विष्णुधर्मोत्तरपुराणम् · अध्याय 1.96
वज्र उवाच ॥
सर्वेषां तु समाचक्ष्व गन्धमाल्यं तथैव च ॥
धूपं ब्रह्मन्सनैवेद्यं पानं चैव पृथक्पृथक्
होमद्रव्यं तथा मन्त्रं दक्षिणाश्च भृगूत्तम ॥
एकस्त्वं सर्वविद्ब्रह्मन्ब्रह्मा वा जगतां पतिः
मार्कण्डेय उवाच ॥
ध्रुवस्थाननिविष्टानां देवानां च महीपते ॥
सर्वासां चन्दनं देयं नित्यमेव पृथक्पृथक्
सूर्याय कुङ्कुमं देयं कर्पूरं शशिने तथा ॥
भौमाय चन्दनं रक्तं चागुरुं शशिजाय च
जीवाय चन्दनं देयं कुङ्कुमेन विमिश्रितम् ॥
शुक्राय चन्दनं श्वेतं सौराय च मृगोद्भवम्
कुङ्कुमेन युतं दद्याद्दानवाय मृगोद्भवम् ॥
अगुरुं कुङ्कुमं चोभौ सुदेयौ धूमकेतवे
कुङ्कुमं कृत्तिकानां तु रोहिणीनां मृगोद्भवम् ॥
इल्वलानां च कर्पूरं रौद्रे नागमदं तथा
आदित्यस्य प्रदातव्यावुभौ कुङ्कुमचन्दनौ ॥
उशीरचन्दनौ देयावाश्लेषापैत्र्ययोस्तथा
प्रियङ्गुचन्दनौ देयौ तथा भाग्यस्य पार्थिव ॥
अर्यम्णश्च प्रदातव्यौ चन्दनौ श्वेतरक्तकौ
सावित्रस्य प्रदातव्यं कुङ्कुमं पृथिवीपते ॥
त्वाष्ट्रस्य चन्दनं देयं कुङ्कुमं समृगोद्भवम्
जातीफलयुतं देयं वायव्यस्य च चन्दनम् ॥
विशाखायाः प्रदातव्यं कुङ्कुमं चन्दनं तथा
तुरुष्कसहितं देयं तथा मैत्राय चन्दनम् ॥
ज्येष्ठायाश्च प्रदातव्यं चन्दनं कुङ्कुमं तथा
मूलाय शिंशपासारं तथा देयं मृगोद्भवम् ॥
आप्याय कुष्ठसंयुक्तं दातव्यं चन्दनं भवेत्
वैश्वदेवाय मृगजं चन्दनागुरुणी तथा ॥
ब्राह्माय चन्दनं देयं वैष्णवायागुरुं तथा
जातीलवङ्गौ दातव्यौ सुपिष्टौ वासवाय तौ ॥
वारुणाय च कर्पूरमाजाहिर्बुध्न्ययोस्तथा
पौष्णाय चन्दनं रक्तमाश्विनाय तथा सितम् ॥
याम्यायागुरुसंयुक्तं तथा देयं मृगोद्भवम्
समानदेवनक्षत्रं कथितं च तथा दिशम् ॥
उत्तरायास्तथा देये चन्दनागुरुणी शुभे
सागराणां प्रदातव्यं सर्वेषामेव चन्दनम् ॥
अलाभे तु तथा देयं सर्वेषामेव चन्दनम्
मङ्गल्यं तत्पवित्रं च देवानां दयितं च तत् ॥
धार्यं च देयं तद्राजँस्तत्र लक्ष्मीः प्रतिष्ठिता
यद्यद्ग्रहस्याभिहितं मयैतदृक्षस्य वा भूमिपतिप्रधान ॥
तद्देवतायाश्च तदेव देयं दिशस्तथा नात्र विचारणास्ति
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अनुलेपकथनो नाम षण्णवतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0