भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.85

1.85.1

वज्र उवाच ॥
शुभो वाप्यशुभो वापि कथं कालो महीतले ॥
ज्ञायते भार्गवश्रेष्ठ तन्ममाचक्ष्व पृच्छतः

1.85.2

मार्कण्डेय उवाच ॥
कृत्तिका याम्यवायव्ये नागवीथ्युत्तरोत्तरे ॥
गजवीथीह्युदङ्मध्ये प्राजापत्यादयस्त्रयः

1.85.3

ऐरावणे ह्युदग्भागे अहोरात्रचतुष्टयम्॥
मध्ये वरे तथा वीथी फल्गुनी ऋक्षयोर्द्वयोः

1.85.4

मध्येमध्ये तु गोवीथी अजाद्यं भचतुष्टयम् ॥
मध्ययामे जरद्गः स्यात्त्रितयं श्रवणादिकम्

1.85.5

याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्तिते ॥
अजादक्षिणमध्ये तु विशाखा मैत्रयोस्स्मृताः

1.85.6

आविकायाम्ययाम्ये तु शक्राद्यं भचतुष्टयम् ॥
वैश्वानरपथं प्राहुस्तमेवात्यन्तदारुणम्

1.85.7

उदयास्तमयाभ्यां च चारेण च तथा ग्रहाः ॥
उत्तरासु शुभाः प्रोक्ता दक्षिणास्त्वशुभावहाः

1.85.8

सुप्रभारश्मिमन्तश्च नागवीथ्यां यदा ग्रहाः ॥
न तदस्ति शुभं लोके यत्र पश्यन्ति मानवाः

1.85.9

विरश्मयो विवर्णाश्च वैश्वानरपथाश्रिताः ॥
न तदस्ति शुभं राम यन्न कुर्युर्जगत्त्रये

1.85.1.85.10

रोहिणीशकटं भिन्द्युर्ग्रहा यदि भवेत्तदा ॥
नाशः प्रजानां कूरश्च विशेषेणात्र लक्ष्यते

1.85.11

सौरारसूर्याः क्रूरास्तु तथा क्षीणश्च चन्द्रमाः॥
कूरैर्युक्तो बुधश्चैव राहुः केतुस्तथैव च

1.85.12

शेषास्सौम्यग्रहाः प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥
रोहिणी कृत्तिका पित्र्यं वैष्णवं मैत्रमेव च

1.85.13

पीडयन्तो ग्रहा हन्युर्दिशं वरुणपालिताम्॥
पूर्वस्यां दिशि दृश्यन्ते सर्वताराग्रहा यदि

1.85.14

प्राच्यानां तु तदा राज्ञां भवेत्पीडा सुदारुणा ॥
मध्ये च यदि दृश्यन्ते मध्यदेशनिवासि नाम्

1.85.15

वारुण्यां यदि दृश्यंते तां दिशं पीडयन्ति च ॥
हीनाधिकं चरन्तश्च व्यभ्रे वाऽदर्शनं गताः

1.85.16

धूमायन्तो ज्वलन्तो वा वेदयन्ति महद्भयम् ॥
एकान्तरितनक्षत्रगताः स्युश्चेद्ग्रहा दिवि

1.85.17

मालानाम भवेद्योगो मध्यदेशक्षितीशहा ॥
प्रासश्चक्रं धनुर्वज्रं सस्यानां क्षुद्रवृष्टिदाः ॥

1.85.18

ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥
भवेयुरेकर्क्षगतास्त्रिभिरूर्द्ध्वं यदा ग्रहाः

1.85.19

विनाशायैव लोकानां विज्ञेयास्सुमहीक्षिताम् ॥
एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः

1.85.1.85.20

शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥
चित्रायां लोहितो यत्र मूले देवगुरुस्तथा ॥

1.85.21

भार्गवश्च श्रविष्ठासु तदा घोरं भयं भवेत् ॥
कृत्तिकासु शनैश्चारी विशाखासु बृहस्पतिः

1.85.22

स्थितौ प्रजानां पीडायै वृष्टिमन्तर्दिवं भवेत् ॥
प्राग्द्वारेषु चरन्भेषु सौरो वक्रभियाद्यदि

1.85.23

पृथिवीं पीडयेत्सर्वां पूर्वदेशं विशेषत ॥
रौद्रे हस्ते तथैवाप्ये आहिर्बुध्न्ये शनैश्चरः

1.85.24

यदोदयं प्रपद्येत तदा नश्यन्ति पार्थिवाः ॥
सौम्ये त्वाष्ट्रे श्रविष्ठासु स्थिते सौरै महीक्षितः

1.85.25

सर्वपीडां समर्हन्ति यया यान्ति यमान्तिकम् ॥
पूर्वां पराशां संप्राप्तो भृगुजीवौ परस्परम्

1.85.26

सप्तमर्क्षगतौ स्यातां तदत्र देवो न वर्षति ॥
अपर्वणि शशाङ्कार्कौ त्वष्टानाम महाग्रहः

1.85.27

आवृणोति तमः श्यामः सर्वलोकविपत्तये ॥
उदयास्तमये भानोश्चन्द्रस्य च यदा भवेत्

1.85.28

परिवेषस्तदा राजा क्षिप्रं वधमवाप्नुयात् ॥
सकलं चेदहस्सूयो रात्रिं चेत्सकलां शशी

1.85.29

परिवेषी भवेद्राजा तत्रापि वधमर्हति ॥
द्विसूर्ये गगने वृद्धिं क्षत्त्रियाणां विनिर्दिशेत्

1.85.1.85.30

द्विचन्द्रे ब्राह्मणानां तु चाधिक्यं प्रलयाय तु ॥
उदयास्तमयौ यत्र सोमार्कौ रक्तमण्डलौ

1.85.31

न चात्राभ्राणि दृश्यन्ते तन्महाभयलक्षणम् ॥
चन्द्रमा जन्मनक्षत्रं परित्यजति यस्य तु

1.85.32

श्यावो रूक्षोपसव्यं तु तस्य विद्यादुपद्रवम् ॥
अत्यन्ता दर्शने राहोस्तथा चात्यन्तदर्शने

1.85.33

प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षतस्करैः ॥
यन्नक्षत्रगतो राहुर्ग्रसते चन्द्रभास्करौ

1.85.34

तज्जातानां भवेत्पीडा ये नराश्शान्तिवर्जिताः ॥
ग्रहोपसृष्टे नक्षत्रे ग्रहणं तु यदा भवेत्

1.85.35

तदा पीडा विनिर्देश्या सैनिकानां नृपैस्सह ॥
गृहीतो राहुणा चन्द्रः सूर्यो वा गगनाच्च्युतः

1.85.36

उल्कानि हन्यात्तत्रान्यो राजा राज्यं करिष्यति ॥
गृहीतौ परिवेषे तौ यदा चन्द्रदिवाकरौ

1.85.37

समन्तात्पीड्यते देशः शस्त्रकोपश्च जायते ॥
मेघैस्संछाद्यते राहुस्त्वतिवर्षति वा यदा

1.85.38

अकालजैस्तदा राज्ञो भयं विद्यादुपस्थितम् ॥
यन्न क्षत्रागते सूर्ये छिद्रं वै संप्रपद्यते

1.85.39

तज्जातः पार्थिवः क्षिप्रं यमलोकं गमिष्यति ॥
ताम्रकुङ्कुमरूक्षाभो घृतहारिद्रसन्निभः

1.85.1.85.40

बन्धुजीवनिभो भानुः शिशिराद्येषु शस्यते ॥
अस्वच्छवर्णः परुषो वेपनः खण्डमण्डलः

1.85.41

सच्छिद्रे रजसा ध्वस्त उल्काद्युपहतोपि वा ॥
मण्डलादन्यसंस्थानं मेघैश्चायुधसन्निभैः

1.85.42

उदयास्तमये च्छन्नः पार्थिवानां न शस्यते॥
पक्षादौ चापसंस्थाने युद्धं शशिनि निर्दिशेत्

1.85.43

लाभस्तेषां जयस्तेषां यत्र दृष्टं भयं ततः ॥
समकोटिविशालश्च किंचिद्वाप्युत्तरोन्नतः

1.85.44

मासादौ चन्द्रमाः शस्तो वाम एव विपर्ययः ॥
मण्डलेनान्तरीकुर्वञ्शृङ्गे सा यदि वा स्पृशेत्

1.85.45

ताराग्रहं तदा कुर्याद्भयं जनपदे शशी ॥
शुक्लपक्षस्य या वृद्धिर्लोके क्षेमसुभिक्षदा

1.85.46

सा सितेतरपक्षस्य पृथिव्यां नैव गम्यते ॥
श्रवणेभ्युदितो भौमः पुष्ये वक्रमियाद्यदि

1.85.47

प्राजापत्युदितश्चन्द्रो नाशाय स्यान्महीक्षिताम ॥
गतागतं यदा कुर्यान्मघामध्येन लोहितः

1.85.48

तदा भवत्यनावृष्टिः पाण्ड्यो राजा विनश्यति ॥
फल्गुन्योरुदयं कृत्वा वक्रः स्याद्वैश्वदैवके

1.85.49

प्रजापत्ये प्रवासश्च त्रैलोक्यं तत्र पीड्यते ॥
ध्रुवेषु वैष्णवे मूले शाक्रे च विचरन्कुजः

1.85.1.85.50

घोरां करोत्यनावृष्टिं कृत्तिकासु मघासु च ॥
कार्त्तिकेऽश्वयुजे पौषे चाषाढे श्रावणे बुधः

1.85.51

दृष्टो लोके भयाय स्यान्माघवैशाखयोस्तथा ॥
अकस्माद्यत्र दृश्येत दिवा देवपुरोहितः

1.85.52

राजा वा म्रियते तत्र स वा देशो विनश्यति ॥
अहस्सर्वं यदा शुक्रो दृश्यतेऽथ महाग्रहः

1.85.53

तदा त्वग्न्यादिभिर्ग्रामान्बाधते नगराणि च ॥
कार्त्तिके तु यदा मासि कुर्वातेऽस्तमयादयौ

1.85.54

तदह्नां नवति पूर्णं भुवि देवो न वर्षति ॥
शनैश्चरो देशपीडां देशनक्षत्रपीडने

1.85.55

ध्रुवं करोति राजेन्द्र नित्यं चारवशेन तु ॥
सप्ताहान्तर्गता ये वै दिव्यपार्थिवनाभसाः ॥
ग्रहोपरागे तीव्रास्स्युरुत्पाताः स्वफलेषु ते

1.85.56

एकस्मिन्यदि मासे स्याद्ग्रहणं चन्द्रसूर्ययोः ॥
ब्रह्मक्षत्रविरोधाय विपरीतविवृद्धये

1.85.57

यस्मिन्दृश्येत नक्षत्रे विशाखायां प्रधूपवत् ॥
तद्देशजाता पीडा स्याद्बुधकेतुमहाग्रहाः

1.85.58

उल्काद्यभिहते सूर्ये केतुभिर्वा विधूमिते ॥
अगस्त्ये वा ध्रुवे वापि प्रजापीडां विनिर्दिशेत

1.85.59

उल्कयाभिहता रूक्षा स्फुरणा रजसा युताः ॥
ऋषयस्सप्त लोकानां विनाशाय च भूभृताम्

1.85.1.85.60

कृत्तिकाभिस्सहोदेति शांकरी दिशमाश्रितः ॥
कुमारीप्रीतितो हन्याल्लोके नृपकुमारकान्

1.85.61

समागमे ग्रहाणां तु चन्द्रमाः शस्यते ह्युदक् ॥
नक्षत्राणां च राजेन्द्र दक्षिणेन न शस्यते

1.85.62

राहुः केतुः कुजः शक्रश्चन्द्रेण सहयायिनः ॥
बुधो जीवश्च सौरश्च नागरा रविणा सह

1.85.63

यायिना विजिते पौरे राज्ञां स्याद्यायिनां जयः ॥
यायिग्रहे पौरजिते पुरा राज्ञां जयो मृधे

1.85.64

पौरेण विजिते पौरे पौरैः पौरक्षयं वदेत् ॥
यायिना यायिनि हते यायिभ्यो यायिनां क्षयः

1.85.65

ग्रहाणां चेद्भवेत्साम्यं साम्यं राज्ञां विनिर्दिशेत् ॥
जयाजयौ नरेन्द्राणां निर्देश्यो ग्रहवद्बुधैः

1.85.66

ग्रहारूढश्च्युतस्स्थानात्स्फुरेण विजितो ग्रहः ॥
विजितो जयलिङ्गैश्च कृष्णः श्यामद्युतिस्तथा

1.85.67

उदङ्मार्गगतिः स्निग्धो विमलो विमलप्रभः ॥
बृहद्रूपोतिशुक्रश्च विजयी कथितो ग्रहः

1.85.68

न देयमेतच्चपलस्य लोके न नास्तिकस्याधमपूरुषस्य ॥
गुह्यं मुनीनामपि पार्थिवेन्द्र मयेरितं कालविनिश्चयं ते

1.85.85

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० ग्रहशुभाशुभपरिज्ञानवर्णनं नाम पञ्चाशीतितमोयायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc