भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.8

1.8.1

॥ वज्र उवाच ॥
भगवन्भारतं वर्षं श्रोतुमिच्छामि तत्त्वतः ॥
कर्मभूमिषु मर्त्यानां वर्षं भार्गव भारतम्

1.8.2

मार्कण्डेय उवाच ॥
भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः ॥
अष्टभिर्गिरिभिश्छन्ना येत्वगम्याः परस्परम्

1.8.3

हिमाचलादासमुद्रं गिरयस्ते व्यवस्थिताः ॥
याम्योत्तरेण राजेन्द्र नामतस्तान्निबोध मे

1.8.4

स्वमाली हेममाली च शम्भुः कार्तस्वराकरः ॥
वैडूर्यपर्वतश्चैव राजतो मणिमान्भवः

1.8.5

इन्द्रद्युम्नः कदेतश्च ताम्रवर्णो गभस्तिमान् ॥
रागद्वेषस्तथैवान्यो गान्धर्वस्त्वथ वारुणः

1.8.6

तेषां तु नवमो मध्ये द्वीपो नाम्ना तु मध्यमः ॥
अस्मिन्मन्वन्तरे क्षिप्तः सागरैश्च चतुर्दिशम्

1.8.9

वैडूर्यपर्वतः पूर्वमुत्तरेण हिमाचलात् ॥
पश्चार्धे काञ्चनगिरेरुदगेव च लावणात्

1.8.8

वेष्टितः सागरः सर्वो नानासत्त्वाश्रयो नृप । ॥
हिमालयः सागरैस्तु कृतो देशद्वयस्तथा

1.8.9

लवणस्योत्तरे पार्श्वे सागरस्य च दक्षिणे ॥
पुरी लंका सन्निविष्टा यस्यां वै रावणो हतः

1.8.11

लवणेन च संपृक्तः समुद्रो लवणो यतः ॥
हिमाचलस्य यो भागो वर्षेऽस्मिन्नृप भारते ॥1.8.१ ०॥
तत्रास्ति शैलप्रवरो द्वितीयो गन्धमादनः ॥
श्वेतश्च पर्वतश्रेष्ठो मन्दरश्च महागिरिः

1.8.12

एते शैलवरा दृष्टा पाण्डवैश्च महात्मभिः ॥
हिमाचलस्य मध्ये तु कैलासो नाम पर्वतः

1.8.13

हिमवत्येव विख्यातो नरनारायणाश्रमः॥
यत्र सा बदरी रम्या नानाशकुनिसेविता

1.8.14

उष्णतोयवहा गङ्गा श्वेततोयवहा परा ॥
सुवर्णसिकता राजंस्तापसैरुपशोभिता

1.8.15

इत्येते कथिता द्वीपाः प्राधान्येन तवानघ ॥
एतेषामंतरे द्वीपाः शतशोथ सहस्रशः

1.8.16

न ते वर्णयितुं शक्या वर्षाणां तु शतैरपि ॥
विवर्जयित्वा भरतस्य वर्षं वर्षेषु सर्वेषु नरेंद्रसिंह ॥
निरामया वीतभया मनुष्या वर्षेषु सर्वेषु तथैव चोक्ताः

1.8.17

आयुःप्रमाणं लभते हि राजन्द्वीपेषु सर्वेषु नरो मयोक्तम् ॥
कृत्वा शुभं कर्म तु भारतेऽस्मिन्द्वीपेषु सर्वेषु नराः प्रयान्ति ॥ ।

1.8.18

वृक्षेषु तेषां प्रभवन्ति कामाः स्त्रियश्च तेषामपि रूपवत्यः ॥
दण्डश्च तेषां च न दाण्डिकोऽस्ति सन्मार्गगास्तेऽपि तथा च राजन्

1.8.8

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भारतवर्षवर्णनं नामाऽष्टमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc