भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.91

1.91.4

वज्र उवाच ॥
ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां पृथक्पृथक् ॥
स्नानानि श्रोतुमिच्छामि तत्पीडाशमनान्यहम् ॥ १ । ।
मार्कण्डेय उवाच ॥
मञ्जिष्ठां मातुलुंगं च कुंकुमं रक्तचन्दनम् ॥
पूर्णकुम्भे कृते ताम्रे सूर्यस्नानं विधीयते ॥ २ । ।
उशीरं च शिरीषं च पद्मकं चन्दनं तथा ॥
शंखे न्यस्तमिदं स्नानं चन्द्रदोषनिवारणम् ॥ । । ३ ॥
खदिरं देवदारुं च तिलान्यामलकानि च । ।
पूर्णकुम्भे कृते रौप्ये भौमपीडाविनाशनम्

1.91.5

नदीसंगमतोयानि तन्मृदा सहितानि च ॥
न्यस्तानि कुम्भे माहीये बुधपीडाविनाशनम्

1.91.6

गोरोचनं नागमदं शतपुष्पा शतावरी ॥
विन्यस्य राजते कुम्भे शुक्रपीडानिवारणम्

1.91.7

तिलान्माषान्प्रियंगुं च गन्धपत्रं तथैव च ॥
न्यस्तं कार्ष्णायसे कुम्भे सौरपीडानिवारणम्

1.91.8

गुग्गुलुं हिंगुलं तालं शुभां चैव मनःशिलाम् ॥
शृंगे च माहिषे न्यस्तं राहुपीडाविनाशनम्

1.91.9

वराहनिर्हृतां राजन्पर्वताग्रमृदं तथा ॥
छागं क्षीरं खड्गपात्रे केतुपीडाविनाशनम्

1.91.1.91.10

ग्रहस्नानमिदं प्रोक्तमृक्षस्नानमतः शृणु ॥
येन सम्यक्प्रयुक्तेन मुच्यते किल्विषान्नरः ॥

1.91.11

वटाश्वत्थशिरीषाणां पत्राणि तु तिलैस्सह ॥
सर्वगन्धोपपन्नानि कृत्तिकासु विधीयते

1.91.12

सर्वबीजोदकस्नानं रोहिणीषु प्रशस्यते ॥
सर्वरत्नोदकस्नानं मृगशीर्षे विधीयते

1.91.13

वचा च गन्धा कान्ताभिः स्नानं रौद्रे प्रकीर्तितम् ॥
गोष्ठमृद्गोमयस्नानमादित्ये पापनाशनम्

1.91.14

सर्वौषध्यः पञ्चगव्यं तथा गौराश्च शालयः ॥
सिद्धार्थकास्सर्वगन्धांस्तिष्यस्नाने शुभप्रदाः

1.91.15

वल्मीकाग्रमृदा स्नानं तथा सार्पे शुभप्रदम् ॥
सतिलं देवनिर्माल्यं स्नानं शस्तं मघासु च

1.91.16

फल्गुनीषु च पूर्वासु शाड्वलं लवणं घृतम् ॥
उत्तरासु तथा स्नानं शिम्बिमुस्ताप्रियंगुभिः

1.91.17

हस्ते स्नानं प्रशंसन्ति पर्वताग्रसरोमृदा ॥
चित्रासु देवनिर्माल्यं स्वातौ पुष्पैर्जलोद्भवैः

1.91.18

विशाखासु प्रशंसन्ति रौद्रचन्दनपद्मकैः ॥
नदीकूलद्वयान्मृद्भिर्मैत्रे स्नानं प्रकीर्तितम्

1.91.19

ज्येष्ठोदकेन ज्येष्ठासु सुवर्णसहितं हितम् ॥
सर्वमूलजलैः स्नानमाप्ये मुक्ताफलोदकैः

1.91.1.91.20

वैश्वदेवे प्रशंसन्ति पद्मकोशीरचन्दनैः ॥
सर्वौषधैश्चाभिजिति श्रवणे संगमोदकैः

1.91.21

नदीवापीजलयुतैर्वारुणे तु प्रशस्यते ॥
आजे श्रीवासकं स्नानं कान्ता पुरुहितं हितम्

1.91.22

आहिर्बुध्न्ये तथा स्नानं पद्मकोशीरचन्दनैः ॥
कुङ्कुमागुरुकर्पूरैः सहितं पापनाशनम् ॥
दर्भेर्मूलयुतैः पौष्णे हरिद्राद्वयचन्दनैः

1.91.23

नागाश्वगन्धा मदवन्तिका च क्षौद्रान्विता चाश्विनके प्रदिष्टा ॥
सुराह्व काष्ठं रजनीद्वयं च स्नानं वचाभिः सहितं च याम्यम्

1.91.91

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहनक्षत्रस्नानविधिवर्णनं नामैक नवतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc