भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.93

1.93.1

वज्र उवाच ॥
विस्तराच्छ्रोतुमिच्छामि ग्रहनक्षत्रपूजनम् ॥
त्वत्तोऽहं भार्गवश्रेष्ठ तन्ममाचक्ष्व पृच्छतः

1.93.2

मार्कण्डेय उवाच ॥
कल्पिते मण्डले स्नातः प्राक्तन्त्रे च तथा कृते ॥
मण्डलस्य तु शौचार्थं पञ्चगव्यं प्रकल्पयेत्

1.93.3

पयः काञ्चनवर्णाया नीलायाश्च तथा घृतम् ॥
दधि वै कृष्णवर्णायाः श्वेतायाश्चैव गोमयम्

1.93.4

गोमूत्रं ताम्रवर्णायाः पञ्चगव्यं प्रकल्पयेत् ॥
अथैतानि समस्तानि कपिलायास्समाहरेत्

1.93.5

गायत्र्या गृह्य गोमूत्रं रथे अक्षेति गोमयम् ॥
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि

1.93.6

तेजोसि शुक्रमित्याज्यं सावित्रेण कुशोदकम् ॥
अघमर्षणमन्त्रेण संयोज्य प्रणवेन तु

1.93.7

मण्डलाभ्युक्षणं कार्यं सावित्र्या तदनन्तरम् ॥
पूर्णं क्षीराक्षतोपेतं सर्षपातण्डुलैर्युतम्

1.93.8

शङ्खे रजते ताम्रे वा कुर्यादर्घ्यं विचक्षणः ॥
रथे अक्षेति मन्त्रेण द्रविणेन तथैव च

1.93.9

पाद्यस्य कल्पना कार्या द्रुपदायास्तथैव च ॥
हिरण्यवर्णेत्यारभ्य ऋक्त्रयेण तथैव च

1.93.1.93.10

आपो हिष्ठेति तिसृभिः शन्नोदेवीति पार्थिव ॥
जीवदानं ततो देयं मण्डले नृपपुङ्गव

1.93.11

अर्घ्योदकं पवित्रेण तत्र मन्त्रः प्रकीर्तितः ॥
अग्नेरायुरसीत्येवमनुवाकं नराधिप

1.93.12

जीवस्यावाहनं कार्यं तं च वक्ष्याम्यतः परम् ॥
ओम्-आवाहयाम्यहं देवं जीवं सर्वगतं विभुम्

1.93.13

पञ्चधावस्थितं देहं पञ्चधावस्थितं पुनः ॥
पञ्चाधावस्थितं भूयः पञ्चधावस्थितं ततः

1.93.14

वायव्येन तु भावेन पञ्चधावस्थितस्सदा ॥
आग्नेयेन तु भावेन पञ्चधावस्थितस्तथा

1.93.15

भूतात्मकेन तु तथा पञ्चधावस्थितं प्रभुम् ॥
वारुणेन च भावेन पञ्चधावस्थितं सदा ॥

1.93.16

मण्डलेऽस्मिन्नदृश्यस्त्वं प्रविशाद्य नमोस्तु ते ॥
जीवस्यावाहनं कृत्वा यथावत्पार्थिवोत्तम

1.93.17

वक्ष्याम्यावाहनाध्यायान्पूज्यस्यावाहनं भवेत् ॥
तद्विष्णोः परमित्येवमर्घ्यं देयं नराधिप

1.93.18

धुवा द्यौरिति मन्त्रेण ह्यासनं विनिवेदयेत् ॥
आपोहिष्ठेति तिसृभिः पाद्यं च विनिवेदयेत्

1.93.19

अर्घ्योदकादाचमनं गायत्र्या विनिवेदयेत् ॥
दधि क्षौद्रं घृतं चैव मधुपर्कं निवेदयेत्

1.93.1.93.20

तत्र मंत्रत्रयं ज्ञेयं दधि क्राव्णेति पार्थिव ॥
तेजोसि शुक्रमित्येव मधुवाता ऋतायते

1.93.21

मधुपर्किकमश्वत्थं ततो मात्रां निवेदयेत् ॥
सहिरण्यं बीजपात्रं द्रविणेन सदैव तु

1.93.22

पशुः कलौ न कर्तव्य इत्याह भगवान्भृगुः ॥
रथे अक्षेति मन्त्रेण दातव्यमनुलेपनम्

1.93.23

विभूषणं च तेनैव ततः परतरं नृप ॥
यज्ञोपवीतं तु नवं तथा प्रतिसरं शुभम्

1.93.24

वस्त्रं पताकां च तथा सावित्रेण निवेदयेत् ॥
पुष्पं पुष्पवतीत्येव धूपं धूरसि चाप्यथ

1.93.25

धूपमन्त्रमिदं चान्यं निबोध गदतो मम ॥
वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः

1.93.26

आह्वानं सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
तेजोसि शुक्रमित्येव दीपं दद्यान्महीपते

1.93.27

हिरण्यगर्भेत्यष्टर्चं देयं सर्वं निवेदयेत् ॥
निबोध गदतो मन्त्रमन्नपाननिवेदने

1.93.28

तुष्टिपुष्टिकरं हृद्यमाहारं सर्वदेहिनाम् ॥
गृहाण वरदाचिन्त्य पानं भक्त्या मयोदितम्

1.93.29

पानेनानेन परमा तृप्तिरस्तु तवानघ ॥
तृप्तस्तर्पय कामैस्तु यजमानं नमोऽस्तु ते

1.93.1.93.30

अनुक्तमंत्रं श्रुत्वाऽथ ग्रहेभ्यो यः प्रयच्छति ॥
सावित्रं तस्य निर्दिष्टं मन्त्रं पार्थिवसत्तम

1.93.31

ततोऽग्निहवनं कृत्वा दत्त्वा राजेन्द्र दक्षिणाम् ॥
सावित्रेण तु मन्त्रेण ततः कार्यं विसर्जनम्

1.93.35

इमां पूजां समादाय मया भक्त्या निवेदिताम् ॥
पुनरागमनायेह व्रजध्वं नाकमुत्तमम्

1.93.33

आधयो व्याधयश्चैव प्रशमं यान्तु सर्वशः ॥
रक्षा चाऽस्तु शिवं चास्तु यजमानस्य सर्वतः

1.93.34

गवां शिवं चास्तु तथा द्विजानां राज्ञां शिवं चास्तु तथा प्रजानाम् ॥
आतङ्कहीनं जगदस्तु सर्वं दोषाः प्रणाशं सकलाः प्रयान्तु

1.93.93

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहपूजाविधानं नाम त्रिनवतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc