भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.97

1.97.1

मार्कण्डेय उवाच ॥
सवर्णानि ग्रहर्क्षाणां दिशां च जगतीपते ॥
नित्यं देयानि वासांसि पताकाश्च विजानता

1.97.2

भूषणानि च देयानि काञ्चनानि शुभानि च ॥
रत्नचित्राणि रम्याणि यथाशक्त्या नराधिप

1.97.3

ध्रुवस्थाननिविष्टानां देवतानां महीपते ॥
जातीपुष्पाणि देयानि सर्वेषामविशेषतः

1.97.4

रक्तपद्मानि सूर्यस्य श्वेतपद्मानि चेन्दवे ॥
बन्धूकानि च भौमाय बुधायेन्दीवराणि च

1.97.5

जीवाय यूथिका पीता सिताय च तथा सिता ॥
बाणपुष्पाणि सौराय राहवे पाटलानि च

1.97.6

तथा दमनकं देयं केतवे वसुधाधिप ॥
कृत्तिकासु च देयानि राजन्रक्तोत्पलानि च

1.97.7

चम्पकानि च रोहिण्या इल्विलायाः सितोत्पलम् ॥
धत्तूरकाण्यथार्द्राया आदित्यस्य च मल्लिका

1.97.8

चम्पकान्येव पुष्यस्य जाती स्यात्सार्पपित्र्ययोः ॥
भाग्यस्य कान्ता दातव्या अर्यम्णश्च सुवर्चला

1.97.9

सावित्रत्वाष्ट्रयोर्नित्यं बन्धूककुसुमानि च ॥
वायव्यस्य च देयानि सिन्धुवाराणि पार्थिव

1.97.1.97.10

ऐन्द्राग्न्यस्य च देयानि कुरण्डकुसुमानि च ॥
रक्ताशोकस्य पुष्पाणि तथा मैत्रस्य पार्थिव

1.97.11

चम्पकानि च शाक्रस्य तथा देयानि भूपते ॥
मूलस्य च तथा देयं राजन्कृष्णकुहेटकम्

1.97.12

कह्लाराणि तथाप्यस्य वैश्वदेवस्य कुब्जकम्॥
ब्राह्मस्य जातीपुष्पाणि वैष्णवस्य च चम्पकम्

1.97.13

पाटला वासवस्यापि वारुणस्योत्पलानि तु ॥
अर्कपुष्पाण्यथाप्यस्य तथा देयानि पार्थिव

1.97.14

आहिर्बुध्न्यस्य देयानि धत्तूरकुसुमानि च ॥
करवीरकपुष्पाणि तथा पौष्णस्य पार्थिव

1.97.15

चूतपुष्पाणि देयानि आश्विनस्य नराधिप ॥
नीलोत्पलानि याम्यस्य तथा देयानि भूपते

1.97.16

समानवेशनक्षत्रकथितानि तथा दिशाम् ॥
उत्तरायाश्च देयानि नागपुष्पाणि पार्थिव

1.97.17

सागराणां च देयानि कमलानि महीपते ॥
उक्तालाभे प्रदेयानि सवर्णानि नराधिप ॥
स्वकालजानि पुष्पाणि सर्वेषामविशेषतः

1.97.18

यद्यद्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ॥
तद्देवतायाश्च तथैव देयं दिशस्तथा नात्र विचारणास्ति

1.97.97

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षविशेषपुष्पदेयादेयाध्यायो नाम सप्तनवतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc