विष्णुधर्मोत्तरपुराणम् · अध्याय 1.95
मार्कण्डेय उवाच ॥
आवाहनान्यतो वक्ष्ये सर्वेषां पार्थिवोत्तम ॥
सर्वस्यावाहनस्यान्ते श्लोकोऽयं परिकीर्त्यते
मण्डले सम्प्रविश्यास्मिन्मया भक्त्या निवेदितम् ॥
इदमर्घ्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम्
ध्रुवमावाहयिष्यामि सर्वग्रहगणेश्वरम् ॥
निरुद्धं भ्राम्यते येन भचक्रं वातरज्जुभिः
एहि मे ध्रुव देवेश केशवाचिन्त्यविक्रम ॥
सर्वग्रहगणाध्यक्ष सर्वलोकनमस्कृत
आवाहयिष्याम्याकाशं विमानशतमण्डितम् ॥
तृतीयं देवदेवस्य पदं विष्णोर्महात्मनः
एहि मे भगवन्सौम्य निरालम्ब नभस्तल ॥
अप्रमेयातिगम्भीर नक्षत्रग्रहमण्डित
आवाहयाम्यहं देवं ब्रह्माणं जगतां पतिम् ॥
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम्
एहि सर्वप्रजाध्यक्ष पद्मयोने चतुर्मुख ॥
वेदमूर्ते तदाधार कालनिर्माण तत्पर
ऊर्द्ध्वमावाहयिष्यामि ह्यनन्तां महतीं दिशम् ॥
अप्रमेयां निरालम्बां चन्द्रसूर्यांशुवर्जिताम्
आगच्छेह महाभागे सततं सिद्धसेविते ॥
अनन्ते विपुले देवि निर्मले हितकारिणि
पृथ्वीमावाहयिष्यामि सर्वसत्त्वहिते रताम् ॥
धरां भूमिं क्षमां क्षोणीं वरदां भूतधारिणीम्
एहि मे वसुधे देवि वाराहेण समुद्धृते ॥
सर्वबीजधरे भद्रे सर्वभूतापहारिणि
शेषमावाहयिष्यामि महीमण्डल धारणम् ॥
फणावलीरत्नजालमरीचिविकसोज्ज्वलम्
एहि शेष महाभाग एह्यनन्तादिकेशव ॥
आहेयी त्वं तनुस्तस्य विष्णोरमिततेजसः
आवाहयाम्यधस्तात्तु दिशं शेषेण पालिताम् ॥
नागदैत्योरगगणैस्सततं च निषेविताम्
एहि मे रत्नबाहुल्ये नित्यं शेषेण पालिते ॥
गम्भीरे विपुले भीमे बहुस्थानाभिमण्डिते
आवाहयिष्ये वरदं देवेशं जातवेदसम् ॥
वेदमूर्त्तिं तदाधारं देवदेवं हुताशनम्
एह्यग्रे सर्वदेवेश सर्वदेवमुखाच्युत ॥
सर्वत्रस्थ महाभाग सर्वभूतहिते रत
आवाहयिष्ये वरदं सहस्राक्षं दिवाकरम् ॥
तेजोमूर्त्तिं दुराधर्षं भक्तानामभयप्रदम्
एहि देव जगन्नाथ ऋक्सामयजुषां पते ॥
त्रैलोक्यमण्डलद्वीप सर्वव्याधिविनाशन
आवाहयाम्यहं देवमादित्यमुदकेशयम् ॥
स्निग्धवैडूर्यसङ्काशं वरुणं सुमहाद्युतिम्
एहि देव जलाध्यक्ष यादोगणमहेश्वर ॥
नागदैत्योरगगणैस्सततं सेवितान्युत
आवाहयाम्यहं चन्द्रं शीतांशुममृतप्रभम् ॥
ओषधीशं द्विजाध्यक्षं नयनानन्दकारकम्
एहि मे भगवँश्चन्द्र एहि मे मृगलाच्छन ॥
भक्तानुकम्पिन्सततं सर्वनक्षत्रपूजित
स्कन्दमावाहयिष्यामि षण्मुखं वरदं शिशुम् ॥
देवारिसेनामथनं पार्वत्यानन्दवर्द्धनम्
एहि देवतमाराध्य महिषासुरतस्कर ॥
कार्तिकेय जगन्नाथ मयूरवरवाहन
भौममावाहयिष्यामि तेजोमूर्तिं दुरासदम् ॥
रुद्रमूर्तिमनिर्देश्यवक्त्रं रुधिरसप्रभम्
एहि मे भगवन्भौम अङ्गारक महाप्रभ ॥
त्वयि सर्वं समायत्तं भूतलेस्मिञ्छुभाशुभम्
विष्णुमावाहयिष्यामि शङ्खचक्रगदाधरम् ॥
अतसीकुसुमश्यामं पीतवाससमच्युतम्
एहि मे देवदेवेश प्रजानिर्माणकारक ॥
नारायण सुदुष्पार महाशार्ङ्गधनुर्धर
बुधमावाहयिष्यामि बोधकं जगदीश्वरम् ॥
चान्द्रिं ग्रहगणाध्यक्षं तेजोमूर्तिं दुरासदम्
एहि शीतांशुजाचिन्त्य जगज्जिष्णो जनार्दन ॥
महाबल महासत्त्व महाबाहो महाद्युते
शक्रमावाहयिष्यामि देवं सुरगणेश्वरम् ॥
वज्रपाणिं महाबाहुं गोब्राह्मणहिते रतम्
एहि देव सहस्राक्ष देवारिबलसूदन ॥
ऐरावतस्थधर्मज्ञ शचीहृदयनन्दन
जीवमावाहयिष्यामि देवेश्वरपुरोहितम् ॥
बृहस्पतिं बृहद्वाचं वेदवेदाङ्गपारगम्
एहि जीव महाभागजीवभूत महीतले ॥
सस्यवृद्धिस्तवायत्ता सततं भूमिवर्धन
देवीमावाहयिष्यामि पार्वतीं वरदामुमाम् ॥
हरस्य दयितां भार्यां चार्वङ्गीं भूतिवर्धिनीम्
एहि देवि जगन्नाथे मेनाहृदयनन्दिनि ॥
पवित्रे वरदे सौम्ये नित्यं भक्तजनप्रिये
शुक्रमावाहयिष्यामि भार्गवं जगदीश्वरम् ॥
नित्यं सर्वजनाध्यक्षं तपसा द्योतितप्रभम्
एहि शुक्र महाभाग षोडशार्चिर्वरप्रद ॥
प्रभुस्त्वं वरदाचिन्त्य वर्षावर्षस्य निग्रहे
आवाहयाम्यहं देवं प्रजाध्यक्षमकल्मषम् ॥
भक्तानुकम्पिनं देवं प्रजानिर्माणकारकम्
एहि देव प्रजाध्यक्ष पूजानिर्माणकारक ॥
त्वयि देव समायुक्तं प्रजानामभवोद्भवम्
एहि मे भगवन्ब्रह्मन्प्रजापतिमहाद्युते ॥
सौरिमावाहयिष्यामि शनैश्चारिणमच्युतम्
तपस्विनमनाधृष्यं भक्तानामभयप्रदम् ॥
एहि तीक्ष्णांशुजाचिन्त्य भावाभावप्रदर्शक
त्वयि सर्वं समायत्तं राज्ञां भूमौ शुभाशुभम् ॥
आवाहयाम्यहं देवं गजवक्त्रं गणेश्वरम्
विप्रेशं विप्रहर्तारं पार्वतीहृदयप्रियम् ॥
एहि देव गणाध्यक्ष लम्बोदर महाभुज
कार्यसिद्धिः समायत्ता त्वयि सर्वेश देहिनाम् ॥
राहुमावाहयिष्यामि दैत्येशं ग्रहताङ्गतम्
केशवाप्तवरं वीरं तपसा दग्धकिल्बिषम् ॥
एह्येहि दैत्यप्रवर वरदाचिन्त्यविक्रम
तपोमूर्ते दुराधर्ष विपरीतचराम्बरे ॥
आवाहयाम्यहं देवं विश्वकर्माणमच्युतम्
सर्वासां देवतानां तु सदा शिल्पप्रवर्तकम् ॥
एहि देववराचिन्त्य सर्वशिल्पप्रवर्तक
त्वयि सर्वैव सर्वेषां कर्मणामाश्रिता गतिः ॥
केतुमावाहयिष्यामि केतुं सर्वदिवौकसाम्
ब्रह्मण्यं सर्वधर्मज्ञं भक्तानामभयप्रदम् ॥
धूमकेतो इहाभ्येहि हुताशनसमप्रभ
शिखाकरालविकच पूजिताघविनाशन ॥
वह्नेरावाहनं प्रोक्तं पूर्वमेव मयानघ
आवाहयिष्यामि शुभां कृत्तिकां देवपूजिताम् ॥
एहि साधारणे देवि ज्येष्ठदक्षसुते शुभे
प्रजापतेस्तथा प्रोक्तं रोहिण्याः शृणु पार्थिव ॥
आवाहयामि वरदां रोहिणीं चन्द्रवल्लभाम्
एहि रोहिणि धर्मज्ञे ध्रुवकर्मसु शोभने ॥
चन्द्रस्यावाहनं प्रोक्तमिल्वलाया निबोध मे
आवाहयामि वरदामिल्वलां शशिवल्लभाम् ॥
एहि मे इल्वले देवि मृदुकर्मसु शोभने
रुद्रमावाहयिष्यामि त्रिनेत्रं शूलपाणिनम् ॥
एहि शङ्कर सर्वात्मन्महादेव गणेश्वर
आर्द्रामावाहयिष्यामि नक्षत्रं बाहुसंज्ञिकम् ॥
एह्यार्द्रे चारुसर्वाङ्गि दारुणे रुद्रसम्मते
आवाहयिष्याम्यदितिं तपसा दग्धकिल्विषाम् ॥
आदित्यारणि धर्मज्ञे एहि देवि महाप्रभे ॥
ऋक्षमावाहयिष्यामि धर्मज्ञं तु पुनर्वसुम् ॥
पुनर्वसो इहागच्छ चरकर्मप्रसादक
जीवस्यावाहनं प्रोक्तं पुष्यस्याथ प्रचक्षते ॥
पुष्यमावाहयिष्यामि नक्षत्रं क्षिप्रसंज्ञिकम्
एहि पुष्य महाभाग पोषं वर्धय सर्वतः ॥
सर्पानावाहयिष्यामि त्रैलोक्यान्तरगोचरान् ॥
आयान्तु सर्वतः सर्पाः सौम्यरूपा भवन्तु च ॥
आवाहयिष्याम्याश्लेषां भक्तानां श्रीविवर्द्धनाम्
आश्लेषे त्वमिहाभ्येहि दारुणे विजयप्रदे ॥
पितॄनावाहयिष्यामि मूर्त्यमूर्तिधरानहम्
आयान्तु पितरश्शीघ्रं सुधाकव्यभुजोऽव्ययाः॥
मघामावाहयिष्यामि उग्रनक्षत्रमञ्जसा
एहि मे सुभगे देवि मघेऽघविनिषूदने ॥
भगमावाहयिष्यामि पूर्वफल्गुनसंज्ञितम्
।
एहि भाग्ये महाभागे उग्रकर्मप्रसादिके ॥
आवाहयिष्याम्यर्यम्णमादित्यं तेजसां निधिम्
अर्यमँस्त्वं समम्येहि भक्तपातकनाशन ॥
ऋक्षमावाहयिष्यामि चोत्तराफल्गुनीं शुभाम्
एहि त्वं सुभगे देवि ध्रुवे सर्वाङ्गसुन्दरि ॥
आवाहनं मया प्रोक्तं सवितुर्दीप्ततेजसः
हस्तमावाहयिष्यामि सावित्रं क्षिप्रमञ्जसा ॥
एहि सावित्र धर्मज्ञ भक्तानां पापनाशन
आवाहयाम्यहं देवं त्वष्टारममितद्युतिम् ॥
एहि मे भगवँस्त्वष्टः प्रजापालनतत्पर
चित्रामावाहयिष्यामि चित्ररूपां मनोहराम् ॥
एहि मे वरदे चित्रे मृदुकर्मप्रसाधिनि
वायुमावाहयिष्यामि सर्वगं दीप्ततेजसम् ॥
देव वायो त्वमभ्येहि सर्वभूतजगत्प्रिय
स्वातिमावाहयिष्यामि नित्यमुत्तरमार्गगाम् ॥
देवि स्वाते त्वमभ्येहि चरकर्मसु शोभने
आवाहयिष्यामीन्द्राग्नी सहितौ दीप्ततेजसौ ॥
इन्द्राभ्येहि जगन्नाथ एह्यग्ने विजयप्रद
ऋक्षमावाहयिष्यामि विशाखां दीप्ततेजसम् ॥
विशाखे त्वमिहाभ्येहि देवि साधारणे शुभे
मित्रमावाहयिष्यामि देवं दीप्तांशुमूर्जितम् ॥
एहि मित्र महाभाग भक्ताघप्रलयङ्कर
ऋक्षमावाहयिष्यामि ह्यनुराधां वरप्रदाम् ॥
अनूराधे त्वमभ्येहि मृदुकर्मसु शोभने
शक्रस्यावाहनं प्रोक्तं ज्येष्ठायाः शृणु पार्थिव ॥
ज्येष्ठामावाहयिष्यामि नक्षत्रं शक्रदैवतम्
ज्येष्ठे देवि त्वमभ्येहि दारुणे चारुलोचने ॥
देवमावाहयिष्यामि देवं निरृतिजं प्रभुम्
एहि देव विरूपाक्ष महाबलपराक्रम ॥
मूलमावाहयिष्यामि नक्षत्रं दारुणं महत्
एहि मूल महाभाग भक्तानामभयप्रद ॥
अपस्त्वावाहयिष्यामि सर्वगा वरदाः शिवाः ॥
आपस्त्वायान्तु वरदाः पवित्रा मङ्गलावहाः ॥
ऋक्षमावाहयिष्यामि पूर्वाषाढेतिसंज्ञितम्
एहि त्वमुग्रे वरदे चाषाढे पूर्व पूर्वके ॥
विश्वानावाहयिष्यामि देवानद्भुततेजसः
आयान्तु वरदाः सर्वे विश्वेदेवा महाबलाः ॥
ऋक्षमावाहयिष्यामि उत्तराषाढसंज्ञितम्
एहि त्वमुत्तराषाढे सर्वकर्मसु शोभने ॥
ब्रह्मण आवाहनं प्रोक्तमभिजिति शृणु हे प्रभो
ऋक्षमावाहयिष्यामि यत्तदभिजिदुच्यते ॥
एहि धिष्ण्यवरिष्ठाय क्षिप्रकर्मप्रसाधक
विष्णोरावाहनं प्रोक्तं श्रवणस्य निबोध मे ॥
ऋक्षमावाहयिष्यामि श्रवणं सर्वकामदम्
॥
अश्वत्थ त्वं समभ्येहि चरकर्मप्रसाधक ॥
वसूनावाहयिष्यामि देवानष्टौ वरप्रदान्
आयान्तु वरदा देवा वसवः पापनाशनाः ॥
धनिष्ठामावाहयिष्यामि नक्षत्रं राशिवल्लभम्
धनिष्ठे त्वमिहागच्छ चरकर्मप्रसाधके ॥
आवाहनं मया प्रोक्तं वरुणस्य महात्मनः
ऋक्षमावाहयिष्यामि नाम्ना शतभिषं शुभम् ॥
आगच्छ त्वं शतभिषे चरकर्मसु शोभने
अजैकपादं वरदं रुद्रमावाहयाम्यहम् ॥
अहिर्बुध्न्य समभ्येहि जटाजूटोपशोभित
ध्रुवमावाहयिष्यामि देशे भाद्रपदोत्तरे ॥
एहि त्वं सुमहाभागे मम भाद्रपदोत्तरे॥
ऋक्षमावाहयिष्यामि रेवतीं चारुदर्शनाम्
एहि रेवति धर्मज्ञे मृदुकर्मप्रसाधके ॥
आवाहयाम्यहं देवं पूषणं पापनाशनम्
पूषन्सम्यगिहाभ्येहि सर्वकर्मप्रसादिक ॥
आवाहयाम्यहं देवौ नासत्यौ सूर्यनन्दनौ
आगच्छेतां महाभागौ वरदावश्विनावुभौ ॥
ऋक्षमावाहयिष्यामि चाश्विनी सर्वकामदम्
यमस्यावाहनं प्रोक्तं भरणीमथ वै शृणु ॥
ऋक्षमावाहयिष्यामि चोग्रं भरणिसंज्ञकम्
एहि त्वं देवि भरणि सुभगे चारुदर्शिनि ॥
शक्रस्यावाहनं प्रोक्तं पूर्वमेव मया नृप
प्राचीमावाहयिष्यामि सूर्योदयविभूषिताम् ॥
एहि त्वं वरदे पूर्वे शुभकर्मप्रसाधिके
वह्नेरावाहनं प्रोक्तं पूर्वमेव मया तव ॥
दिशमावाहयिष्यामि वरदां पूर्वदक्षिणाम्
वह्निप्रिये समभ्येहि वरदे पूर्वदक्षिणे ॥
यमस्यावाहनं प्रोक्तं याम्यायाश्च दिशः शृणु
अहमावाहयिष्यामि दक्षिणां दक्षिणां दिशम् ॥
दक्षिणे त्वं समभ्येहि सर्वकर्मसु शोभने
पूर्वमावाहनं प्रोक्तं विरूपाक्षस्य धीमतः ॥
दिशमावाहयिष्यामि शुभां दक्षिणपश्चिमाम्
।
एहि मे नैरृती देवि सततं भूतिवर्धिनि ॥
आवाहनं मया प्रोक्तं वरुणस्य महात्मनः
दिशमावाहयिष्यामि वारुणीं वरुणीं शुभाम् ॥
आगच्छ पश्चिमे देवि वरदे वरुणप्रिये
आवाहनं मया प्रोक्तं वायोश्चैव महात्मनः ॥
आवाहयामि विदिशं वायव्यां पश्चिमोत्तराम् ॥
वरदे त्वं समभ्येहि वायव्ये पश्चिमोत्तरे ॥
आवाहयामि धनदं देवं वैश्रवणं प्रभुम्
राजराज समभ्येहि सर्वयज्ञधनाधिप ॥
दिशमावाहयिष्यामि सौम्यां धनदपालिताम्
उत्तरे त्वं समभ्येहि सर्वकर्मसु शोभने ॥
देवस्यावाहनं प्रोक्तं त्र्यम्बकस्य महात्मनः ॥
दिशमावाहयिष्यामि शुभां प्रागुत्तरामहम् ॥
एहि त्वं सुभगे देवि सततं शिवपालिते
सर्वानावाहयिष्यामि पूर्वकुम्भेषु सागरान् ॥
रत्नाध्यक्षाः समायान्तु चत्वार इह सागराः
ईशान्यां दिशि यः कुम्भः पूर्वस्तस्य तु सागरः ॥
आग्नेय्यान्तु समायातु दक्षिणे दक्षिणः शिवः
पश्चिमस्तु समायातु कुम्भे दक्षिणपश्चिमे ॥
उत्तरश्च तथाऽभ्येतु कुम्भे वै पश्चिमोत्तरे
आवाहितानां कर्तव्यं भूमौ कृत्वा ततः शिरः ॥
प्रणाममभिवाद्यं च ततो मन्त्रमुदीरयेत्
भवतां हि प्रसादेन भवतां प्रतिपूजनैः ॥
प्रयतिष्ये यथाशक्त्या तन्मेऽनुज्ञातुमर्हथ
युष्माकं पूजनं कर्तुं केन शक्यं यथाविधि॥
युष्मत्पूजाविहीनेन कुतो लभ्यं महत्पदम्
ततः कर्तुं यथाशक्त्या भवतां प्रतिपूजने ॥
वरदाः प्रयतिष्यामि तन्मेनुज्ञातुमर्हथ
भवत्पूजाविधावस्मिन्बहुविज्ञं सदैव तु ॥
स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्ततेजसः
उत्सादयन्तु सकलान्विघ्नान्मे समुपस्थितान् ॥
अस्माद्देशात्प्रणश्यन्तु यज्ञघ्ना ब्रह्मराक्षसाः
विनायका विघ्नकरा ममोग्रा यज्ञद्विषो ये पिशिताशनाश्च ॥
सिद्धार्थकैर्वज्रसमानकल्पैर्मया निरस्ताः स्वगृहं प्रयान्तु
एतावदुक्त्वा विकिरेत विद्वान्सिद्धार्थकान्दिक्षु तथा विदिक्षु ॥
रक्षोहणं चात्र तथैव मंत्रं वक्तव्यमुच्चैर्द्विजपुङ्गवेन
सर्वग्रहाणां यजने प्रदिष्टं सर्वौषधैः स्नानमदीनसत्त्व ॥
बीजैः समग्रैश्च तथैव गन्धैर्मृद्भिश्च रत्नैश्च तथा जलैश्च
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षावाहनमन्त्राध्यायो नाम पञ्चनवतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0