भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.100

1.100.1

मार्कण्डेय उवाच ॥
ध्रुवस्थाननिविष्टानां देवतानां पृथक्पृथक् ॥
पानाय दापयेत्क्षीरं प्रीतये वान्तरात्मनः॥
गन्धोदकं तथार्काय पयः सोमाय कीर्तितम्

1.100.2

भूमिपुत्राय खर्जूरं मार्द्वीकं शशिजाय च॥
जीवाय च तथा तक्रं शुक्रायेक्षुरसं तथा

1.100.3

मांसपानं तु सौराय राहोर्मीनरसं तथा ॥
छागं पयः प्रदातव्यं केतवे मनुजेश्वर

1.100.5

गन्धोदकं च कृत्तिकानां रोहिणीनां सुवीरकम् ॥
इल्वलानां पयः प्रोक्तं रौद्रेः खार्जूरमासवम् ॥ ४
आदित्याय तथा गौडं क्षीरं तिष्याय दापयेत्॥
क्षीरमेव च सार्पाय तथा पित्र्याय यादव

1.100.6

गन्धोदकं च भाग्याय तथार्यम्णाय कीर्तितम्॥
सावित्राय तथायस्तु त्वाष्ट्राय च तथा पयः

1.100.7

वायव्याय च मार्द्वीकमैन्द्राग्न्याय च काञ्जिकम् ॥
मित्राय तक्रं देयं च शाक्राय दधि दापयेत्

1.100.8

नारिकेलाम्बु मूलाय तथाप्याय मधूदकम् ॥
खार्जूरं वैश्वदेवाय ब्राह्माय सलिलं हितम्

1.100.9

आम्रैः पानं वैष्णवाय जम्बुभिर्वासवाय च ॥
वारुणाय मधूकैश्च रसमाजस्य पार्थिव

1.100.1.100.10

आहिर्बुध्न्यस्य च तथा रसमेव भवेन्नृप ॥
पौष्णाय च भवेच्छागं चाश्विनाय च माहिषम् ॥
याम्याय च तथा देयं स्वच्छं मांसरसं तथा

1.100.11

समानदेवनक्षत्रं कथितं च तथा दिशाम् ॥
उत्तरायै प्रदातव्यं तथा क्षीरं नराधिप

1.100.12

सागराणां च सर्वेषां सततं भूतिमिच्छता

1.100.13

यद्यद्ग्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ॥
तद्देवतायाश्च तथैव देयं दिशस्तथा नात्र विचारणास्ति

1.100.100

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे प्रतिग्रहर्क्षदेयादेयपानो नाम शततमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc