्नाम द्वादशोत्तरशततमोऽध्यायः
2.113
राम उवाच ॥
भोगदेहं कथं त्यक्त्वा जीवो गर्भं प्रपद्यते ॥
भोगदेहश्च कः प्रोक्तस्तं ममाचक्ष्व पृच्छतः
पुष्कर उवाच ॥
आतिवाहिका गर्भस्य देहो भवति भार्गव ॥
केवलं तं मनुष्याणां मृत्युकाल उपस्थिते
याम्यैर्नरैर्मनुष्याणां तच्छरीरं भृगूत्तम ॥
6
नीयते याम्यमार्गेण नान्येषां प्राणिनां द्विज
मनुष्याः प्रतिपद्यन्ते स्वर्गं नरकमेव वा ॥
नैवाऽन्ये प्राणिनः केचित्सर्वं ते फलभोगिनः
शुभानामशुभानां वा कर्मणां भृगुनन्दन ॥
संचयः क्रियते लोके मनुष्यैरेव केवलम्
तस्मान्मनुष्यस्तु मृतो यमलोकं प्रपद्यते ॥
नान्यः प्राणी महाभाग फलयोनौ व्यवस्थितः
गच्छँल्लोके प्रपन्नस्य पुरुषस्य तथा यमः॥
योनीश्च नरकांश्चैव निरूपयति कर्मणाम्
पूजनीयाश्च ते तेन वैवस्वतमपश्यत॥
मरणानन्तरं प्रोक्तं तिरश्चां गर्भसम्भवम्
वायुभूताश्च ते गर्भं प्रपद्यन्ते न संशयः ॥
मनुष्यस्तु मृतो राम नीयते यममन्दिरम्
तथा कर्मानुरूपेण यमं पश्यत्यसौ ततः ॥
घोरं पापस्तथा धर्मे निविष्टः सौम्यदर्शनम्
धर्मिष्ठः पूज्यते तत्र ह्यासनेनोदकेन च ॥
पाशबद्धगलः पापः पीड्यते वै यमाग्रतः
चित्रगुप्तास्ततस्तस्य स्वर्गं नरकमेव च ॥
निवेदयन्ति धर्मज्ञ स तु पिण्डाशनस्ततः
तदा त्यक्त्वा तु तद्देहं प्रेतदेहं प्रपद्यते ॥
प्रेतलोके तु वसतिर्वर्षं तस्य तु कीर्तिता
क्षुत्तृष्णे प्रत्यहं तत्र भवतो भृगुनन्दन ॥
अहोरात्रं तु तत्रापि मानुष्यं परिकीर्तितम्
आमश्राद्धास्तथा दत्ता भुज्यंते तत्र मानवैः ॥
अतिवाहिकदेहात्तु प्रेतपिण्डैर्विना नरः
न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सोऽश्नुते ॥
कृते सपिण्डीकरणे नरः संवत्सरात्परम्
प्रेतदेहं समुत्सृज्य भोगदेहं प्रपद्यते ॥
तदादौ भुज्यते तत्र यत्स्तोकं भृगुनन्दन
भोगदेहावुभौ प्रोक्तौ शुभाशुभकसंज्ञकौ ॥
भोगदेहं शुभं तस्य देवरूपस्य जायते
नानाप्रकारमशुभं नीरूपं घोरदर्शनम् ॥
यादृशं तस्य मानुष्यं रूपमासीत्पुरातनम्
किञ्चित्तस्य तु सादृश्यं तत्रापि प्रतिपद्यते ॥
भुक्त्वा स भोगदेहेन यथाकालं त्रिविष्टपम्
कर्मण्यल्पावशेषे तु त्रिदिवाद्विनिपात्यते ॥
त्रिदिवात्पतितं तस्य भोगदेहं तु राक्षसाः
भक्षयन्ति तदा भूमौ विकृता भीमदर्शनाः ॥
पापे तिष्ठति चेत्स्वर्गे तेन भुक्त तथा द्विज
तदा द्वितीयं गृह्णाति भोगदेहं तु पापिनम् ॥
भुक्त्वा पापं तु ते पश्चात्तेन भुक्तं त्रिविष्टपम्
शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टोऽभिजायते ॥
पुण्ये तिष्ठति चेत्पापं तेन भुक्तं तदा भवेत्
तस्मिन्सम्भक्षिते देहे शुभं गृह्णाति विग्रहम् ॥
कर्मण्यल्पावशेषे तु नरकादपि मुच्यते
युक्तस्तु नरकाद्याति तिर्यग्योनिमसंशयम् ॥
तत्राप्यशेषतः पापं न तदश्नाति भार्गव ॥
ततोऽवशेषं मानुष्यं भुंक्तेऽसौ कृतलक्षणः
रज्जुर्यथा स्याद्बहुतन्तुबद्धा विकर्षणं शक्तिमनी गुरूणाम् ॥
स्वर्गाय पुण्यं नरकाय पापं तथा नृणां स्यादिह भार्गवाग्र्य
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भोगदेहवर्णनन्नाम त्रयोदशोत्तरशततमोऽध्यायः
2.114
पुष्कर उवाच ॥
जीवः प्रविष्टो गर्भे तु कललं प्रति तिष्ठति ॥
मूढस्तु कलले तस्मिन्मासमात्रं हि तिष्ठति
द्वितीयं तु तदा मासं घनीभूतः स तिष्ठति ॥
तस्यावयवनिर्माणं तृतीये मासि जायते
त्वक्चर्मपञ्चमे मासि षष्ठे रोम्णां समुद्भवः ॥
सप्तमे च तथा मासि प्रबोधश्चास्य जायते
स जीवोऽपि हि माण्डूकः शीते शीतादितोभ्यसुः ॥
मूढस्तिष्ठति धर्मज्ञ षण्मासान्गर्भगस्तथा
मातुराहारपीतं तु सप्तमे मास्युपाश्नुते ॥
अष्टमे नवमे मासि भृशमुद्विजते तदा
जरायुवेष्टितो देहो मूर्ध्नि बद्धाञ्जलिः सदा ॥
मध्ये क्लीबस्तु वामे स्त्री दक्षिणे पुरुषस्तथा
तिष्ठत्युत्तरभागे तु पृष्ठस्याभिमुखस्तथा ॥
यस्यां तिष्ठति सा योनौ तां तु वेत्ति न संशयम्
सर्वं स्मरति वृत्तान्तं त्वारभ्य जन्मतस्तथा ॥
अन्धकारे च महति पीडां विन्दति भार्गव
कीटगन्धेन महता कल्मषं विन्दते परम् ॥
मात्रानीते जले पीते परं शीतमुपाश्नुते
उष्णे भुक्ते तदा दाहं परमाप्नोति भार्गव ॥
व्याधिभिः परमां पीडां तीव्रां प्राप्नोति दुःसहाम्
व्यायामे च तथा मातुः क्लमं महदुपाश्नुते ॥
व्याधितायां तथा तीव्रां वेदनां समुपाश्नुते
भवन्ति व्याधयश्चास्य तत्र घोराः पुनःपुनः ॥
न च माता पिता वेत्ति तदा कश्चिच्चिकित्सकः
सौकुमार्याद्रुजं तीव्रां जनयन्ति तु तस्य ताः ॥
आधिभिर्व्याधिभिश्चैव पीड्यमानस्य दारुणैः
स्वल्पमध्येऽथ तत्कालं याति वर्षशतोपमम् ॥
सन्तप्यते तथा गर्भे कर्मभिश्च पुरातनैः
मनोरथानि कुरुते सुकृतार्थं पुनःपुनः ॥
जन्म चेदहमाप्स्यामि मानुष्ये दैवयोगतः
ततः कर्म करिष्यामि येन मोक्षो भवेन्मम ॥
नास्ति मोक्षं विना सौख्यं गर्भवासे कथञ्चन
गर्भवासश्च सुमहल्लोके दुःखैककारणम् ॥
एवं विचिन्तयानस्य तस्य वर्षशतोपमम्
मासत्रयं तद्भवति गर्भस्थस्य प्रपीड्यतः ॥
ततस्तु काले सम्पूर्णे प्रबलैः सूतिमारुतैः
भवत्यवाङ्मुखो जन्तुः पीडामनुभवन्पराम् ॥
अधोमुखः संकटेन योनिद्वारेण वायुना
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥
योनिनिष्क्रमणात्पीडां चर्मोत्कर्तनसन्निभाम्
प्राप्नोति च ततो जातः तीव्रं शीतमसंशयम् ॥
जन्मज्वराभिभूतस्य विज्ञानं तस्य नश्यति
करसंस्पर्शनान्मातुर्न च जानात्यसौ तदा ॥
करपत्रस्य संस्पर्शान्मासमात्रं विमोहितः
संभवमेतद्गर्भे प्रोक्तं जन्तोर्मया तुभ्यम् ॥
क्रमतो वच्मि तवाहं तत्सत्यं ब्रूहि धर्मज्ञ
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने सम्भववर्णनन्नाम चतुर्दशोत्तरशततमोऽध्यायः
2.115
॥ राम उवाच ॥
शरीरं सकलं देव तन्ममाख्यातुमर्हसि ॥
एतदेव परं ज्ञानं त्वं हि वेत्सि महाभुज
पुष्कर उवाच ॥
भूमिः पञ्चगुणा ज्ञेया जलं ज्ञेयं चतुर्गुणम् ॥
तेजस्तु त्रिगुणं राम पवनो द्विगुणो मतः
तत्रैकगुणमाकाशं नित्यं ज्ञेयं मनीषिभिः ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
भूमेर्गुणं विजानीयादुपान्ते गन्धवर्जिताः ॥
रसगन्धविहीनास्तु तेजसः परिकीर्तिताः
गन्धो रसस्तथा रूपं नास्ति वायोर्भृगूत्तम ॥
गन्धो रसस्तथा रूपं स्पर्शः खे न च विद्यते
रसो गन्धस्तथा रूपं स्पर्शनं शब्द एव च ॥
भूम्यादीनां गुणाः प्रोक्ताः प्रधाना भृगुनन्दन
आकाशजानि स्रोतांसि तथा श्रोत्रं विविक्तता ॥
श्वासोच्छ्वासौ परिस्पन्दो वाक् च संस्पर्शनं तथा
वायवीयानि जानीयात्सर्वाण्येतानि पण्डितः ॥
रूपं संदर्शनं पक्तिं पित्तमूष्माणमेव च
मेधा वर्णं बलं छाया तेजः शौर्यं तथैव च ॥
सर्वाण्येतानि जानीयात्तैजसानि शरीरिणाम्
अम्भसानीह रसनं स्वेदः क्लेदो वसा तथा ॥
रसासृक्छुक्रमूत्रादि देहे द्रवचयस्तथा
शैत्यं स्नेहश्च धर्मज्ञ तथा श्लेष्माणमेव च ॥
पार्थिवानीह जानीहि प्राणकेशनखादि च
अस्थ्नां समूहो धैर्यं च गौरवं स्थिरता तथा ॥
मातृजानि मृदून्यत्र त्वक् च मांसं च भार्गव
हदयं च तथा नाभिः स्वेदो मज्जा यकृत्तथा ॥
क्लोमान्तं च गुदं राम आमस्याशयमेव च
पितृजानि स्थिराण्यग्रभूमिजानीह यानि तु ॥
स्नायुशुक्रशिराश्चैव आत्मजानि निबोध मे
कामः क्रोधो भयो हर्षो धर्माधर्मात्मता तथा ॥
आकृतिः स्वरवर्णौ च चेतनाद्यं तथा वयः
तामसानि तथा ज्ञानप्रमादालस्यतृट्क्षुधः ॥
मोहमात्सर्यवैगुण्यशोकायासभयानि च
कामक्रोधौ तथा शौर्यं यज्ञेप्सा बहुभाषिता ॥
अहङ्कारः परावज्ञा राजसानि महाभुज ॥
धर्मेच्छा मोक्षकामित्वं परा भक्तिश्च केशवे ॥
दाक्षिण्यं व्यवसायश्च सात्त्विकानि विनिर्दिशेत्
चतुरः क्रोधनो भीरुर्बहुभाषी कलिप्रियः ॥
स्वप्ने गगनगश्चैव वहुवातो नरो भवेत्
अकालपलितः क्रोधी महाप्रज्ञो रणप्रियः ॥
स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत्
स्थिरचित्तः स्थिरोत्साहः स्थिराङ्गरचनान्वितः ॥
स्वप्ने जलसितालोकी बहुश्लेष्मा नरो भवेत्
रसस्तु प्रीणनो देहे जीवनो रुधिरस्तथा ॥
लेपनं च तथा मांसे मेदः स्नेहकरं च तत्
धारणं त्वस्थि कथितं मज्जा भवति पूरणी ॥
गर्भोत्पादकरं शुक्रं तथा वीर्यविवर्धनम्
तेजः प्राणकरं नित्यं तत्र जीवो व्यवस्थितः ॥
शुक्रादपि परं सारमपीतं हृदयोपमम्
षडङ्गानि प्रधानानि कथयिष्यामि ते शृणु ॥
द्वौ बाहू सक्थिनी द्वे च मूर्धा जठरमेव च
षट्त्वचश्च शरीरेऽस्मिन्कीर्त्यमाना निबोध मे ॥
बाह्यतो ह्यधरा राम त्वचा रुधिरधारिणी
विलासकारिणी चान्या चतुर्थी कुष्ठकारिणी ॥
पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता
कलाः सत्यस्मृता देहे तासांवक्ष्यामि लक्षणम् ॥
एका मांसधरा राम धमन्यो यत्र संस्थिताः
असृग्धरा द्वितीया तु यकृत्प्लीहाश्रया मता ॥
मेदोधरा तृतीया स्यात्सूक्ष्मस्थूलाश्रया तु या
मज्जाश्रया चतुर्थी तु तथा श्लेष्मपरा मता ॥
पुरीषधारिणी चान्या यथा पक्वाशये स्थितेः
षष्ठी पित्तधरा नाम जठराग्नौ समाश्रिता ॥
शुक्राशया शुकधरा तथा ज्ञेया च सप्तमी
बुद्धीन्द्रियाणि पञ्चात्र श्रोत्रं प्राणं च चक्षुषी ॥
त्वक्तथा रसना चैव महाभूताश्रयाणि तु
इन्द्र्यार्थास्तथा पञ्च तेषां नामानि मे शृणु ॥
श्रोत्रस्य शब्दः कथितो गन्धो प्राणस्य पार्थिवः
रूपं च चक्षुषो ज्ञेयं त्वक् च संस्पर्शनं तथा ॥
रसनस्य रसश्चैव महाभूताश्रयास्तु ते
कर्मेन्द्रियाणि पञ्चात्र तेषां नामानि मे शृणु ॥
पायूपस्थं हस्तपादौ जिह्वा चैवात्र पञ्चमी
तेषामर्थास्तथा पञ्च तान्प्रवक्ष्याम्यतः परम् ॥
उत्सर्गं च तथानन्दं आदानगमने तथा
इन्द्रियाणि दशैतानि तेषां वै नायकं मनः ॥
पञ्च कर्मेन्द्रियाण्यत्र पञ्च बुद्धीन्द्रियाणि च
इन्द्रियार्थाश्च पञ्चात्र महाभूतानि पञ्च च ॥
इन्द्रियेभ्यः पराः प्रोक्ताश्चत्वारो भृगुनन्दन
मनो बुद्धिस्तथैवात्मा अव्यक्तश्च महाभुज ॥
तदाश्रयाणीन्द्रियाणि इन्द्रियेभ्यः पराश्च ते
तत्त्वान्येतानि जानीहि चतुर्विंशतिसंख्यया ॥
येषामैक्यं महाभाग पुरुषः पञ्चविंशकः
संयुक्तस्तैर्वियुक्तश्च तथा मत्स्योदके उभे ॥
मनः संशयकृन्नित्यं तथा बुद्धिर्विवेचनी
आत्मा जीवः स्मृतो राम यो भोक्ता सुखदुःखयोः ॥
अव्यक्तो मिश्रितानीह रजःसत्त्वतमांसि च
पुरुषस्त्वपरो ज्ञेयो यश्च सर्वगतो महान् ॥
चतुर्विशतिकात्संख्याद्यः स नित्यः पृथक् स्थितः
एकत्रितानि तत्त्वानि पुरुषस्य तथैकतः ॥
न चैव व्यतिरिक्तानि तत्त्वानि पुरुषात्परम्
प्रकृतिः पुरुषो राम निष्फलः पञ्चविंशकः ॥
विकृतिस्तस्य विज्ञेया शेषस्तत्त्वगणो बुधः
सर्वतः पाणिपादोऽसौ सर्वतोक्षिशिरोमुखः ॥
पुरुषः स परो ज्ञेयः सर्वशक्तिस्तु सर्वतः
नादिर्न मध्यो नैवान्तो व्याप्तिसम्भवयोर्द्वयोः ॥
यस्य जानन्ति मुनयो यस्तं वेद स वेदवित्
स याति परमं स्थानं यो वेत्ति पुरुषं परम् ॥
एतदेव च विज्ञानं प्रस्तुतं शृणु भार्गव
सप्ताशयाः स्मृता देहे शृणु तानपि भार्गव ॥
आशयो रुधिरस्यैकः कफस्य च तथा परः
आमपित्ताशयौ चान्यौ ज्ञेयः पक्वाशयोऽपरः ॥
वायुमात्राशयौ चान्यौ आशया सप्त कीर्तितः
स्त्रीणां गर्भाशयो राम पित्तपक्वाशयान्तरे ॥
अष्टमः स भवेत्तासां यत्र गर्भः स तिष्ठति
ऋतौ विकोशा भवति योनिः कमलवत्सदा ॥
गर्भाशये ततः शुक्र धत्ते रक्तसमन्वितम्
अन्यत्र काले मुकुला योनिर्भवति योषिताम् ॥
न्यस्तं शुक्रमतो योनौ नैति गर्भाशयं मुने
ऋतावपि च योनिश्चेद्वातपित्तकफावृता ॥
भवेत्तस्या विशौचार्थं नैव तस्याः प्रजायते
वृक्का तु पुष्पसप्लीहं हृत्कोष्ठाङ्गयकृद् घनाः ॥
तण्डुलश्च महाभाग निबद्धान्याशये तु ते
रसस्य पच्यमानस्य साराद्भवति देहिनाम् ॥
प्लीहा यकृच्च धर्मज्ञ रक्तफेनाच्च पुक्कसः
रक्तकिट्टाच्च भवति तथा दण्डकसंज्ञकः ॥
मेदो रक्तप्रसादाच्च वृक्कयोः सम्भवः स्मृतः
रक्तमांसप्रसादाच्च भवन्त्यन्त्राणि देहिनाम् ॥
सावित्रिव्योमसंख्यानि तानि स्त्रीणां विनिर्दिशेत्
त्रिव्योमानि तथा स्त्रीणां प्राहुर्वेदविदो जनाः ॥
रक्तवायुसमायोगात्कालो यस्योद्भवः स्मृतः
कफप्रसादाद्भवति हृदयं पद्मसन्निभम् ॥
अधोमुखं तत्सुषिरं यत्र जीवो व्यवस्थितः
चैतन्यानुगता भावा सर्वे तत्र व्यवस्थिताः ॥
तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत्
दक्षिणे च तथा क्लोम पद्मस्यैव प्रकीर्तितम् ॥
स्रोतांसि यानि देहेऽस्मिन्कफरक्तवहानि तु
तेषां भूतानुगानां तु भवतीन्द्रियसम्भवः ॥
नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैत्तिकम्
कृष्णं च मण्डलं वातात्तथा भवति मातृकम्॥
सर्वहृन्मण्डलं ज्ञेयं मातापितृसमुद्भवम्
पक्ष्ममण्डलमेकं तु द्वितीयं वर्त्ममण्डलम् ॥
शुक्ले तृतीयं कथितं चतुर्थं कृष्णमण्डलम्
दृङ्मण्डलं पञ्चमं तु नेत्रं स्यात्पञ्चमण्डलम् ॥
अन्ये तु नेत्रभागे द्वे तथाऽपाङ्गकनीनिके
याभ्यां नेत्रस्य जनिता मत्स्यसंस्थानता द्विज ॥
नासासमीपे कथितं तदपाङ्गेतिसंज्ञितम्
कपोलयोः समीपे तु तथा प्रोक्ता कनीनिका ॥
मांसासृक्कफजा जिह्वा मेदोऽसृक्कफमांसजा
वृषणौ च तथा ज्ञेयौ सर्वेषामेव देहिनाम् ॥
प्राणस्यायतानान्यत्र दशैतानि निबोध मे
मूर्धा च हृदयं नाभि कण्ठो जिह्वा निबन्धनम् ॥
रक्तं शुक्रं गुदो वस्तिस्तथा गुल्फौ च भार्गव
कण्डराः षोडश प्रोक्तास्तथा देहे शरीरिणाम् ॥
द्वे करस्थे तथा द्वे च चरणस्थे पृथक्पृथक्
चतस्रः पृष्ठगा ज्ञेया ग्रीवायां तावदेव तु ॥
जलानि षोडशैवात्र विभागस्तेषु कथ्यते
मांसस्नायुशिरास्थिभ्यः चत्वारस्तु पृथक्पृथक् ॥
मणिबन्धानि गुल्फेषु निबद्धानि परस्परम्
शंकूनि च स्मृतानीह हस्तयोः पादयोस्तथा ॥
ग्रीवायां च तथा मेढ्रे कथितानि मनीषिभिः
देहेऽस्मिंश्च तथा ज्ञेयाश्चतस्रो मांसरज्जवः॥
पृष्ठवंशोभयगते द्वे द्वे तत्र प्रकीर्तिते
तावन्त्यश्च तथाप्येतास्तासां बन्धनकारकाः ॥
सीवन्यश्च तथा सप्त पञ्च मूर्धानमाश्रिताः
एका मेढ्रगता चैका तथा जिह्वागता परा॥
अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि तु
सूक्ष्मैः सह चतुःषष्टिं दशना विंशतिर्न्नखाः ॥
पाणिपादशलाकाश्च तासां स्थानचतुष्टयम्
चत्वारिंशत्तथास्थीनि जंघयोस्तावदेव तु ॥
द्वेद्वे जानुकपोलौष्ठफलकांससमुद्भवे
अक्षिस्थलेऽष्टकं श्रोणिफलके चैवमादिशेत् ॥
भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च
ग्रीवापञ्चदशास्थीनि जत्र्वेकं च तथा हनुः ॥
भ्रूमूलं द्वे ललाटाक्षिगण्डनासा तथास्थिका
सर्जुकास्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः ॥
द्वौ शङ्खकौ कपालानि चत्वार्येव शिरस्तथा
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥
तथा चैवात्र सन्धीनां द्वे शते तु शताधिके
अष्टषष्टिश्च शाखासु षष्टिश्चैकविवर्जिता ॥
अन्तराधौ त्वशीतिश्च कथिता भृगुनन्दन
न च स्नायुशतान्यत्र द्वे तु त्रिंशाधिके मते ॥
अन्तराधौ तु कथिता ह्यूर्ध्वगाश्चैव सप्ततिः
षट्कृतानि च शाखासु कथितानि मनीषिभिः ॥
पञ्चपेशीशतान्यत्र चत्वारिंशत्तथोर्ध्वगाः
चत्वारिंशच्छतान्यत्र तथा शाखासु पण्डितैः ॥
अन्तराधौ तथा षष्टिः पेश्यस्तु कथिता बुधैः
स्त्रीणां चैवाधिका ज्ञेया त्रिंशतिश्चतुरुत्तरा ॥
स्तनयोर्दश विज्ञेया योनौ राम तथा दश
गर्भाशये तथा ज्ञेयाश्चतस्रो गर्भचिन्तकैः ॥
त्रिंशच्छतसहस्राणि तथान्यानि दशैव तु
षट्पञ्चाशत्सहस्राणि शिराणां कथितानि तु ॥
ता वहन्ति रसं देहे केदारमिव कुल्यकाः
अभ्यंगादि तथा सर्वं स्वेदलेपादिकं च यत् ॥
द्विसप्ततिस्तथा कोट्यो रोम्णां विद्धि महाभुज
मज्जाया मेदसश्चैव वसायाश्च तथा द्विज ॥
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा
रक्तस्य च रसस्याथ क्रमशोञ्जलयः स्मृताः ॥
अर्धार्धाभ्यधिकाः सर्वाः पूर्वार्धाञ्जलितः स्मृताः
अर्धांजलिश्च शुक्रस्य तथार्धा च तथौजसः ॥
रजसस्तु तथा स्त्रीणां चतस्रः कथिता बुधैः
समधातोरिदं प्रोक्तं प्रमाणं देहचिन्तकैः ॥
विलक्षणानि देहानि नित्यमेव शरीरिणाम् ॥
तेषां भेदेन भिद्यन्ते मलदोषानुरूपतः
एतच्छरीरं मलदोषपिण्डं धात्वाश्रयं कर्मवशानुबद्धम् ॥
मोक्षाय यस्येह भवेत्स धन्यो मोक्षे च हेतुः परमो हि विष्णुः
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने शरीरविषयवर्णनन्नाम पञ्चदशोत्तरशततमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0