विष्णुधर्मोत्तरपुराणम् · अध्याय 1.99
॥ मार्कण्डेय उवाच ॥
ध्रुवस्थाननिविष्टानां देवतानां नराधिप ॥
दध्योदनं पायसं च प्रत्येकं विनिवेदयेत्
गुडौदनं गुडापूपाः फलानि गुडपायसम् ॥
निवेदनं तु सूर्याय धान्यलाजे मधूत्कटे
सर्पिर्दध्योदनं चैव फलानि विविधानि च ॥
मोदकानि च मुख्यानि पायसं शशिनस्तथा
गुडौदनं गुडापूपा यावकं गुडपायसम् ॥
कृसरं च तथा देयं भूमिपुत्राय पार्थिव
क्षीरौदनं ससर्पिष्कं क्षीरवृक्षफलानि च ॥
क्षीरिण्यश्च तथोषध्यो सोमपुत्राय दापयेत्
शिम्बिधान्यविकाराणि बिल्वान्यामलकानि च ॥
घृतौदनं च जीवाय दातव्यं भूतिमिच्छता
दध्योदनं पायसं च मधुना सर्पिषा युतम्॥ ।
उत्कारिकं मोदकांश्च भार्गवाय निवेदयेत् ।
माषौदनं ससर्पिष्कं कृसरं दधि यावकम्॥
निवेदयेत्तु सौराय कुलत्थं चणकैः सह
प्लक्षं दधित्थं च तथा पललं चैव राहवे॥
माषौदनं तथा देयं यवापूपांस्तथैव च
तल्लोपिकास्तथा मत्स्याः केतवे कृसरं तथा ॥
वसासर्पींषि च तथा देयानि मनुजेश्वर
मधुलाजे कृत्तिकानां कुल्माषं दधिसर्पिषी ॥
रोहिणीनां च बीजानि दधिपिष्टवृषाणि च
दध्योदकं चेल्वलानां मृगमांसं तथैव च ॥
रुधिरं कृसरं चोभौ रौद्रस्य विनिवेदयेत्
पुनर्वसोः प्रदातव्यं पललं सविलायनम् ॥
पायसं च ससर्पिष्कं तिष्याय विनिवेदयेत्
पिष्टसर्पाणि सार्पस्य क्षौद्रं दधियुतं तथा ॥
तिलौदनं सपललं पैत्र्यस्य विनिवेदयेत्
षष्टिकान्नं च भाग्यस्य मधुसर्पींषि चाप्यथ ॥
आर्यम्णाय तिलापूपान्षष्टिकान्नं तथैव च ॥
प्रियंगुतण्डुलैः सिद्धं सावित्राय च पायसम् ॥
त्वाष्ट्रस्य चैव पीयूषं द्विजा चित्राण्डजास्तथा
वायव्यस्य च फल्गुनि मूलकानि शुभानि च ॥
कुलत्थानि विशाखासु यवापूपास्तथैव च
कुलत्थभक्तं मित्राय दधिक्षौद्रान्वितं तथा ॥
घृतौदनं च शाक्राय फलानि विविधानि च
मूलानि च विचित्राणि तथा मूलफलानि च ॥
आप्यस्य सक्तवो देया मधुमिश्रोदकैः सह
सक्तवो वैश्वदेवाय मधुलाजे तथैव च ॥
ब्राह्माय पायसं देयं सगुडं भूतिमिच्छता
दध्योदनं पायसं च वैष्णवाय निवेदयेत् ॥
घृतोदकं च शाकानि वासवाय निवेदयेत्
पैष्टं बिडालं शाकांश्च वारुणाय तथा दधि ॥
आदाय मांसमाजं तु व्याघ्रं पिष्टकृतं दधि
आहिर्बुध्न्याय मांसानि तथैव च रसौदनम् ॥
पौष्णाय सक्तवो माषा माषयुक्ताश्च सक्तवः
अश्वं पिष्टकृतं माषान्यावकं च तथा दधि ॥
आश्विनस्याथ याम्यस्य तण्डुलानि तिलानि च
राजन्पैष्टाश्च पशवो मांसं पक्वामकं तथा॥
पायसं सघृतं क्षौद्रं पूर्वस्यां विनिवेदयेत्
आग्नेय्यां दिशि राजेन्द्र कृसरं क्षीरमिश्रितम्॥
दक्षिणस्यां च दातव्यं कृसरं तैलमिश्रितम्।आ२६।
नैरृत्यां च प्रदातव्यं कृसरं मत्स्यसंयुतम्।
कुल्माषांश्चैव मत्स्यांश्च पश्चिमस्यां निवेदयेत्
वायव्यायाश्च मत्स्यानि तथा क्षीरोदनानि च ॥
ऐशान्यायाः प्रदातव्यौ घृतक्षीरोदनावुभौ
मोदकोल्लोपिकामिश्राः सागराणां बलिर्भवेत्
यद्यद्ग्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ॥
तद्देवतायाश्च तदेव देयं दिशस्तथा नात्र विचारणास्ति
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षनैवेद्यदेयादेयविधिर्नाम नवनवतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0