भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.88

1.88.1

वज्र उवाच ॥
ग्रहाणां भृगुशार्दूल नक्षत्राणां तथैव च ॥
पूजने विधिमाचक्ष्व तत्र मे संशयो महान्

1.88.2

मार्कण्डेय उवाच ॥
ग्रहस्साधिपतिः कार्यो नित्यं मण्डलके बुधैः ॥
नक्षत्रश्चन्द्रसहितस्तथा साधिपतिर्नृप

1.88.3

संख्याता तारकास्तस्य यथावन्मनुजेश्वर ॥
तेषां तारकसंख्यानं निबोध गदतो मम

1.88.4

रौद्रं पुष्यं तथा त्वाष्ट्रं वायव्यं वारुणं तथा ॥
पौष्णं च पार्थिवश्रेष्ठ कथितं त्वेकतारकम्

1.88.5

द्वितारं फल्गुनीयुग्मं तथा भाद्रपदाद्वयम्॥
आदित्यं च तथा मूलं चैन्द्राग्नं चाश्विनं तथा

1.88.6

त्रितारं भरणी सौम्यमैन्द्रं ब्राह्मं सवैष्णवम् ॥
चतुस्तारमथाषाढे द्वे मैत्रं यदुनन्दन

1.88.7

पञ्चतारः स्मृतो हस्तः प्राजापत्यं च वासवम् ॥
सार्पं पित्र्यमथाग्नेयं षट्तारं परिकीर्तितम्

1.88.8

आदित्यमण्डलं कार्यं पद्मवर्णं नराधिप ॥
श्वेतं चन्द्रमसः कार्यं रक्तं कार्यं कुजस्य च

1.88.9

नीलं बुधस्य कर्त्तव्यं पीतवर्णं बृहस्पतेः ॥
श्वेतं शुक्रस्य कर्त्तव्यं कृष्णं सौरस्य पार्थिव

1.88.1.88.10

आकाशवर्णं तमसः केतोर्धूमप्रभं तथा ॥
रक्तवर्णं कृत्तिकानां फल्गुनीद्वितयस्य च

1.88.11

हस्तस्य च सपौष्णस्य मैत्रस्य च नराधिप ॥
पीतं पुष्यस्य केशस्य शाक्रवाडवयोस्तथा

1.88.12

श्वेतं सौम्यस्य रौद्रस्य आप्यवारुणयोस्तथा ॥
आदित्यसार्पपित्र्याणां ब्राह्मवायव्ययोस्तथा

1.88.13

प्रोष्ठपादद्वयस्याथ श्वेतमेवाभिधीयते ॥
विचित्रवर्णं त्वाष्ट्रस्य वैश्वदेवस्य चाप्यथ

1.88.14

आश्विनस्य तथा कार्यं नित्यमेव नराधिप ॥
कृष्णं याम्यस्य मूलस्य पालाशं श्रवणस्य च

1.88.15

विशाखायां पीतरक्तं कर्त्तव्यं नृपमण्डलम्

1.88.16

यथोक्तवर्णेन नरेन्द्र कृत्वा पूर्वं ग्रहस्यानघ मण्डलं स्वम् ॥
ऋक्षस्य वा पूज्यतमस्य राजन्पूजा विधेया तदनन्तरं च

1.88.88

इति श्रीविष्णुधर्मोत्तरे प्रथमखंडे मा०स० ग्रहर्क्षमण्डलनिर्देशोनामाष्टाशीतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc