भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.81

1.81.1

वज्र उवाच ॥
त्वयोदितानां धर्मज्ञ समासेन पृथक्पृथक् ॥
कालस्यावयवानां च श्रोतुमिच्छामि देवताः

1.81.2

मार्कण्डेय उवाच ॥
पौरुषं यदहोरात्रं श्रुतवानसि यादव ॥
कालात्मा पुरुषस्तस्य सर्वभूतपतिः प्रभुः

1.81.3

कल्पस्य दैवतं ब्रह्मा यस्येदं सकलं जगत् ॥
क्रमान्मन्वन्तराणां तु मनवस्तु चतुर्दश

1.81.4

स्वायम्भुवस्तु प्रथमो मनुः स्वारोचिषस्तथा ॥
वैवस्वतोऽथ सावर्णिर्ब्रह्मपुत्रस्तथैव च

1.81.5

धर्मपुत्रो रुद्रपुत्रो दक्षपुत्रश्च यादव ॥
रौच्यो भौत्यश्च विश्वात्मा मनवस्तु चतुर्दश

1.81.6

वज्र उवाच॥
य एते भवता प्रोक्ता मनवश्च चतुर्दश ॥
नित्यं ब्राह्मे दिने प्राप्ते एत एव क्रमाद्द्विज

1.81.7

भवन्त्युतान्ये धर्मज्ञ एतन्मे च्छिन्धि संशयम् ॥
अथवा वर्त्तमानेऽस्मिन्भवता मम कीर्तिताः

1.81.8

मार्कण्डेय उवाच ॥
एत एव महाराज मनवस्तु चतुर्दश ॥
कल्पेकल्पे त्वया ज्ञेया नात्र कार्या विचारणा

1.81.9

एकरूपास्त्रयः कल्पा ज्ञातव्यास्सर्व एव हि ॥
क्वचित्किंचिद्विभिन्नाश्च मायया परमेष्ठिनः

1.81.1.81.10

ज्ञातव्यमेकरूपत्वमब्दानां च तथा त्वया ॥
कल्पेकल्पे महाराज मनूनां च विशेषतः

1.81.11

वज्र उवाच ॥
कल्पानां जनसादृश्ये युक्तिनैवोपपद्यते ॥
कदाचिदपि धर्मज तत्र पश्यामि कारणम्

1.81.12

एकस्मिन्नन्तरे मुक्तिं कल्पेकल्पे गते द्विज ॥
प्रभविष्यज्जगच्छून्यं कालस्यादेरभावतः

1.81.13

मार्कण्डेय उवाच ॥
जीवस्यान्यस्य सर्गेण नरे मुक्तिमुपागते ॥
अचिन्त्यशक्तिर्भगवाञ्जगन्पूरयते सदा

1.81.14

ब्रह्मणा सह मुच्यन्ते ब्रह्मलोकमुपागताः ॥
सृज्यन्ते च महाकल्पे तद्विधाश्चापरे जनाः

1.81.15

ते प्राप्ताः परमं स्थानं येषां जन्म न विद्यते ॥
समजीवप्रमाणाश्च सर्वे कल्पास्तथा नृप ॥
ब्रह्मलोके विष्णुलोके रुद्रलोके च ये गताः

1.81.16

विष्णुलोकास्सुबहवो रुद्रलोकास्तथैव च ॥
श्वेतद्वीपगता ये च तेषां जन्म न विद्यते

1.81.17

न तु सर्वेषु राजेन्द्र तेषु मुक्तिः प्रकीर्तिता ॥
ब्रह्मलोकोपरिष्टाच्च ये लोका रौद्रवैष्णवाः

1.81.18

मयोदितास्तयोर्गत्वा पुनर्जन्म न विद्यते ॥
महाकल्पक्षये जीवाः सर्वे तं परमेश्वरम्

1.81.19

प्राप्यापि विनिवर्तन्ते विना ज्ञानेन यादव ॥
भूय एव तदा लोकान्सर्गे सृजति तान्प्रभुः

1.81.1.81.20

कल्पमध्य्रे तु कल्पान्ते ज्ञानोज्झितकलेवराः ॥
प्राप्नुवन्ति परं परं स्थानं तद्विष्णोः परमं पदम्

1.81.21

जीवबीजान्यसर्गेण तत्स्थानं परमेश्वरः ॥
प्रपूरयति धर्मज्ञ राजन्केनापि हेतुना

1.81.22

वज्र उवाच ॥
कल्पानां सति सादृश्ये यो भेदो भृगुनन्दन ॥
तमहं श्रोतुमिच्छामि तत्र मे कौतुकं महत्

1.81.23

मार्कण्डेय उवाच ॥
कल्पानां सति सादृश्ये शृणु भेदं नराधिप॥
समतीते यथा कल्पे षष्ठे मन्वन्तरे गते

1.81.24

सप्तमस्य चतुर्विंशे राजंस्त्रेतायुगे तदा ॥
यदा रामेण समरे सगणो रावणो हतः

1.81.29

रामेणैव तदा राजन्कुम्भकर्णो निपातितः ॥
वर्तमाने तु यद्वृत्तं कल्पे यदुकुलोद्वह

1.81.26

रामस्य चरितं बद्धं तदा वाल्मीकिना शुभम् ॥
अतीतकल्पे यद्वृत्तं मया तत्काम्यके वने

1.81.27

युधिष्ठिराय कथितं धर्मपुत्राय पार्थिव ॥
कल्पानां सति सादृश्ये भेद एष तवेरितः

1.81.28

तेषां स्वरूपं च तथा तथा राजन्ननुक्रमम् ॥
ब्रह्मजन्मनिसर्गाश्च तथा तस्य पृथग्विधाः

1.81.29

कार्तिकेयस्य लक्ष्म्याश्च तथा देवस्य शूलिनः ॥
एवमाद्याः प्रभेदास्तु त्वया ज्ञेया नु पार्थिव ॥
कल्पादीनां महाराज चान्यत्रापि यदूद्वह

1.81.1.81.30

सादृश्यभेदाविह भूमिपाल कल्पस्यकल्पस्य मयोदितौ ते ॥
युगादिभिन्नस्य च दैवतानि वक्ष्याम्यतस्तानि निबोध राजन्

1.81.81

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० कल्पसादृश्यो नामैकाशीतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc