विष्णुधर्मोत्तरपुराणम् · अध्याय 1.94
॥ वज्र उवाच ॥ ॥
एकैकस्येदमुक्तं ते विधानं द्विजपूजने ॥
सर्वग्रहाणां यजने विधानं मम कीर्तय
- ॥
मार्कण्डेय उवाच ॥
एकैकस्येदमुक्तं ते विधानं राजसत्तम ॥
सर्वग्रहाणां यजने मण्डलस्य विधिं शृणु
आदावेव नरव्याघ्र यागं वक्ष्याम्यतः परम् ॥
प्रागायतं तु कर्तव्यमादौ लेखाद्वयं नृप
तस्योपरि तथा कार्यमपरं तूत्तरायतम् ॥
एवं कृते यदुत्पन्नं मध्ये तु चतुरस्रकम्
ततो ग्रहेभ्यः कर्तव्यं तथा लेखाचतुष्टयम् ॥
तच्छक्तिभ्यः प्रकर्तव्यं तथा रेख्या चतुष्टयम् ॥)
एवं कृते सम्भवति भगणं द्वादशक्षयम्
त्रयोदशं तथा तस्य ध्रुवस्थानं तु मध्यमम्
प्राच्यां दिशि महीनाथ मेषं तु परिकल्पयेत् ॥
तदाद्या गणना कार्या परिशेषेषु राशिषु
रेखाविधानं द्विगुणं शोभार्थं परिकल्पयेत् ॥
राशिस्थानानि सर्वाणि राशिवर्णेन रञ्जयेत्
राशि वर्णान्यथो वक्ष्ये यथावदनुपूर्वशः ॥
अरुणश्च सितश्चैव हरितः पाटलस्तथा
आपाण्डुश्च विचित्रश्च कृष्णश्च कपिलस्तथा ॥
पिंगलः कर्बुरो बभ्रुर्मलिनश्च यथाक्रमम्
मेषादीनां विनिर्दिष्टा वर्णाः पार्थिवसत्तम॥
आकाशवर्णं कर्त्तव्यं ध्रुवस्थानं तथैव च
ध्रुवस्थाने महीनाथ देवतासप्तकं न्यसेत् ॥
मण्डलैश्शुक्लवर्णैस्तु दिग्विभागं निबोध मे
ध्रुवस्य मण्डलं मध्ये प्राग्भागे मण्डलत्रयम् ॥
मण्डलं गगनस्यात्र भागे प्रागुत्तरे भवेत्
प्राग्भागे च तथा राजन्मण्डलं ब्रह्मणः स्मृतम् ॥
प्राग्दक्षिणे तथा भागे दिशं पूर्वां प्रकल्पयेत्
भागे वै नेरृते कार्यं भुवो भूपाल मण्डलम् ॥
शेषस्य च तथा कार्यं प्रतीच्यां दिशि मण्डलम्
दिगधस्तात्तथा तस्य मण्डलं पश्चिमोत्तरे ॥
ग्रहश्चारवशाद्राजन्यस्मिन्राशौ व्यवस्थितः
मण्डलं तस्य कर्तव्यं तस्मिन्नेव यथाविधि ॥
न्यासं कार्यं ग्रहेन्द्राणां देवताभिः सहानघ
आदित्यात्सप्तमे राशौ केतोः कार्यं तु मण्डलम् ॥
राशौ सुवर्णे तद्वर्णं यस्य स्यान्मण्डलं नृप
उत्पाद्यः परिधिस्तस्य रंगेनान्येन पार्थिव ॥
गन्धचूर्णयुता रङ्गाः कर्त्तव्या भूतिमिच्छता
राशिचक्रं समग्रन्तु रेखया परिवारयेत् ॥
नक्षत्राणां ततः कार्यो न्यासः पार्थिवसत्तम
राशौ राशौ यथास्थानं रेखया परिवारितम् ॥
राशौ राशावतो वक्ष्ये नक्षत्राणां समाश्रयम्
अश्विनी भरणी चैव कृत्तिकांशं चतुर्थकम् ॥
मेषराशौ विनिर्दिष्टं नित्यं पार्थिवसत्तम
पादत्रयं कृत्तिकानां रोहिणी सकला तथा ॥
इल्वलानां तथैवार्धं ज्ञेयं वृषसमाश्रयम्
इल्वला=मृगशिरा
इल्वलार्द्धं तथैवार्द्रा ह्यदित्याश्चरणत्रयम् ॥
नित्यमेव समुद्दिष्टं मिथुनस्य समाश्रयम्
पादं पुनर्वसोः पुष्यं सार्पं कर्कटकाश्रयम् ॥
पित्र्यं भाग्यं तथार्यम्णं प्रथमं चरणं तथा
सिंहराशौ विनिर्दिष्टं नित्यं पार्थिवसत्तम ॥
पादत्रयमथार्यम्णं हस्तश्चित्रार्धमेव च
कन्याराशौ विनिर्दिष्टं नित्यं पार्थिवसत्तम ॥
चित्रार्धमथ वायव्यं विशाखाचरणत्रयम्
तुलाराशौ विनिर्दिष्टं मुनिभिस्तत्त्वदर्शिभिः ॥
विशाखाचरणं मैत्रं शाक्रं वृश्चिकभे स्मृतम्
मूलमाप्यं तथा पादं वैश्वदेवस्य धन्विनि ॥
पादत्रयं वैश्वदेवाद्राजन्वैष्णवमेव च
धनिष्ठार्धं च मकरे नित्यमेव प्रकीर्तितम् ॥
धनिष्ठार्धं शतभिषगजपाच्चरणत्रयम्
कुम्भराशौ विनिर्दिष्टं सततं पार्थिवोत्तम ॥
पादमाजस्य सकलं चाहिर्बुध्न्यं नराधिप
पौष्णन्तु कथितं मीने मुनिभिस्तत्त्वदर्शिभिः ॥
भचक्रपूजने राजन्नक्षत्रस्य पृथक्पृथक्
राशिचक्रस्य बाह्ये तु ह्येकैकतारकं न्यसेत् ॥
प्रागुक्तवर्णैर्भूपाल न्यासः कार्यो यथाविधि
ताराचक्रस्य विन्यासं रेखया परिवार्य तम् ॥
नक्षत्रदैवतन्यासं बहिः कार्यं समन्ततः
यथा नक्षत्रस्वामी स्यादृक्षवर्णैः पृथक्पृथक् ॥
तस्यापि रेखा कर्त्तव्या वृत्ता चाप्यनु मण्डलम्
रेखाबाह्येन विन्यासं दिगीशानां तु कारयेत् ॥
दिशश्च पार्थिवश्रेष्ठ यथावदनुपूर्वशः
स्वाश्रयर्क्षसमं वर्णं दिगीशानां तु कारयेत् ॥
उत्तरायां च कर्त्तव्यं धनदस्य च मण्डलम्
रुक्मवर्णं प्रयत्नेन दिशो वर्णमतः शुणु ॥
उत्तरा तु भवेच्छुक्ला रक्ता प्राची प्रकीर्तिता
दक्षिणा पीतवर्णा स्यात्कृष्णा ज्ञेया च पश्चिमा ॥
पद्मवर्णा तथा ज्ञेया ताम्रा स्यात्पूर्वदक्षिणा
पालाशा च विनिर्दिष्टा तथा दक्षिणपश्चिमा ॥
नीलोत्पलसवर्णा तु वायव्या परिकीर्तिता
शुक्लवर्णा तथा ज्ञेया चैशानीतत्त्वदर्शिभिः॥
दिङ्मण्डलं तु तद्विद्वाँल्लेखया परिवारयेत्
वृत्तया वेष्टयेद्वृत्तां लेखया चतुरस्रया ॥
तन्मध्ये शङ्खपद्माद्यैर्मङ्गलैरुपशोभयेत्
लेखाविधानं द्विगुणं सर्वत्रैव प्रकल्पयेत् ॥
मण्डलस्य तु कोणेषु ह्युदक्कुम्भान्नवान्दृढान्
फलपल्लवसंछन्नान्गन्धपुष्पादिसंयुतान् ॥
चतुरो विन्यसेद्विद्वान्नित्यमेव विचक्षणः
लेखासु विन्यसेद्राजन्पताकाश्च ध्वजाँस्तथा ॥
छत्राणि च सवर्णानि ग्रहेन्द्राणां पृथक्पृथक्
स्थानन्तु विज्ञाय यथावदत्र कार्यं यथा मण्डलकप्रमाणम् ॥
यथा महत्ता नृप मण्डलस्य तथातथा वृद्धिमुपैति कर्ता
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० मण्डलकल्पनानाम चतुर्नवतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0