भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.10

1.10.1

वज्र उवाच ॥
निविष्टान्सागरे द्वीपे सप्ताहं कुलपर्वतान् ॥
नामतः श्रोतुमिच्छामि तत्प्रसूताश्च निम्नगाः

1.10.2

मार्कण्डेय उवाच ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥
विन्ध्यश्च पारियात्रश्च सप्तास्मिन्कुलपर्वताः

1.10.3

त्रिसामा ऋषिकुल्याश्च इक्षुगा त्रिदिवालया ॥
लांगूलिनी वंशधरा नद्यस्त्वेता महेन्द्रजाः

1.10.4

कृतमाला ताम्रपर्णी पुष्पजा चोत्पलावती ॥
शीतोदका गिरिवहा नद्यो मलयसम्भवाः

1.10.5

तुङ्गभद्रा सुप्रकारा वाह्या कावेरिका तथा ॥
दक्षिणापथमध्यस्था सह्यपादविनिस्सृताः

1.10.6

ऋषिका सुकुमारी च मन्दगा मन्दवासिनी ॥
नृपमाला शिरी चैव शुक्तिमत्पादनिस्सृताः

1.10.7

मन्दाकिनी दशार्णा च शोणो देवी च नर्मदा ॥
तमसा पिप्पला चेति ऋक्षवत्पादनिःसृताः

1.10.8

वेणा वैतरणी चैव नर्मदा च कुमुद्वती ॥
तोया सेतुशिला चैव विन्ध्यपादविनिस्सृताः

1.10.9

पारा चर्मण्वती पादा विदिशा वेणुवत्यपि ॥
सिप्रा ह्यवन्ती कुन्ती च पारियात्रविनिःसृताः

1.10.1.10.10

नद्यः प्रधानाः कथितास्तवैताः पुण्याः पवित्रा ऋषिसेविताश्च ॥
सन्तीह नद्यश्च सहस्रशोऽन्या वक्तुं न शक्या यदुवृन्दनाथ ।

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सप्तगिर्युद्भवनदीवर्णनो नाम दशमोऽध्यायः ॥१ ० ॥

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc