भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.87

1.87.1

॥ वज्र उवाच ॥
शुभाशुभपरिज्ञानं भगवन्पुरुषं प्रति ॥
त्वत्तोहं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः

1.87.2

मार्कण्डेय उवाच॥
जन्माश्रितस्त्रिषष्ठश्च सप्तमो दशमस्तथा ॥
एकादशः शशी येषां तदा तेषां शुभं भवेत्

1.87.3

जन्मन्यथ चतुर्थे च साष्टमे दशमे तथा ॥
एकादेशे बुधो येषां तेषामपि शुभं वदेत्

1.87.4

द्विपञ्चमगतो जीवस्सप्तमो नवमस्तथा ॥
एकादशस्तथा ह्येषां तेषामपि शुभं वदेत्॥

1.87.5

षष्ठसप्तमगः शुक्रो दशमे न च शोभनः ॥
द्वादशश्च तथा ह्येषां तेषां पीडां विनिर्दिशेत्

1.87.6

तृतीये दशमे षष्ठे तथा चैकादशे शुभा ॥
सौरारतीक्ष्णकिरणा येषां तेषां शुभं वदेत्

1.87.7

यस्मिन्हि जननं यस्य जन्मर्क्षं तस्य तत्स्मृतम् ॥
चतुर्थं मानसं तस्माद्दशमं कर्मसंज्ञितम्

1.87.8

संगातकं षोडशं स्याद्विंशं स्यात्सामुदायिकम् ॥
वैनाशकं तु नक्षत्रं कर्मर्क्षं यत्त्रयोदशम्

1.87.9

।
षण्णक्षत्रस्तु पुरुषस्सर्वः प्रोक्तो महीपते ॥
राजा च नवनक्षत्रो नक्षत्रत्रितयं शृणु

1.87.1.87.10

नित्यमभ्यधिकं षड्भ्यः पार्थिवस्य नृपोत्तम ॥।
देशाभिषेकनक्षत्रौ जातिनक्षत्रमेव च

1.87.11

जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ ॥
पूर्वात्रयमथाग्नेयं ब्राह्मणानां प्रकीर्तितम्

1.87.12

।
उत्तरात्रितयं पुष्यं क्षत्त्रियाणां प्रकीर्त्तितम् ॥
पौष्णं मैत्रं तथा पित्र्यं प्राजापत्यं विशां स्मृतम्

1.87.13

आदित्यमाश्विनं हस्तः शूद्राणामभिजित्तथा ॥
सार्पं विशाखा याम्यं च वैष्णवं च नराधिप

1.87.14

प्रतिलोमभवानां च सर्वेषां परिकीर्तितम् ॥
ईहादे ह्यर्थहानिस्स्याज्जन्मर्क्षे चोपतापिते

1.87.15

कर्मर्क्षे कर्मणां हानिः पीडा मनसि मानसे ॥
मूर्त्तिद्रविणबन्धूनां हानिस्संघातिके हते

1.87.16

संतप्ते सामुदायर्क्षे मित्रभृत्यार्थसंक्षयः ॥
वैनाशिके विनाशस्स्याद्देहद्रविणसंपदाम्

1.87.17

पीडिते चाभिषेकर्क्षे राज्यभ्रंशं विनिर्दिशेत् ॥
देशर्क्षे पीडिते पीडां देशस्य च पुरस्य च

1.87.18

पीडिते जातिनक्षत्रे राज्ञो व्याधिं विनिर्दिशेत्

1.87.87

ग्रहर्क्षजाता समवाप्य पीडां पूजा तु कार्या विधिना स्वकेन ॥
ततश्शुभं विन्दति राजसिंह विधूतपापः पुरुषस्सदैव ॥१५
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं०प्रतिपुरुषशुभाशुभनिर्देशोनाम सप्ताशीतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc