भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.89

1.89.1

मार्कण्डेय उवाच ॥
शकृन्मूत्रं तु संगृह्य श्वेतस्य वृषभस्य च ॥
श्वेतगोः पयसा सार्धं स्नातव्यं कुशवारिणा

1.89.2

जन्मनक्षत्रपीडायां तस्माद्दोषा द्विमुच्यते ॥
शिरीषचन्दनाश्वत्थताटनागाम्बुभिर्नरः

1.89.3

स्नानश्चेन्मानसे तप्ते तस्माद्दोषो विमुच्यते ॥
सिद्धार्थकान्प्रियङ्गुं च शतपुष्पां शतावरीम्

1.89.4

स्नातव्यमम्भसि क्षिप्त्वा कर्मर्क्षे नृप पीडिते ॥
प्रियङ्गुबिल्वसिद्धार्थयवाश्वत्थसुराह्वयान्

1.89.5

।
चन्दनोदकसंयुक्ते स्नाने सांघातिके हते ॥
सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः

1.89.6

पीडिते सामुदायर्क्षे पुंसां कल्मषनाशनम् ॥
वृषशृङ्गोद्धृतमृदा तथा बिल्वोदकैश्शुभैः

1.89.7

शतपुष्पाससोमाह्वैः स्नानं वैनाशिके भवेत् ॥
पीडिते चाभिषेकर्क्षे सर्वरत्नोदकैस्तथा

1.89.8

।
पीडिते देशनक्षत्रे मृद्भिस्स्नानं विधीयते ॥
मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप

1.89.9

नदीकूलद्वयान्मध्यात्संगमात्सरसस्तटात् ॥
अश्व स्थानाद्गजस्थानाद्गोस्थानाद्गिरिमस्तकात्

1.89.1.89.10

सर्पस्थानात्सवल्मीकाद्राजस्थानाद्वरालयात् ॥
गजशृङ्गोद्धृतां चैव वृषशृङ्गोद्धृतां तथा

1.89.11

।
सर्वबीजोदकस्नातो जातिनक्षत्रपीडने ॥
मुच्यते किल्बिषाद्राजन्नात्र कार्या विचारणा

1.89.12

इदमापः प्रवहतः स्नानमन्त्राः प्रकीर्तिताः

1.89.13

)
स्नातस्तथैवं नृपचन्द्र पश्चात्स्नानं प्रकुर्वीत ग्रहोपदिष्टम् ॥
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रयागाभिहितं यथावत्

1.89.89

पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र पीडाकरस्याथ ततस्तु कार्या ॥
तं पूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान्सकलाञ्जहाति । । १४ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा ० सं० नक्षत्रस्नानं नामैकोननवतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc