भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.9

1.9.1

॥ वज्र उवाच ॥
श्रोतुं जनानिहेच्छामि सागरद्वीपवासिनः ॥
प्राधान्येन भृगुश्रेष्ठ विस्तराद्विस्तरो यतः

1.9.2

मार्कण्डेय उवाच ॥
पाञ्चालाः कुरवो मत्स्या यौधेयाः सवटश्चराः ॥
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः

1.9.3

वृषध्वजांजनाः पन्नाः सुह्मा मागधचेदयः ॥
काशयश्च विदेहाश्च पूर्वस्यां कोशलास्तथा

1.9.4

कलिङ्गवङ्गपुण्ड्राङ्गवैदर्भा मूलकास्तथा॥
विन्ध्यान्तनिलयाः प्रोक्ताः पूर्वदक्षिणतः स्मृताः

1.9.5

पुलिन्दाश्मकजीमूतनरराष्ट्र निवासिनः ॥
कर्णाटका भोजकटा दक्षिणापथवासिनः

1.9.6

अम्बष्ठा द्रविडा नागाः काम्बोजाः स्त्रीमुखाः शकाः ॥
आनन्तवासिनश्चैव ज्ञेया दक्षिणपश्चिमे

1.9.7

स्त्रीराज्यं सैन्धवा म्लेच्छा नास्तिक्या यवनास्तथा ॥
पश्चिमेन च विज्ञेयाः पटुमानौषधैः सह

1.9.8

माण्डव्याश्च तुषाराश्च मूलिकाश्च मुखाः खशाः ॥
महाकेशा महानासा देशास्तूरत्तरपश्चिमे

1.9.9

लम्पगास्तालनागाश्च मरुगान्धारजाहुताः ॥
हिमवन्निलया म्लेच्छा ह्युदीचीं दिशमाश्रिताः

1.9.1.9.10

त्रिगर्तमीनकौलूता ब्रह्मपुत्रास्सतीगणाः ॥
अभिसाराश्च काश्मीराश्चोदक्पूर्वेण कीर्तिताः

1.9.11

राजेन्द्रसागरद्वीपा प्रधाना वसुधाधिपाः ॥
भवतेऽहं प्रवक्ष्यामि दिग्देशेन निबोध तत्

1.9.12

पञ्चालनाथो मगधाधिपश्च कलिङ्गराड् भोजकटेश्वरश्च ॥
अनन्तकः सैन्धवकस्तुषारो मद्रेश्वरश्चाथ कुलूतनाथः

1.9.9

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जनपदवर्णनो नाम नवमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc