भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.90

1.90.1

॥ वज्र उवाच ॥
ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां तथैव च ॥
पूजाविधिमहं त्वत्तः श्रोतुमिच्छामि तत्त्वतः

1.90.2

मार्कण्डेय उवाच ॥
ग्रहं वाप्यथ नक्षत्रं यं पूजयितुमिच्छति । ।
उपस्पृश्य शुचिर्भूत्वा कृत्वा तस्याथ मण्डलम्

1.90.3

मण्डले कल्पितं वापि स्वयं दैवविदा नृप ॥
पूज्यस्नानेन विधिवत्स्नातः प्रयतमानसः

1.90.4

विधिनोपसमादाय प्रयतो जातवेदसम् ॥
अथ वोपसमादाने कृते तत्र पुरोधसा

1.90.5

प्राक्तन्त्रे च कृते तत्र चक्षुष्पत्रे यथाविधि ॥
मण्डलात्पश्चिमे भागे प्राङ्मुखः प्रयतश्शुचिः

1.90.7

मण्डलस्य तु शौचार्थं पञ्चगव्यं प्रकल्पयेत् ॥
अभ्युक्ष्य पञ्चगव्येन मण्डलं प्रयतः शुचिः ॥ ६ । ।
अर्घ्यादिकल्पनां कुर्यात्पाद्यान्तां तदनन्तरम् ॥
जीवादानं ततः कुर्याज्जीवस्यावाहनं ततः

1.90.8

पूज्यस्यावाहनं कुर्यात्ततोऽर्घ्यं विनिवेदयेत् ॥
पाद्यं निवेदयेत्पश्चादासनं च निवेदयेत्

1.90.1.90.10

दत्त्वैवाचमनीयं च मधुपर्कं निवेदयेत् ॥
ततोऽनुलेपनं दद्यात्ततो दद्याद्विभूषणम् । । ९ ॥
ततो यज्ञोपवीतं च ततः प्रतिसराञ्शुभान् ॥
वस्त्रं तथा पताकां च पुष्पं धूपं तथैव च

1.90.11

दीपं च दत्त्वा नैवेद्यं मुखवासं च पार्थिव ॥
ततोऽग्निहवनं कुर्याद्यस्य यस्य यथा भवेत्

1.90.12

कृत्वैवोत्तरतन्त्रं च दत्त्वा पूर्णाहुतिं ततः ॥
तदुक्तां दक्षिणां दत्त्वा मण्डले प्रतिपादयेत्

1.90.13

होतुर्वस्त्रयुगं देयं गौस्सुवर्णं तथैव च ॥
ग्राह्यं कालविदा तच्च यद्दत्तं ग्रहमण्डले

1.90.15

यथाशक्ति च दातव्या ब्राह्मणानां च दक्षिणा ॥
विसर्जनं ततः कार्यं ततो ब्राह्मणभोजनम् ॥ ॥ १४ । ।
भुक्तवत्सु च विप्रेषु प्रमार्ष्टिर्मण्डले भवेत् । ।
अर्घ्यपुष्पादिकं सर्वं जले प्रक्षिप्य पार्थिव

1.90.16

अम्बुना तर्पणं कार्यं पूजा स्यात्तदनन्तरम्

1.90.17

पूजाविधिस्ते गदितो मयाद्य समासतः पार्थिवसंघमुख्य । ।
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वाखिलराजसिंह ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं ० ग्रहर्क्षपूजाविधिवर्णनं नाम नवतितमोऽध्यायः । । ९ ० ॥

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc