भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 2.106.110

2.106.110.1

2.106
पुष्कर उवाच ॥
स्नानमन्यत्प्रवक्ष्यामि तवाहं दुरितापहम् ॥
दानवेन्द्राय भुवने यज्जगादोशनाः पुरा

2.106.110.2

धन्यं यशस्यमायुष्यं सर्वशत्रुक्षयंकरम् ॥
प्रभातायां तु शर्वर्यां भास्करेऽनुदिते तथा

2.106.110.3

स्नायीत भार्गवश्रेष्ठ विधिदृष्टेन कर्मणा ॥
सौवर्णं राजतं कुम्भमथवापि महीमयम्

2.106.110.4

नादेयैः सागरैस्तोयैः कल्पयित्वा यथाविधिः ॥
ओषधीर्विन्यसेत्तत्र समभागाः सुचूर्णिताः

2.106.110.9

जया च विजया चैव तथा सूक्ष्मफलानि च ॥
प्रसन्नमुखबीजानि भाण्डीरकुसुमानि च

2.106.110.6

क्षीरजापत्रनिर्माल्यं देवीनिस्सारमेव च ॥
कल्लीवराङ्गना चैव गजेन्द्रस्य च मञ्जरी

2.106.110.7

क्षुद्रजं करजं चैव धने द्वेद्वे विभावरी ॥
महौघं पूर्तगं चैव भुवं यक्षभुवं तथा

2.106.110.8

शशाङ्कमृगदर्पं च दानं च करिणस्तथा ॥
ओषध्यः कथितास्तुभ्यं दाने मन्त्रमतः शृणु

2.106.110.9

( ॐनमो भगवते रुद्राय धवलपाण्डुरोपचितभस्मानुलिप्तगात्राय ॥
तद्यथा ॥
जय जय विजयविजय सर्वाञ्छत्रूनमुकस्य कलहविग्रहविवादेषु भञ्जभञ्ज मथमथ सर्वत्र प्रत्यक्षिकां योऽसौ युगान्तकाले दध्यक्षतैरिमां पूजां रौद्री मूर्तिसहस्तां सुसत्त्वां रक्षतु जीविकां संवर्तकाग्नितुल्यश्च त्रिपुरार्तिकरः यः सर्वदेवमयः सोऽपि तव रक्षतु जीवितं निखि निखि निखि स्वाहा ॥ )
एवं स्नातस्त्वनेनैव गात्रेण तिलतण्डुलम् ॥
घृताक्तं ज्वलिते वह्नौ जुहुयात्प्रयतः सदा

2.106.110.11

।
ततः सम्पूजनं कुर्याद्देवदेवस्य शूलिनः ॥
घृतक्षीराभिषेकेण गन्धपुष्पफलाक्षतैः ॥ 2.106.१० ॥।
दीपधूपनमस्कारैस्तथा वान्नेन भूरिणा ॥
गीतवाद्यैः सुमधुरैर्ब्राह्मणान्स्वस्तिवाचनैः

2.106.110.12

माहेश्वरस्नानमिदं हि कृत्वा रक्षोहणं शत्रुनिबर्हणं च ॥
कामानवाप्नोति नरस्तु सर्वान्यान्राम कांश्चिन्मनसेच्छतीति

2.106.110.1

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने माहेश्वरस्नानवर्णनन्नाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥।
2.107
पुष्कर उवाच ॥
स्नानान्यन्यानि ते वच्मि निबोध गदतो मम ॥
रक्षोघ्नानि यशस्यानि मङ्गल्यानि विशेषतः

2.106.110.2

स्नानं घृतेन कथितं चायुषो वर्धनं परम् ॥
राम गोशकृता स्नानं परं लक्ष्मीविवर्धनम्

2.106.110.3

स्नानं च कथितं दध्ना परं लक्ष्मीविवर्धनम्॥
तथा दर्भोदकस्नानं सर्वपापनिबर्हणम्

2.106.110.4

पलाशबिल्व कमलकुशस्नानं पुरो हितम् ॥
वचा हरिद्रा मञ्जिष्ठा तगरं चारकं तथा

2.106.110.5

स्नानमेतद्विनिर्दिष्टं रक्षोघ्नं पापसूदनम् ॥
वचाहरिद्रया युक्तं स्नानं रक्षोहणं परम्

2.106.110.6

आयुष्यं च यशस्यं च धन्यं मेधाविवर्धनम् ॥
स्नानं पवित्रं मङ्गल्यं तथा काञ्चनवारिणा

2.106.110.7

।
क्रमादूनतरे किञ्चिद्रूप्यताम्रोदकैस्ततः ॥
तथा रत्नोदकस्नानं सङ्ग्रामविजयावहम्

2.106.110.8

वैडूर्यं मध्यतः कृत्वा प्रवालैः परिवारयेत् ॥
तेन पात्रेण यत्स्नानं सर्वकामकरं हितम्

2.106.110.9

स्नानं सर्वौषधैर्मुख्यं विवादे विजयप्रदम् ॥
सर्वगन्धोदकस्नानं सौभाग्यारोग्यकारकम्

2.106.110.2.107.10

तथा बीजोदकस्नानं सर्वकर्मप्रसाधकम् ॥
तथैवामलकस्नानमलक्ष्मीनाशनं परम्

2.106.110.11

तिलसिद्धार्थकैः स्नानममङ्गल्यप्रणाशनम् ॥
केवलैर्वा तिलैः स्नानमथवा गौरसर्षपैः

2.106.110.12

स्नानं प्रियङ्गुना प्रोक्तं तथा सौभाग्यवर्धनम् ॥
सौभाग्यकं तथा स्नानं नागकान्ताप्रियङ्गुभिः

2.106.110.13

पुरोचारुककुष्ठैश्च तथैव च विनिर्दिशेत् ॥
धात्रीफलेन पद्मैश्च तथामलकवारिणा

2.106.110.14

लक्ष्मीवृद्धिकरं स्नानं कथितं भार्गवोत्तम ॥
पद्मोत्पलकदम्बैश्च तथा लक्ष्मीविवर्धनम्

2.106.110.15

बलामतिबलां चैव तथा नागबलामपि ॥
बलां मोटां चतुर्थी तु स्नानं वै बलवर्धनम्

2.106.110.16

ब्रह्माकर्कोटकीमूलं कुमारी पद्मचारिणी ॥
स्नाने रोगविनाशाय स्मृताः प्रत्येकशो द्विज

2.106.110.17

मांसीमुराचोरकनागपुष्पैः सनागदानैरतिनाशकारि ॥
तुरुष्ककक्कोलकजातिपूगैः फलैः समस्तैः सुतरां प्रदद्यात्

2.106.110.107

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नानाविधस्नानवर्णनन्नाम सप्तोत्तरशततमोऽध्यायः

2.106.110.1

2.108
राम उवाच ॥
स्नानानामिह सर्वेषां यत्स्नानमतिरिच्यते ॥
तन्ममाचक्ष्व सकलं सर्वकल्मषनाशनम्

2.106.110.2

पुष्कर उवाच ॥
शृणु पादोदकस्नानं सर्वकिल्बिषनाशनम् ॥
श्रवणर्क्षं विना ह्येतद्भवत्यर्धफलं यतः

2.106.110.3

ततः कार्यं प्रयत्नेन श्रवणर्क्षे विशेषतः ॥
अथोत्तरासु षाढासु निराहारो जितेन्द्रियः

2.106.110.4

सर्वौषधैः सर्वगन्धैर्देवदेवस्य चक्रिणः ॥
पादं प्रलेपयेद्विद्वान्क्रमेण चतुरात्मनः

2.106.110.5

ततस्तु कलशान्कुर्याच्चतुरः सुदृढान्नवान् ॥
सौवर्णान्राजतान्ताम्रानथ वापि महीमयान्

2.106.110.6

ततोऽनिरुद्धचरणौ कृपाद्भिः क्षालयेत्ततः ॥
ताभिस्तु कलशं पूर्णं स्थापनीयं तदग्रतः

2.106.110.8

ततः प्रद्युम्नचरणौ क्षाल्यौ प्रस्रवणोदकैः ॥
कलशं पूरितं तच्च भवेत्स्थाप्यं तदग्रतः ।७ ॥
संकर्षणस्य चरणौ क्षाल्यौ तोयैश्च सारसैः ॥
तैस्तु संपूर्णकलशं स्थाप्यं तस्याग्रतो भवेत्

2.106.110.9

वासुदेवस्य चरणौ नादेयैः क्षालयेद्बुधः ॥
कलशं पूरितं तैश्च स्थापनीयं तदग्रतः

2.106.110.2.108.10

ततः पूजा तु कर्तव्या यथावच्चतुरात्मनः ॥
कलशान्पूजयेत्तांश्च गन्धमाल्यफलाक्षतैः

2.106.110.11

ततः प्राप्ते द्वितीयेऽह्नि स्नातः पूर्वमुपोषितः ॥
सम्मुखश्चानिरुद्धस्य स्नाप्यश्च कटुको भवेत्

2.106.110.12

प्रद्युम्नस्य च देवस्य ततः संकर्षणस्य च ॥
ततश्च वासुदेवस्य यथा रामस्य चक्रिणः

2.106.110.13

( पवित्रमन्त्रैः सर्वेषां घण्टानामभिमन्त्रणम्॥
कर्तव्यं सात्त्वतेनाथ शुचिना भार्गवोत्तम

2.106.110.14

अथ मन्त्रान्प्रवक्ष्यामि कलशेषु चतुर्षु ते॥)
मङ्गल्यांश्च यशश्यांश्चा सर्वाघविनिषूदनान्

2.106.110.15

अरुद्धमार्गाः सर्वत्र सर्वशश्चापराजिताः ॥
वायुमूर्तिरचिन्त्यात्मा सोऽनिरुद्धः स्वयं प्रभुः

2.106.110.16

पादोदकेन दिव्येन शिवेनाघविनाशिना ॥
तथाघमपहृत्याशु शिवं वर्धयतां प्रभुः

2.106.110.18

लोकान्प्रद्योतयति यः प्रयुम्नो भास्करप्रभः ॥
हुताशनः स तेजस्वी मङ्गलं विदधातु मे ॥ ।१७ ॥
कामदेवो जगद्योनिः सर्वशः प्रभुरीश्वरः ॥
दुःखहर्ता जगन्नाथो मङ्गलानि ददातु ते

2.106.110.19

जगतां कर्षणाद्देवो यः स सङ्कर्षणः प्रभुः ॥
रुद्रमूर्तिरचिन्त्यात्मा सर्वगः सर्वहारकः

2.106.110.2.108.20

कामपालोऽरिदमनः सर्वभूतस्य शङ्करः॥
विश्वयोनिर्महातेजा मङ्गलानि ददातु ते

2.106.110.21

सर्वावासो वासुदेवो भूतात्मा भूतभावनः ॥
सर्वगश्चाप्रमेयश्च पुरुषः परमेश्वरः

2.106.110.22

अनन्तः सर्वदेवेशो जगदाधारकारणः ॥
अघापहारी वरदो विदधातु श्रियं तव

2.106.110.23

एवं स्नातस्ततस्त्यक्त्वा तत्रैव स्नानवाससी ॥
शुक्लवासा उपस्पृश्य पूजां कुर्यात्क्रमेण तु

2.106.110.24

गन्धैः पुष्पैः फलैर्मुख्यैर्दीपैर्धूपैः सुगन्धिभिः ॥
नैवेद्यैर्विविधैश्चैव सात्त्वतानां च पूजनैः

2.106.110.26

एवं देवार्चनं कृत्वा सात्त्वतां शान्तिदं शुभम् ॥
भोजनं गोरसप्रायं कृत्वा तिष्ठेत्सुयन्त्रितम्

2.106.110.26

प्रादुर्भावाणि मुख्यानि शृणुयात्केशवस्य च ॥
पाखण्डिपतितानां च वर्जयेद्दर्शनं तथा

2.106.110.27

इति पादोदकस्नानं प्रोक्तं रक्षोहणं तव ॥
मङ्गल्यं पापशमनमलक्ष्मीनाशनं परम्

2.106.110.28

सर्वविघ्नप्रशमनं सर्वबाधाविनाशनम् ॥
दुःस्वप्नारिष्टशमनं सर्वव्याधिहरं शिवम्

2.106.110.29

यात्रासिद्धिकरं धन्यं कर्मणां सिद्धिकारकम् ॥
शत्रुघ्नं बुद्धिदं मेध्यं बलायुःस्मृतिवर्धनम् ॥
सौभाग्यदं कामपरं यशःपुत्रविवर्धनम्

2.106.110.2.108.30

अमोघवीर्यं पुरुषोत्तमस्य पादोदकस्नानमिदं प्रदिष्टम् ॥
स्नानोत्तरं ते रणचण्डवेग भूयस्तु ते किं कथयामि राम

2.106.110.108

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषोत्तमपादोदकस्नानवर्णनन्नामाष्टोत्तरशततमोऽध्यायः

2.106.110.1

2.109
राम उवाच ॥
मणीनामथ काम्यानां श्रोतुमिच्छाम्यहं विधिम् ॥
सर्वकामकरं मुख्यं तथा च दुरितापहम्

2.106.110.2

पुष्कर उवाच ॥
आथर्वणेन विधिना मणिकर्म निबोध मे ॥
ध्रुवस्तिष्ठेत्यृचा वृक्षं प्रत्यक्षमनुमन्त्रयेत्

2.106.110.3

पादोनया मणिस्थानं प्रोक्षयेत्तु द्वितीयया ॥
अस्याः पादेनोत्तरेण निर्मिमीत मणिं ततः

2.106.110.4

सबन्धुश्चेति तमृचा तस्माच्छिन्द्यादिति श्रुतिः ॥
आहरेत मणिं तस्मात्सूक्तादस्मात्तृतीयया

2.106.110.5

सर्वत्र तु मणीनां च निर्माणं केवलं भवेत् ॥
उपयुक्तास्तु केवाक्षा द्रव्यास्ते परिकीर्तिताः

2.106.110.6

अङ्गुष्ठपर्वमात्रास्ते कर्तव्यास्तु समन्ततः ॥
सम्यगुत्पादयेत्तेषां सम्यग्ग्रन्थिचतुष्टयम्

2.106.110.7

अग्रतो मूलतो वापि कल्पमानेऽतिरिच्यते ॥
अरातीयोरित्यनया छिन्द्याच्छस्त्रेण तत्त्ववित्

2.106.110.8

अर्थं च सुशिरः कृत्वा ततः प्रक्षाल्य वारिणा ॥
पात्रं तमग्नौ कृत्वा तु सम्यगेव यथाविधि

2.106.110.9

यत्राचक्रुरित्यनया ससूत्रमत उत्तरम् ॥
कुर्यात्तदग्निकुण्डं च प्रबोध्य जुहुयाद् घृतम्

2.106.110.2.109.10

प्रत्यृचा स्वेन मन्त्रेण सम्पातानयनं भवेत् ॥
कृतशान्त्युदके पात्रे रम्ये लोहमये दृढे

2.106.110.11

स्वलिङ्गोद्धृमन्त्रेण दर्विदण्डादतः परम् ॥
विमुच्य सर्वं तेनैव मन्त्रेण भ्रामयेन्मणिम्

2.106.110.12

पात्रे तस्मिंस्ततस्तस्मादुद्धृत्या बन्धनं भवेत् ॥
सकलेनैव मन्त्रेण मन्त्रयेच्च तथोद्गतम्

2.106.110.13

सामान्यमिदमुक्तं ते शृणु वैशेषिकं द्विज ॥
अभीवर्तमणौ कर्म तव वक्ष्याम्यतः परम्

2.106.110.15

अभीवर्त्तेन मणिनेत्याद्याभिस्तिसृभिर्मणौ ॥
अत्रायं वासवं पात्रं द्वेभ्यश्च प्रत्यृचं पुनः १४ ॥
दत्त्वा सर्वेण सूक्तेन मणेराधन्वनं भवेत् ॥
अभीवर्तमणिः प्रोक्तो नो वा काष्ठान्भृगूत्तम

2.106.110.16

अयं योनिरत इति तस्य होमो विधीयते ॥
शशकेष्विह ये श्रान्तवत्सभैषज्यभाजनम

2.106.110.17

क्षुद्रेषु यदपामार्गं मणिः शान्तविसंज्ञकः ॥
इत्येते यावदुक्ताः स्युर्विवाहमधुराश्च ये

2.106.110.18

पूर्वोक्तेन भवेद्धर्म एतेषामिति मे मतिः ॥
द्रव्यौषधिमणीनां च सभार्याणां तथैव च

2.106.110.19

दाक्षायणमणीनां च भवेद्धोमाधिको विधिः ॥
ओषधीनामिहेदानीं विधानं शृणु भार्गव

2.106.110.2.109.20

व्रीहीणां वा यवानां वा मूले तु परितः किरेत् ॥
यदि सौम्य सुमन्त्रेण फलकान्येकविंशतिः

2.106.110.21

अमुष्मिन्स्थानरूढासु यथाभिलषितां बुधः ॥
योजयेन्नाम सम्भूताममुकस्य विभूतये

2.106.110.22

घृताहुतेति च द्वाभ्यां घृतेन प्रोक्षयेत्ततः ॥
मा ते रिषसीत्यनया ह्या त्वा तमभिमन्त्रयेत्

2.106.110.23

गन्धं संछादयेच्चैव ततो भूमेत्यनन्तरम् ॥
इत्यौषधीनां सर्वासां सामान्योऽयं विधिः स्मृतः

2.106.110.24

एककाद्यास्तु मणयः सलिङ्गं निखनेद्बुधः ॥
मन्त्रेण तान्प्रवक्ष्यामि यथावदनुपूर्वशः

2.106.110.25

एकाङ्क एककामायेत्येकांके विधिवत्खनेत् ॥
आक्रन्दयति सूक्तेन प्रदध्नां यद्यथाविधि

2.106.110.26

इयं वीरुदित्यनया विधिवन्मधुघः खनेत् ॥
सूक्तेन सुकलेनास्य मणेराबन्धनं भवेत्

2.106.110.27

इमां खनामीत्यनया नितनीलिङ्गया खनिम् ॥
प्रतीची सौममसितां बध्नीयात्तु यथाविधि

2.106.110.28

यात्वा गन्धर्व इन्द्राभ्यां कपिकच्छुं खनेद्वधः ॥
सूक्तेनानेन तन्मेढ्रे प्रबध्नीयादिति स्थितः

2.106.110.29

इमां खनामीत्यनया दशधास्रुतया खनेत् ॥
पाठासूक्तेन बध्नीयादेका राज्ञीमिति श्रुतिः

2.106.110.2.109.30

दशशीर्ष इति द्वाभ्यां महाख्यं विधिवत्खनेत् ॥
आपः पुनन्त्वित्यनेन बध्नीयात्तां यथाविधि

2.106.110.31

इमां खनाम्यौषधीं त्वां ढबीं नाम तथोत्खनेत् ॥
काण्डीयाऋक्तया त्वेते बध्नीयात्तु यथाविधि

2.106.110.32

य आत्मजा इत्यनया खन्यादिति तथैव ताम् ॥
अनेनैव प्रबध्नीयाद्विद्वान्सूक्तेन तं मणिम्

2.106.110.33

अरिष्टस्त्वा खनतु वै पिप्पलं तु खनेत्तथा ॥
यावद्द्यौरिति सूक्तेन तस्य चाबन्धनं भवेत्

2.106.110.34

साहसीनावचेत्येवं सैधकं च तथा खनेत् ॥
अनेवैव प्रबध्नीयात्सूत्रेण तु यथाविधि

2.106.110.35

पयोऽसीत्यथवा हन्यात्स्वर्गपत्रीं यथाविधि ॥
सूक्तेन तां प्रबध्नीयादनेनैव यथाक्रमम्

2.106.110.36

इमां खनामीत्यनया माषपर्णीं तथा खनेत् ॥
द्वाभ्यां चानर्थसक्तत्वप्रबध्नीयादिति श्रुतिः

2.106.110.37

ततः खण्डारिकां खन्याद्राजा त्वां वरुणः खनेत्॥
ऋचानया समस्तेन सूक्तेनाबन्धनं भवेत्

2.106.110.38

एकार्कप्रभृतीनां तु लिङ्गः कल्प्यं फलं बुधैः ॥
सामीयात्वाह वरुणेत्येवमादिषु संश्रिताः

2.106.110.39

सामीदयः पदार्थास्ते उपक्लृप्तास्तथा स्मृताः ॥
द्रव्यैस्तैस्तु मणिं कुर्यादाम्नायोक्तैर्यथाविधि

2.106.110.2.109.40

तल्लिङ्गेन तु मन्त्रेण यथावदनुपूर्वशः ॥
कुष्ठस्य मणयः पञ्च उदपात्रे विदुर्बुधाः

2.106.110.41

प्रत्यैकपाठसंस्कार शुद्धये वेति नः श्रुतम् ॥
चतुरस्रं प्रबध्नीयान्मणिमञ्जनवत्तथा

2.106.110.42

सैन्धवं लवणं सिद्धमुभयत्र परिग्रहात् ॥
कुर्याद्वाक्ष्यं च संस्कारं व्याघ्रत्यपमणौ तथा

2.106.110.43

चतुरस्रौ तु कर्तव्यौ मणी कारणकालजौ ॥
नैमित्तिकाश्च मणयो मणयः संविदुश्च ये

2.106.110.44

स्वंस्वं मन्त्रं भवेत्तेषामिति मे निश्चिता मतिः ॥
नैमित्तिकानां घोरास्ते तेषां नैमित्तिकं भवेत्

2.106.110.45

सम्पदानां तथा मध्ये साम्पदं नात्र संशयः ॥
सीमात्र्यात्वाहेत्यनेन सीमसं जनवद्भवेत्

2.106.110.46

पिशाचशातनः पुंसां यातुधानविनाशनः ॥
मन्त्रलिङ्गादयं ज्ञेयो मन्त्रश्चास्य प्रवक्ष्यते

2.106.110.47

शरकाष्ठे तु संयोज्य सीसं कृत्वेति बुद्धिमान् ॥
भार्ङ्गीं ज्यां धनुषः कृत्वा बाधकेनाथ तेन तत

2.106.110.48

भूमौ पिशाचमालिख्य भगवेन तु ताडयेत् ॥
उत्तरेण शरेणैव पिशाचो नाशमाप्नुयात्

2.106.110.49

शंकुधारमणेर्मन्त्र अनुसूर्यमिति स्मृतिः ॥
प्रज्ञातवर्णशाब्दाश्च रोहितस्य परिग्रहः

2.106.110.2.109.50

चर्मणः स्यात्तथा वर्गो रोहितासाभवेच्च गाः ॥
शंकुर्निधीयते यत्र विस्तरार्थं तु चर्मणः

2.106.110.51

तस्माद्देशान्मणिः कार्यः शंकुर्धनपरिग्रहः ॥
मणिधनं च दुग्धं स्यादुपविष्टाय चर्मणि

2.106.110.52

यजमानाय धर्मज्ञ उदपात्रं तथामया ॥
अतिकामल रोगघ्नमायुष्यश्च तथा मणिः

2.106.110.53

इमं मे कुष्ठेत्यनेन पञ्चानां स्यात्परिग्रहः ॥
अत्यर्थमेव नैतेषां जलं कुष्ठेन संयुतम्

2.106.110.54

सत्कृत्य पानयोगत्वाद्यजमानः पिबेत्ततः ।
मणयः पञ्चकुष्ठे द्वौ मणिशब्दपरिग्रहम्

2.106.110.59

तुल्येन विधिना कार्याः फलं तेषां पृथक्पृथक् ॥
शिरोर्तिनाशनः पूर्वो द्वितीयो विषदूषकः

2.106.110.56

तृतीयश्च तथा प्रोक्तो विषमज्वरनाशनः ॥
चतुर्थश्च तथा प्रोक्तः सततज्वरनाशनः

2.106.110.57

चक्षुष्यः पञ्चमः प्रोक्तो मणिर्भार्गवनन्दन ॥
कृत्वोदपात्रं कुष्ठाम्भो नवनीतविमिश्रितम्

2.106.110.58

भूयः कुष्ठं क्षिपेत्तत्र मणिं तत्रावतारयेत् ॥
मणिबन्धं ततः कृत्वा तोयं तत्पाययेन्नरम्

2.106.110.59

लिप्येच्च सरुजं देशमुदपात्रजलेन तु ॥
याः पुरस्तादित्यनेन मणिः स्याल्लवणस्य तु

2.106.110.2.109.60

पितुर्वस्त्रपुटे बद्ध्वा लवणस्य तु तन्मणिम् ॥
आबन्धे कुष्ठवत्स्याच्च यातुधानविनाशनः

2.106.110.61

व्याघ्ररूप इत्यनेन खंतव्यं वाटरूषकम् ॥
व्याघ्ररूप इति द्वाभ्यामृग्भ्यामाबन्धनं भवेत्

2.106.110.62

पिशाचनाशकस्त्वेवं स मणिः स्यादसंशयम् ॥
एवमेवोत्तराभ्यां च भवेप्रत्यभिचारकः ॥

2.106.110.63

विष्कन्दस्येत्यनेनाह त्रिपर्णी विश्वभेषजी ॥
स्कन्दस्योपरि यः स्कन्दो भवेत्तस्य विनाशिनी

2.106.110.64

यस्मादङ्गादिति भवेद्गणादित्वात्परिग्रहः ॥
गणस्य कर्म सामान्यं प्रतिसूक्तं न कारयेत

2.106.110.65

गोराचवारि कर्माणि हन्तव्यानीवमादिभिः ॥
पतङ्गाद्याश्च चत्वारः संस्कृत्य प्राणिनो बुधः

2.106.110.66

तृष्णत्वप्तैश्च मन्त्रेण गात्रं प्रक्षालयेत्खिलम् ॥
प्रथमेन तु सूक्तेन वेणुपौत्रे द्रवो मणिः

2.106.110.67

वेणुः कुर्याद्भवेद्धर्मो वाक्षवद्देवदारुणः ॥
संस्कृत्य पूर्वमन्त्रेण माषकादीन्प्रमर्दयेत्

2.106.110.68

गात्रसंस्कारसहितैः पिष्टैर्वा प्रकृतिर्भृशम् ॥
केवलेनैव मन्त्रेण मर्दयेत्तु विनश्यति

2.106.110.69

तथा स्वलोमप्रभृती विधूलो धूशिरो युतिः ॥
देवप्रवेशं जतुना स्थगयित्वा तु रक्तिका

2.106.110.2.109.70

दूष्या इति प्रतीकेन कुर्यात्प्रतिसरं मणिम्॥
कृत्वा दूषणमायुष्यं तदा प्रत्यभिवादकः

2.106.110.71

अयं प्रतिसरः पाणौ यात्राकाले सपत्नहा ॥
सूत्रेणानेन बध्नीयाल्लिङ्गात्प्रतिसरो परः

2.106.110.72

अनेन विधिना वृत्रं निजघान शतक्रतुः ॥
अशंस इति मन्त्रेण प्रबध्नीयाद्यथाविधि

2.106.110.73

भूतिश्रीप्रभृतीनां च विघ्नमेवं करोति यः ॥
विनाशनं तस्य भवेदाबन्धाद्यक्षनाशनम्

2.106.110.74

ज्यासूत्रप्रोथिताः सप्त वंशप्राप्ताः समुद्भवाः ॥
रत्तयान्तरव्यवहिता गर्भिण्या उद्धरेद् बुधः

2.106.110.75

मासे चतुर्थे बध्नीयान्मन्त्रेणानेन बुद्धिमान् ॥
एकैकस्मिन्नतीते तु मासे सूत्रान्तरे मणिः

2.106.110.76

एकैकं प्रक्षिपेद्धीमान्ससूत्रं पश्चिमं तथा ॥
प्राची दिगिति मन्त्रेण उदीची भयनाशनी

2.106.110.77

अक्षीयाभ्यामित्यनेन दाप्यः स्याद्यक्ष्मनाशनः ॥
सन्धानार्थं शीतमग्ने रात्रीमातेत मोहनः ॥
मयूरगोसुरवृद्धौ द्वौ वेतीति प्रकीर्तितम्

2.106.110.78

प्रोक्तास्तथैते मणयो नृवीर काम्या मया सर्वहिताय पुण्याः ॥
येषां हि बन्धो दुरितापहारी भयापहः केवलवृद्धिकारी

2.106.110.109

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने मणिबन्धवर्णनन्नाम नवोत्तरशततमोऽध्यायः ॥

2.106.110.1

2.110
राम उवाच ॥
भगवञ्छ्रोतुमिच्छामि कर्म काम्यमहं नृणाम् ॥
कृतेन येन कामानां नरो भवति भाजनम्

2.106.110.2

पुष्कर उवाच ॥
सर्वेषामेव कामानामीश्वरो भगवान्हरिः ॥
तस्य सम्पूजनादेव सर्वान्कामानुपाश्नुते

2.106.110.3

स्नापयित्वा घृतक्षीरैश्चन्दनेनानुलेपयेत् ॥
शुक्लैः सम्पूज्य पुष्पैश्च सप्तमस्य बलिं हरेत्

2.106.110.4

रक्तपित्तान्नरो घोरान्मुच्यते नात्र संशयः ॥
तैलक्षौद्रघृतैर्देवं स्नापयित्वा जनार्दनम्

2.106.110.5

भस्मत्रयेणानुलिप्य सम्पूज्य कुसुमैः सितैः ॥
पञ्चमुद्गबलिं दद्यादतीसारात्प्रमुच्यते

2.106.110.6

संस्नाप्य पञ्चगव्येन दत्त्वा पञ्चानुलेपनम् ॥
पञ्चसस्यबलिं दत्त्वा सुखं कुष्ठात्प्रमुच्यते

2.106.110.7

त्रिरसस्नापितं देवं त्रिसुगन्धेन लेपितम् ॥
कृत्वा दत्त्वा त्रिसूत्रं च बलिं कामाद्विमुच्यते

2.106.110.8

स्नापयित्वा तु तैलेन त्रिभिरुष्णैर्विलेपयेत् ॥
पञ्चमाषबलिं दत्त्वा वातव्याधिं विमुञ्चति

2.106.110.9

द्विस्नेहस्नपितं देवं शीतोष्णेनानुलेपितम् ॥
पञ्चभिः स्नापयित्वा च रसैर्देवं जनार्दनम्

2.106.110.2.110.10

अनुलिप्य च धर्मज्ञ तथा पञ्चसुगन्धिना ॥
पञ्चवर्णानि पुष्पाणि तथा दत्त्वा यथाविधि

2.106.110.11

धूपं च पञ्चनिर्यासं दत्त्वा चैवाप्यनुत्तरम् ॥
ततश्च पञ्चमधुरं बलिं सम्यङ् निवेदयेत्

2.106.110.12

अनेन रोगतः शीघ्रं मुच्यते नात्र संशयः ॥
विष्णुं सहस्रमूर्धानं चराचरगुरुं हरिम्

2.106.110.13

स्तुवन्नामसहस्रेण ज्वरान्सर्वान्व्यपोहति ॥
घृतेन स्नापितं देवं चन्दनेनानुलेपयेत्

2.106.110.14

पञ्चभिर्जलजैः पुष्पैस्ततः सम्पूजयेद्विभुम् ॥
धूपं दद्यात्त्रिवारं च पञ्चगव्यं तथा बलिम् ॥

2.106.110.15

पञ्चगौडं तथा राम बद्धो मुच्येत बन्धनात् ॥
त्रिशीतस्नापितं देवं त्रिशीतेनानुलेपयेत्

2.106.110.17

त्रिशीतैः कुसुमैः पूज्यं धूपं दद्यात्त्रिशीतलम् ॥
त्रिशीतं च बलिं दत्त्वा राजकोपाद्विमुच्यते १६ ॥
शीतोष्णस्नापितं देवं त्रिशीतैरनुलेपयेत् ॥
धूपं दत्त्वा च शीतोष्णं शीतोष्णं च तथा बलिम्

2.106.110.18

गुरुप्रसादमाप्नोति नात्र कार्या विचारणा ॥
यमलस्नापितं देवं यमलेनानुलेपितम्

2.106.110.19

अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत् ॥
यमलं च बलिं दत्त्वा सौभाग्यं प्राप्नुयान्नरः

2.106.110.2.110.20

सौभाग्यकामा नारी च सौभाग्यं महदाप्नुयात् ॥
सौभाग्यकामोऽपि नरः सौभाग्यं महदश्नुते

2.106.110.21

त्रिभिः संस्नापितं देवं सौभाग्यं महदाप्नुयात् ॥
त्रिभिः फलैः स्नापयित्वा त्रिसारेणानुलेपयेत्

2.106.110.22

त्रिशीतं च बलिं दद्याद्यशः प्राप्नोत्यनुत्तमम् ॥
त्रितैलस्नापितं देवं त्रिरक्तेनानुलेपितम्

2.106.110.23

धूपयेन्महिषाक्षेण त्रिरक्तं च बलिं हरेत् ॥
रौद्रकर्म तु प्राप्नोति सिद्धिरस्ति न संशयः

2.106.110.24

त्रिगन्धस्नापितं देवं त्रिशीतेनानुलेपितम् ॥
पूजयेच्छ्वेतपद्मानां सहस्रेण महाभुजम्॥

2.106.110.25

निवेद्य परमान्नं च श्रियं प्राप्नोत्यनुत्तमाम् ॥
घृतेन स्नापितं देवं चन्दनेनानुलेपितम्

2.106.110.26

परमान्नं बलिं दत्त्वा यथेष्टं काममाप्नुयात् ॥
घृतेन स्नापितं देवं चन्दनेनानुलेपितम्

2.106.110.27

अपूपैः परमान्नेन कुल्माषेण च पूजयेत् ॥
आम्रातकानां मुख्यानां ततस्त्वष्टाधिकं शतम्

2.106.110.28

क्षौद्रन्त्रिवृत्तं देवाय यथावद्विनिवेदयेत् ॥
सौभाग्यं महदाप्नोति नात्र कार्या विचारणा

2.106.110.29

पञ्चगव्यबलिं दत्त्वा धनमाप्नोत्यनुत्तमम् ॥
त्रिरक्तस्नापितं देवं त्रिरक्तेनानुलेपितम्

2.106.110.2.110.30

रक्तपुष्पैः समभ्यर्च्य त्रिभिरेव यथाविधि ॥
त्रिरक्तं च बलिं दत्त्वा हुत्वा वै सर्षपत्रयम्

2.106.110.531

त्रिलोहं दक्षिणां दत्त्वा शत्रुनाशमवाप्नुयात्॥
त्रिफलस्नापितं देवं त्रिरक्तेनानुलेपितम्

2.106.110.32

त्रिशीतं च बलिं दत्त्वा पुन्नामकुसुमानि च ॥
पुन्नामकानि मुख्यानि फलानि विविधानि च

2.106.110.33

पुत्रजन्म समाप्नोति नात्र कार्या विचारणा ॥
घृतेन स्नापितं देवं त्रिरक्तेनानुलेपितम्

2.106.110.34

कृत्वा तदेव धूपं तु दत्त्वा क्षीरं निवेदयेत् ॥
घृतपूरं बलिं दत्त्वा नरः प्राप्नोति जीविकाम्

2.106.110.35

क्षीराज्यस्नापितं देवं चन्दनेनानुलेपितम् ॥
तदेव धूपं दातव्यं जातीपुष्पाणि चाप्यथ

2.106.110.36

पञ्चगव्यबलिं दत्त्वा हुत्वा वह्नौ तथा घृतम् ॥
गां च दत्त्वा महाभाग गाः समाप्नोति मानवः

2.106.110.37

यमलस्नापितं देवं यमलेनानुलेपितम ॥
अभ्यर्च्य यमलैः पुष्पैर्धूपं च यमलं दहेत्

2.106.110.38

यमलं च बलिं दत्त्वा जुहुयादक्षतांस्तथा ॥
तिलसिद्धार्थकयुतान्सर्पिः क्षीरं घृतं तथा

2.106.110.39

अश्वं च दक्षिणां दत्त्वा हयान्प्राप्नोत्यनुत्तमान् ॥
घृतेन स्नापितं देवं तथैव घृतलेपितम्

2.106.110.2.110.40

पुष्पैश्चतुर्भिः सम्पूज्य धूपं दत्त्वा चतुःसमम् ॥
त्रिशुकं च तथा दत्त्वा तथैव पानकत्रयम्

2.106.110.41

त्रिशुकं च तथा हुत्वा त्रिस्नेहेन समन्वितम् ॥
त्रिलोहं दक्षिणां दत्त्वा गाणपत्यमवाप्नुयात्

2.106.110.42

मधुरत्रितयेनाथ स्नापयित्वा जनार्दनम् ॥
अनुलिम्पेत्त्रिशीतेन पूजयेच्चमकैस्तथा

2.106.110.43

धूपं दहेत्त्रिशीतेन दद्यात्त्रिमधुरं बलिम् ॥
मधूकपुष्पाणि तथा द्राक्षां खर्जूरमेव च

2.106.110.44

सर्वभूतैः सहाप्नोपि सख्यमेव न संशयः ॥
घृतेन स्नापितं देवं वचया निशया तथा

2.106.110.45

चन्दनेनानुलिम्पेत्तु जातीपुष्पैरथार्चयेत् ॥
घृतक्षौद्रयुतं दत्त्वा तथा धूपं च गुग्गुलम्

2.106.110.46

त्रिशूकं च बलिं दत्त्वा तथा त्रिलवणं नरः ॥
कनकं दक्षिणां दत्त्वा विद्यामाप्नोत्यभीप्सिताम्

2.106.110.47

चन्दनमाज्यं जाती परमान्नं गुग्गुलुं च देवाय॥
दत्त्वा भक्त्या पुरुषः सर्वान्कामानवाप्नोति

2.106.110.110

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने भगवदनुलेपनस्नानवर्णनन्नाम दशोत्तरशततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc