विष्णुधर्मोत्तरपुराणम् · अध्याय 1.86
वज्र उवाच ॥
प्रतिदेशं महाभाग कथं प्राप्तमुपद्रवम् ॥
विज्ञायते द्विजश्रेष्ठ तन्ममाचक्ष्व पृच्छतः
मार्कण्डेय उवाच ॥
कृत्तिकां रोहिणीं सौम्यं मध्यदेशस्य निर्दिशेत् ॥
पीडिते त्रितयेऽतस्मिन्मध्यदेशः प्रपीड्यते
आर्द्रां पुनर्वसुं पुष्यं पूर्वदेशस्य निर्दिशेत् ॥
पीडिते त्रितये तस्मिन्पूर्वदेशः प्रपीड्यते
आश्लेषां तु मघां पूर्वां चाग्नेय्यां दिशि निर्दिशेत् ॥
पीडिते त्रितये तस्मिन्नाग्नेयी पीड्यतेऽथ दिक्
आर्यम्णमथ हस्तं च त्वाष्ट्रं स्याद्दिशि दक्षिणे ॥
पीडिते त्रितये तस्मिन्पीड्यते दक्षिणा च दिक्
स्वातिं विशाखां मैत्रं च नैरृत्यां दिशि निर्दिशेत् ।
पीडिते त्रितये तस्मिन्पीड्यते नैरृती च दिक्
वायव्यां दिशि निर्दिष्टा वैश्ववैष्णववासवाः ।
पीडिते त्रितये तस्मिन्वायवी पीड्यते च दिक्
वारुणं चाजदैवत्यं चाहिर्बुध्न्यं तथोत्तरे ॥
पीडिते त्रितये तस्मिन्नुत्तरा दिक्प्रपीड्यते
रेवती चाश्विनी याम्यमैशानी दिक् प्रपीडिता ॥
पीडिते त्रितये तस्मिन्नीशानी दिक् प्रपीड्यते
आदित्यो भृगुजो भौमो राहुस्सौरो निशाकरः ॥
बुधो बृहस्पतिश्चैव प्राच्यादीशाः प्रकीर्तिताः ॥
विध्वस्तवपुषस्ते च ग्रहयुद्धे पराजिताः ॥
नीचाः पितृगृहस्थाश्च स्वां दिशं पीडयन्ति ते
वज्र उवाच ॥
स्वदेशपीडनं कुर्यान्नक्षत्रः पीडितः कथम् ॥
सर्वमेतन्ममाचक्ष्व सर्वधर्मभृतां वर
मार्कण्डेय उवाच ॥
शनैश्चरार्कौ चारेण वक्रेणाङ्गारको ग्रहः ॥
उपरागेण राहुश्च केतुश्चाधूमनोदयैः
उदयास्तमयाभ्यां च जीवशुक्रशशाङ्कजाः ॥
संच्छादनेन च शशी ह्यगस्त्यश्चैव योगतः
।
तथा यस्मिँश्च नक्षत्रे दिव्यपार्थिवनाभसाः ॥
दृश्यन्ते तु महोत्पाताः स्वां दिशं संप्रपीडयेत्
देशेषु सर्वेषु मयेरितं ते शुभाशुभं यादव मुख्यनाथ ॥
अतः परं धर्मभृतां वरिष्ठ वदस्व किं ते कथयामि राजन्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० प्रतिदेशपीडावर्णनं नाम षडशीतमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0