भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.82

1.82.1

मार्कण्डेय उवाच ॥। ॥
भगवान्वासुदेवश्च तथा संकर्षणः प्रभुः ॥
प्रद्युम्रश्चानिरुद्धश्च कृतादीनां च दैवताः ॥

1.82.2

तथा खण्डयुगानीह द्वादशोक्तानि भूपते॥
षष्ठाब्दे च विवर्तन्ते पञ्चाब्दानि पृथक्पृथक्

1.82.3

तेषां तव प्रवक्ष्यामि दैवतांस्तु पृथक्पृथक् ॥
विष्णुर्बृहस्पतिश्शक्रो वह्निस्त्वष्टा तथैव च

1.82.4

अहिर्बुध्न्यश्च पितरो विश्वेदेवा निशाकरः ॥
इन्द्राग्नी चैव नासत्यौ भगश्चैव महाबलः

1.82.9

इति द्वादश ते प्रोक्ता मया खण्डयुगेश्वराः॥
अथ षष्ट्यब्दनामानि निबोध गदतो मम

1.82.6

वर्तमाने तथा कल्पे षष्ठे मन्वन्तरे गते॥
तस्यैव च चतुर्विंशे राजंस्त्रेतायुगे तदा

1.82.7

।
यदा रामेण समरे सगणो रावणो हतः ॥
लक्ष्मणेन तथा राजन्कुम्भकर्णो निपातितः

1.82.8

माघशुक्लं समारभ्य चन्द्रार्कौ वासवर्क्षगौ ॥
जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा स्मृतः

1.82.1.82.10

प्रभवो विभवः शुक्लः प्रमोदश्च प्रजापतिः॥
वैष्णवे तु युगे पञ्च प्रोक्तास्संवत्सराश्शुभाः । ९
अङ्गिरा श्रीमुखो भावो युवा धाता तथैव च॥
अब्दो जीवयुगे पञ्च येषामाद्याश्शुभास्त्रयः

1.82.11

ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वशः॥
शक्राब्दाः पञ्च निर्दिष्टा येषामाद्यावुभौ शुभौ

1.82.12

वह्निस्स्वभानुस्तरणो वारिदश्च तथाऽव्ययः ॥
आग्नेयाः पञ्च निर्दिष्टा द्वितीयं तेष्वशोभनम्

1.82.13

सर्वजित्सर्वधारी च विरोधी विकृतिः खरः ॥
त्वाष्ट्रे पञ्च་ युगे तेषां द्वितीयं तु शुभप्रदम्

1.82.14

।
नन्दनो विजयश्चैव जयः कामश्च दुर्मुखः ॥
आहिर्बुध्न्ये युगे पञ्च येषामाद्या हितास्त्रयः

1.82.19

हेममाली विलम्बी च विकारी शर्वरी प्लवः ॥
पैत्र्ये पञ्चयुगे तेषां पञ्चमश्च शुभप्रदः

1.82.16

शोककृच्छुभकृत्क्रोधी विश्वावसुपरावसू ॥
वैश्वे पञ्च शुभा वैषामब्दौ राजन्द्विपंचमौ

1.82.17

प्लवङ्गः कीलकस्सौम्यस्सोमो रोधकृदेव च ॥
सौम्ये पञ्च शुभावेषां प्रथमानन्तरावुभौ

1.82.18

धावनं मथनं वीरं राक्षसं चानलं तथा ॥
इन्द्राग्निदैवते पञ्च सर्वे एव शुभप्रदाः

1.82.19

पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती ॥
आश्विनेऽपि युगे पञ्च चतुर्थस्तेषु शस्यते

1.82.1.82.20

दुन्दुभ्यङ्गारकौ रक्तः क्रोधश्चापि क्षयस्तथा ॥
भाग्ये पञ्च शुभास्सर्वे विशेषेण तु पञ्चमः

1.82.21

।
अतः परं चारवशाद्देवाचार्यस्य पार्थिव ॥
द्वादशाब्दाधिपांस्तुभ्यं कथयामि फलान्वितान्

1.82.22

आग्नेयक्षगे जीवे वर्षं स्याद्वह्निदैवतम् ॥
अहितं तद्विनिर्दिष्टं गोद्विजाग्न्युपजीविनाम्

1.82.23

सौम्यरौद्रोपगे जीवे सौम्यवर्षमुदाहृतम् ॥
ईतयस्सकला यत्र चानावृष्टिभयं तथा

1.82.24

अदित्यपुष्यगे चाब्दो विज्ञेयो गुरु दैवतः ॥
शुभङ्करी हितो लोके क्षेमारोग्यसुभिक्षदः

1.82.25

सार्पपैत्र्योपगे जीवे पैत्र्यं वर्पमुदाहतम् ॥
हार्दं वृष्टिप्रदं लोके शिवसौभिक्ष्यकारकम्

1.82.26

फाल्गुनीद्वयहस्तस्थे वर्षं भाग्यमुदाहृतम् ॥
चौरप्राबल्यकं घोरं नारीदौर्बल्यकारकम्

1.82.27

चित्रास्वातिगते जीवे त्वाष्ट्रः संवत्सरः शुभः ॥
शूकधान्यक्षयकरः शिबिधान्यविवर्धनः

1.82.28

इन्द्राग्निदैवतं जीवे विशाखामैत्रसंस्थिते ॥
यज्ञक्रियाप्रवृत्तानां हितं मुदितमानवम्

1.82.29

ज्येष्ठामूलगते जीवे शाक्तमब्दमुदाहृतम् ॥
शूकधान्यक्षयकरं भूतानां भयवर्धनम्

1.82.1.82.30

आषाढाद्वयगे जीवे वैश्वदेवमुदाहृतम् ॥
नाशुभं न शुभं लोके राज्ञां विग्रहकारकम्

1.82.31

विष्णुवासवसंस्थे तु वैष्णवं परिकीर्तितम् ॥
क्षेमसौभिक्षदं लोके पाषंडिपरिपीडनम्

1.82.32

प्रोष्ठपदाद्वयगते जीवे वारुणसंस्थिते ॥
पूर्वधान्यप्रदं त्वाजं पश्चाद्धान्यविनाशनम्

1.82.33

पौष्णाश्वियाम्यगे जीवे वर्षं स्यादश्विदैवतम् ॥
सुवृष्टिक्षेमदं लोके सर्वातङ्कविवर्जितम्

1.82.34

चैत्रशुक्लसमारम्भे जगतां जगदीश्वर ॥
सर्वं चक्रे तदा राजँस्ततस्तस्मिन्सदा दिने

1.82.35

संवत्सरेशः क्रियते ब्रह्मणा तु सदा ग्रहः ॥
नागो यज्ञश्च धर्मज्ञ गन्धर्वश्च तथैव च

1.82.36

सप्त च्छिन्ने तु यः श्लेषः कलिपातसमागणे ॥
आदित्यादिस्स बोद्धव्यो ग्रहः संवत्सराधिपः

1.82.37

आदित्येन सहानन्तो नागो भवति भूमिप ॥
चित्राङ्गदश्च गन्धर्वो दीर्घभद्रो निशाचरः

1.82.38

सौम्येन वासुकिर्नागः पूर्णभद्रो निशाचरः ॥
चित्रसेनश्च गन्धर्वः समाश्चामी प्रकीर्तिताः

1.82.39

भौमेन तक्षको नागो मणिभद्रो निशाचरः ॥
तदा चित्ररथो नाम गन्धर्वश्चाभिषिच्यते

1.82.1.82.40

बुधेन नागः कार्कोटो यक्षभद्रो निशाचरः ॥
तुम्बुरुर्नाम गन्धर्वः समास्वाम्यभिषिच्यते

1.82.41

जीवेन नागः पद्मस्तु दीर्घबाहुर्निशाचरः ॥
गन्धर्वश्च महातेजास्तथा शालिशिरः प्रभुः ॥

1.82.42

महापद्मस्तु शुक्रेण नागो भवति भूपते ॥
नारदश्चैव गन्धर्वो महाबाहुर्निशाचरः

1.82.43

सौरेण नागः शङ्खस्तु महाकर्णो निशाचरः ॥
ऊर्णायुश्चैव गन्धर्वः समास्वाम्यभिषिच्यते

1.82.44

अतः परं प्रवक्ष्यामि समारूपं महीपते ॥
ग्रहस्वामिभवं तुभ्यं शेषास्सर्वे तदाश्रयाः

1.82.45

तीक्ष्णार्कस्त्वल्पमत्स्यश्च गतमेघोऽतिभास्करः ॥
बहुनागव्याधिगणो भास्कराब्दो रणाकुलः

1.82.46

बहुवर्षोऽतिसस्यश्च गवाक्षीरप्रदायकः॥
चन्द्राब्दः कामिनामिष्टः चित्यङ्कितमहीतलः

1.82.47

अग्नितस्कररोगाढ्यो नृपविग्रहदायकः ॥
गतसस्यो बहुव्यालो भौमाब्दो बालहा भृशम्

1.82.48

विप्रक्षत्रियसस्यानां जनानां च कलाभृताम् ॥
बुद्धिप्रदोऽब्दो बौद्धस्तु बहुसस्याकरः क्षितौ

1.82.49

बहुयज्ञोऽतिसस्यश्च गोगजाश्वहितस्तथा ॥
बहुवृष्टिप्रदः सौम्यो जीवाब्दो द्विजपुष्टिदः

1.82.1.82.50

सस्याढ्यो धर्मबहुलो गतातंको बहूदकः ॥
कामिनां कामदः कामः सिताब्दो नृपशर्मदः

1.82.51

दुर्भिक्षमरकान्रोगान्करोति पवनस्तथा ॥
शनैश्चराब्दः शोकांश्च विग्रहाणि च भूभुजाम्

1.82.52

क्रमेण परिवर्त्तन्ते पञ्च यादव वत्सराः ॥
तेषामधिपतीन्वक्ष्ये नामानि च फलानि च

1.82.53

पञ्च भक्ते तु यच्छेषं तिष्ठेदब्दगणे गते ॥
संवत्सराद्यः संज्ञेयो नित्यं संवत्सरो बुधैः

1.82.54

आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः ॥
इडाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः ॥
इद्वत्सराख्यः कथितः तथा चैवात्र पञ्चमः

1.82.55

संवत्सरोऽग्निः परिवत्सरोऽर्क इडाभिधानो भगवाञ्छशाङ्कः ॥
ब्रह्मा स्वयंभूरनुवत्सरोऽपि इद्वत्सरः शैलसुतापतिश्च

1.82.56

वृष्टिः समाख्ये कथिता द्वितीये प्रभूततोया कथिता तृतीये ॥
पश्चाज्जलं मुञ्चति यश्चतुर्थः स्वल्पोदकं पंचममब्दमुक्तम्

1.82.82

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० स० अब्दफलनिर्देशो नाम द्व्यशीतितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc