विष्णुधर्मोत्तरपुराणम् · अध्याय 1.98
मार्कण्डेय उवाच ॥
ध्रुवस्थाननिविष्टानां देवतानां महीपते ॥
गुग्गुलुं घृतसंयुक्तं धूपं दद्याद्विचक्षणः
धूपं त्वगुरुरर्काय नमेरुं च तथेन्दवे ॥
भौमाय गुग्गुलुं दद्यात्सर्जं दयाद्बुधाय च
शिलाजतु तु जीवाय दातव्यं पार्थिवोत्तम ॥
श्रीवासकं तु शुक्राय नखं सौराय पार्थिव ॥
मदश्च राहवे देयं केतवे च वसा तथा
कृत्तिकानां घृतं देयं रोहिणीनां च चन्दनम् ॥
इल्वलानां च कर्पूरमार्द्रायां च नखं तथा
पुनर्वसोश्चाप्यगुरुं पुष्यस्य च तथाक्षतम् ॥
श्रीवासकं च सार्पस्य पैत्रस्य च तथा घृतम्
प्रियङ्गुं मधुना युक्तं भाग्यस्य सघृतं भवेत् ॥
घृतेन मधुना युक्तमार्यम्णस्य शतावरीम्
कुन्दुरुं चैव हस्ताय त्वाष्ट्राय च पलं भवेत् ॥
वायव्याय च कर्पूरमैन्द्राग्न्याय मिसिर्भवेत्
मैत्राय कुङ्कुमं देयं शाक्राय मृगजं भवेत् ॥
शाटीमूलं च मूलाय आप्याय नलदं तथा
गुग्गुलुं वैश्वदेवाय ब्राह्माय घृतचन्दने ॥
वैष्णवायागुरुं दद्याद्वासवाय तथा पलम्
वारुणाय तथोशीरमाजाय च पलं भवेत् ॥
अहिर्बुध्न्याय दातव्यं देवदारुं नराधिप
कङ्कोलकानि पौष्णाय आश्विनाय च चन्दनम् ॥
यम्याय गुग्गुलुर्देयः सततं भूतिमिच्छता
कर्पूरं कुङ्कुमं चैव चन्दनं मृगजं तथा ॥
तुरुष्कमगुरुं कान्तां गुग्गुलुं च क्रमाद्दिशाम्
प्राच्यादीनां महीनाथ सागराणां च चन्दनम् ॥
सर्वाभावे च दातव्याः सर्वेषामेव गुग्गुलुम्
वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः ॥
आघ्राणः सर्वदेवानां गुग्गुलुप्रवरः शुभः
दीपश्चाज्येन दातव्यः सर्वेषामविशेषतः ॥
तैलेन वा महीनाथ वसाढ्येन विवर्जयेत्
यद्यद्ग्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान॥
तद्देवतायाश्च तथैव देयं दिशां तथा नात्र विचारमस्ति
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षधूपदीपो नामाष्टनवतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0