भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.92

1.92.1

॥ वज्र उवाच ॥ ॥
प्राक्तन्त्रोत्तरतन्त्रौ द्वौ सर्वेषामग्निकर्मणाम् ॥
त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मभृतां वर

1.92.2

मार्कण्डेय उवाच ॥
उद्धृत्योर्वीमयीं शुद्धे देशे वेदिं च कारयेत् ॥
प्रागुदक्प्रवणां शुद्धामायामात्पदसप्तकम्

1.92.3

पूर्वभागे च विज्ञेया विस्तरात्पदपञ्चकम् ॥
पश्चिमे च तथा भागे विस्तरात्स्याच्चतुष्टयम्

1.92.4

आगारदेशे च तथा विस्तृता सा पदत्रयम् ॥
पूर्वभागादतिक्रम्य पश्चात्पदचतुष्टयम्

1.92.5

याम्येनोत्तरतश्चैव विज्ञेयं तु पदं पदम् ॥
आगारात्पश्चिमे भागे वेदी ज्ञेया पदद्वयम्

1.92.6

वेदिमेवंविधां कृत्वा स्नात्वाचम्य प्रयत्नतः ॥
सौवर्णान्राजताँस्ताम्रानथवापि महीमयान्

1.92.7

सूत्रार्घ्यमाल्यैर्गन्धैश्च सफलैः पल्लवैर्युतान् ॥
पूर्णोदकुम्भांश्चतुरो विदिक्षु सुदृढं न्यसेत्

1.92.8

वेद्यामुल्लिखनं कार्यमैन्द्रीभिर्नृपसत्तम ॥
उदुम्बरस्य शाखाभिः प्रागग्राभिः समन्ततः

1.92.9

शुष्केन्धनसमृद्धस्तु ततः कार्य्यो हुताशनः ॥
न धमेत्तालवृन्तेन न शूर्पेण न वाससा

1.92.1.92.10

मुखेनोपधमेदग्निं मुखादग्निरजायत ॥
परिसमुह्य पर्युक्ष्य परिषिच्य परिस्तरेत्

1.92.11

हुताशनं बोधयित्वा भूयश्चावाहयेद्बुधः ॥
वक्ष्यामि बोधने मन्त्रं तथा चावाहने नृप

1.92.12

उद्बुद्ध्याग्ने बोधयन्ति देवतास्तास्सवासवाः ॥
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः

1.92.13

वरुणो वायुराकाशं चन्द्रादित्यौ प्रभाकरौ ॥
ऋषयश्च महाभागास्त्रैलोक्यामलदर्शनाः

1.92.14

वेदाश्च वेदमाता च सावित्री पापनाशिनी ॥
ओषध्योऽथ वषट्कारो मन्त्राश्च विविधास्तथा

1.92.15

कालस्यावयवास्सर्वे दिशश्च विदिशस्तथा ॥
उदबुद्ध्य यजमानस्य सर्वान्कामान्प्रयच्छ वै

1.92.16

(ओम्)आवाहयाम्यहं देवं देवदेवं हुताशनम् ॥
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम्

1.92.17

वेदमूर्तिं तदाधारं सर्वदेवमुखं विभुम् ॥
पिङ्गेक्षणं पिङ्गजटं धूमकेतुं विभावसुम्

1.92.18

शुकयानगमं देवं सर्वाभरणभूषितम् ॥
सर्वगं वरदं भानुं जठरस्थं च देहिनाम्

1.92.19

तेजोमूर्त्तिं दुराधर्षं सप्तजिह्वं महाबलम् ॥
सप्तार्चिषं सप्तर्षिकं च समित्सप्तकमच्युतम्

1.92.1.92.20

विष्णोरंशमनिर्देश्यं भावनं जातवेदसम् ॥
पावनं पुष्टिदं सौम्यं भक्तानां भूतिवर्धनम्

1.92.21

तद्दत्तमाहुतिगणं संप्रतीच्छ जगद्गुरो ॥
तेन भावय देवेश यथाहं देवतागणान्

1.92.22

याजकं यजमानं च पुष्ट्या विभज सर्वशः ॥
इदमर्घ्यमिदं पाद्यं धूपं दीपं प्रगृह्यताम्

1.92.23

एवमावाहनं कृत्वा पाद्यार्घ्यं विनिवेदयेत् ॥
वेद्यामेव न तौ देयौ वह्नौ यदुकुलोद्वह

1.92.24

गन्धपुष्पादिकं देयं सकलञ्जातवेदसि ॥
धूपं दीपं सनैवैद्यं वेद्यामेव निवेदयेत्

1.92.25

ततस्तु प्रस्तरेद्वेदिमक्षताग्रैः कुशैर्द्विज ॥
उपमूलादधोलूनैः प्रागग्रैः प्रयतः शुचिः

1.92.26

पूर्वे च प्राग्दक्षिणतः पश्चाच्चैवापसव्यतः ॥
उत्तरेण ततः कुर्यात्प्रस्तरस्य समापनम्

1.92.27

मूलच्छिन्नन्तु दातव्यं प्रस्तरे भूभृतां वर ॥
ओषध्यः फलवन्त्यश्च पर्ववत्यस्तथैव च

1.92.28

दर्भाभावे प्रशंसन्ति तिस्रस्तत्र च वर्जयेत् ॥
राजसीरवरूकं च परिबाधमथोत्कटम्

1.92.29

विष्णुर्मनसा पूते स्तो मन्त्रेणानेन सुव्रत ॥
दार्भं पवित्रमुत्सज्य ताभ्यां च तदनन्तरम्

1.92.1.92.30

देवोव इत्यथैतेन उत्पूयमुदकं शुचि ॥
स्रुक्स्रुवावथ पालाशौ शमीन्यग्रोधसंभवौ

1.92.31

उदुम्बरमयौ ताम्रौ रूप्यरुक्ममयौ तथा ॥
आज्यस्थाली च कर्तव्या तैजसद्रव्यसम्भवा

1.92.32

माहेयी वापि भूपाल नित्यसर्वाग्निकर्मसु ॥
हस्तमात्रः स्रुवः कार्यो स्रुव बाहुसमं तथा

1.92.33

अङ्गुष्ठमध्यप्रतिमं होमस्थानं स्रुवस्य तु॥
आज्यस्थाल्याः प्रमाणन्तु यथाकामन्तु कारयेत्

1.92.34

ग्रामं पृश्चापयोसीति मन्त्रेणाज्यं नराधिप॥
आज्यस्थाल्याः पयोत्पूतं पञ्चानामिति पञ्चकम्

1.92.35

पठन्गृह्णीत राजेन्द्र अर्जेत्यग्नावधिश्रयेत् ॥
आज्यस्याथ पवित्रेण कार्य मुत्प्लवनं द्विज

1.92.36

अग्निर्जिह्वेति सततं हविरस्युत्पवनान्तरम् ॥
अक्षीणन्तु न कर्तव्यं सततं पार्थिवोत्तम

1.92.37

शुभाभ्यां स्रुक्स्रुवौ राजन्प्रत्युष्टमिति भावय ॥
पवित्रस्याग्रदर्भेण आयुरित्येव मानद

1.92.38

प्रतिमार्ष्टि भुवं पश्चाच्चक्षुरित्येव पार्थिव ॥
प्रतिमार्ष्टि स्रुवं ताँश्च दर्भान्वह्नावथोत्सृजेत्

1.92.39

दर्भोत्सर्गे पठेन्मन्त्रमिमं पार्थिवसत्तम ॥
दिवि शिल्पमवततं पृथिव्याः कक्षिभिः श्रितम्

1.92.1.92.40

तेन सहस्रकाण्डेन द्विषन्तं तापयामसि ॥
द्विषन्तस्तप्यतां चोक्त्वा क्षिपेद्दर्भान्हुताशने

1.92.41

इध्मद्वयं ततो देयं याज्ञियद्रुमसम्भवम् ॥
पलाशः खदिरो बिल्वः शम्यश्वत्थवटास्तथा

1.92.42

उदुम्बरमपामार्गः फल्गुश्च क्रमुकस्तथा ॥
चन्दनं देवदारुश्च द्रुमा द्वादश याज्ञियाः

1.92.43

चतुर्गृहीतं विन्यस्य स्रुचि पूर्वं विचक्षणः ॥
इध्मद्वये प्रज्वलिते सौम्यभागे नराधिप

1.92.44

प्रजानाम्पतये त्वादावाहुतिं मनसा न्यसेत् ॥
चतुर्गृहीते मूर्द्धेति देया दक्षिणतो भवेत्॥

1.92.45

युक्तः परस्तादित्यादि पञ्चकं जुहुयात्ततः ॥
सन्ततीश्च जयाद्यास्तास्तथा राष्ट्रभृतो नृप

1.92.46

वार्त्रघ्नौ चाज्यभागौ च दातव्यौ पार्थिवोत्तम ॥
अथौदुम्बरपत्राणां वेदौ दक्षिणतो नृप

1.92.47

सञ्चये पद्मपत्राणामथवापि महीपते ॥
आवाहनं तु कर्तव्यं देवस्य परमेष्ठिनः

1.92.48

आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठिनम् ॥
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम्

1.92.1.92.50

चतुर्वेदं चतुर्वक्त्रं चातुर्वण्यप्रभुं प्रभुम् ॥
चतुराश्रमगोप्तारं वरदं भूतभावनम् ॥ ४९
पद्मयोनिं जगद्योनिं यज्ञयोनिं जगत्पतिम् ॥
आत्मयोनिमनाधृष्यं यज्ञवाहं जगत्पतिम्

1.92.51

यज्ञेशं यज्ञमूर्तिं च त्रैलोक्यस्यैककारणम् ॥
सर्वगं वरदं सौम्यं परमं परमेश्वरम्

1.92.52

भूतभव्यभवं नाथं योगज्ञेयं सनातनम् ॥
आगच्छ भगवन्ब्रह्मन्यजमानस्य वृद्धये

1.92.53

इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ॥
ब्रह्मलिङ्गांस्ततो मन्त्राञ्जपेद्भक्त्या समाहितः

1.92.54

आपोहिष्ठेति मन्त्रेण ब्रह्मणोऽर्घ्यं निवेदयेत् ॥
शन्नोदेवीति पाद्यं च प्रयतः सुसमाहितः

1.92.55

हिरण्यगर्भेति तथा दद्यादाचमनं बुधः ॥
ध्रुवा द्यौरिति मन्त्रेण ह्यासनं विनिवेदयेत्

1.92.56

गन्धं पुष्पमलङ्कारं वस्त्रं धूपं सदीपकम् ॥
नैवेद्यं च तथा देयं सावित्रेण नराधिप

1.92.57

प्राक्तन्त्रमेतदुक्तं ते मया सर्वाग्निकर्मसु ॥
प्राक्तन्त्रे तु कृते कार्यं होममन्त्रमयासकम्

1.92.58

एवं कार्यं महीनाथ सर्वेष्वेवाग्निकर्मसु

1.92.59

होमस्य विहितस्यान्ते तन्त्रं कार्यमथोत्तरम् ॥
महाकल्पस्य कल्पस्य तथा मन्वन्तरस्य च

1.92.1.92.60

युगस्याथ समायाश्चायनस्य हि तथैव च ॥
ऋतोर्मासस्य पक्षस्य ग्रहनक्षत्रयोस्तथा

1.92.61

तिथेश्च करणस्याथ मुहूर्तस्य च पार्थिव ॥
वर्त्तमानस्य सर्वस्य देयस्याधिपतिर्भवेत्

1.92.62

इह गाव अयं यज्ञ आनः प्रजास्तथैव च ॥
धृतिं चैवोपधृतिं च इहाभागं तथैव च

1.92.63

देयं चतुर्गृहीतेन होमद्रव्येण पार्थिव ॥
त्वन्नो अग्ने वरुणस्य स त्वंनो अग्न एव च

1.92.64

अयाश्चाग्नेस्तथैवेति तथा व्याहृतयो नृप ॥
त्वन्नो अग्नेति च ततो होतव्यमृक्त्रयं पुनः

1.92.65

न्यूनं ततेति रिक्तेति न्यूने चैवातिरिक्तकम् ॥
समं समे तथा हुत्वा होतव्यमृक्त्रयं ततः

1.92.66

अनाज्ञातं यदाज्ञातं स्विष्टिश्चाप्यथ पार्थिव ॥
मनोर्ज्योतिस्तथैवात्र त्रयस्त्रिंशत्तथैव च

1.92.67

यन्मे च मनसा च्छिद्रं विश्वकर्मा तथैव च ॥
अयाश्चाग्नेस्तथा राजन्त्वन्नो अग्ने तथैव च ॥
सत्वन्नो अग्ने इत्येवं हुत्वा पार्थिवसत्तम

1.92.68

आश्रावितेति मन्त्रेण देया पूर्णाहुतिर्भवेत्

1.92.69

इष्टो हि यज्ञो भृगुभिर्मंत्रेणानेन पार्थिव ॥
आज्यस्थालीं स्रुक्स्रुवौ च दर्भैस्तु परिमार्जयेत्

1.92.1.92.70

ताँश्च दर्भान्क्षिपेद्वह्नौ प्रयतः सुसमाहितः ॥
पूर्णमित्येव च स्रुवा कार्यं संवीक्षणं ततः

1.92.71

यथादिशं महीपाल तथा कुर्याद्विमोचनम् ॥
ततो विसर्जनं कार्यं ब्रह्मणः परमेष्ठिनः

1.92.72

भगवन्देवदेवेश जगतामार्तिनाशन ॥
व्रजस्व पूजामादाय पुनरागमनाय च

1.92.73

यजमानस्य शान्त्यर्थं सर्वस्य जगतस्तथा ॥
आरोग्यधनधान्येन यजमानं च वर्धय

1.92.74

हुताशनस्य कर्त्तव्यं ततो राजन्विसर्जनम् ॥
द्रव्यभुक्त्वं वरेण्यस्त्वं प्रणतार्तिविनाशनः

1.92.75

व्रजस्व पूजामादाय पुनरागमनाय च॥
शान्त्यर्थं यजमानस्य राष्ट्रस्य च विवृद्धये

1.92.76

।
गोब्राह्मणहितार्थाय जयाय च महीपतेः ॥
पूर्णपात्रमथादाय वाच्यं स्वस्त्ययनं ततः

1.92.77

ततस्तु दक्षिणा देया यथा प्रोक्ता मया पुरा ॥
एतदुत्तरतन्त्रं तु प्रोक्तं सर्वाग्निकर्मणाम्

1.92.78

विधानमेतत्कथितं तवाद्य सर्वाग्निकर्मस्वनघोपयोगि॥
अतः परं किं कथयामि राजंस्तन्मे वदस्वायतलोहिताक्ष

1.92.92

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अग्निकार्ये प्राक्तन्त्रोत्तरतन्त्रविधिर्नाम द्विनवतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc