भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.84

1.84.1

मार्कण्डेय उवाच ॥
लग्नानि द्वादशोक्तानि दिनरात्रेण नित्यशः ॥
यत्रादित्यः स्थितो राशौ तदाद्यानि नराधिप

1.84.2

मेषो वृषोथ मिथुनः कुलीरस्सिंह एव च ॥
कन्या तुला तथा कीटो धन्वी मकर एव च

1.84.3

कुम्भो मीनश्च राजेन्द्र लग्ना द्वादश कीर्त्तिताः ॥
कुजश्शुक्रो बुधश्चन्द्रः सूर्यश्चान्द्रिस्सितस्तथा

1.84.4

भौमो जीवश्च सौरश्च शनिर्जीविस्तथैव च ॥
मेषादीनां क्रमेणोक्ताः प्रभावः पृथिवीपते

1.84.5

लग्रस्यार्धं स्मृता होरा तयोर्विषमराशिषु ॥
आदित्यचन्द्रौ चन्द्रार्कावीश्वरौ समराशिषु

1.84.6

लग्नत्रिभागो द्रेष्काणः क्रमात्तेषां तथेश्वराः ॥
लग्नेशः पंचमेशश्च नवमेशस्तथैव च

1.84.7

मेषाद्याः कथिता नित्यं मेषसिंहधनुर्धराः ॥
मकराद्यास्तथा प्रोक्ता वृषकन्यामृगास्तथा

1.84.8

तुलाद्या मिथुनस्तौली कुम्भश्च वसुधाधिप ॥
कुलीराद्याः कुलीरश्च कीटो मीनस्तथैव च

1.84.9

आद्युक्तराशिप्रभृति गणनीया नवांशकाः॥
राशीनां तु यथोक्तानां क्रमान्नव नवेश्वराः

1.84.1.84.10

स्वराशितस्तथारभ्य क्रमेणैव नवेश्वराः ॥
राशीश्वरेश्वराः प्रोक्ता राशीनां द्वादशांशकाः

1.84.11

पंच भौमस्य सौरस्य पंच त्रिंशांशका मताः ॥
जीवस्याष्टौ विनिर्दिष्टाः सप्त प्रोक्ता बुधस्य तु

1.84.12

शुक्रस्योक्तास्तथा पञ्च राशौ विषम संज्ञके ॥
आद्यास्तु पञ्च शुक्रस्य ततस्सप्त बुधस्य च

1.84.13

जीवस्याष्टौ तथा प्रोक्ताः पञ्च सौरस्य चाप्यथ ॥
कुजस्य तु तथा पञ्च राशौ तु समसंख्यके

1.84.14

लग्नं च होरा च तथा द्रिकाणं नवांशकं द्वादशभागसंज्ञम् ॥
त्रिंशांशकं चाप्यथ षष्ठमत्र षड्भेदमाहुर्मुनयश्च लग्नम्

1.84.84

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० स० षड् लग्नवर्णनो नाम चतुरशीतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc