विष्णुधर्मोत्तरपुराणम् · अध्याय 1.80
वज्र उवाच ॥
ब्रह्मणोऽस्य समुत्पत्तिमारभ्य सुमहाद्युते ॥
कालस्य गतिमिच्छामि श्रोतुं भृगुकुलोद्वह
मार्कण्डेय उवाच॥
स्वेनाहोरात्रमानेन ब्रह्मणोऽस्य जगत्पतेः॥
समाष्टकं गतं राजन्पञ्चमासास्तथैव च॥
अहोरात्रचतुष्कं च वर्तमानदिनाद्गतम् ॥
अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु
मनवः षड् गतास्सप्त सन्धयश्च तथा गताः ॥
सप्तविंशद्व्यतीताश्च तथैव च चतुर्युगाः
युगत्रयं तथातीतं वर्तमानचतुर्युगात् ॥
संवत्सराणां दशकं तथा कलियुगाद्गतम्
वाताश्वमेघकालेऽस्मिन्सह यक्षेण यादव ॥
भविष्याणामतीतानां ब्रह्मणां भूरिदक्षिण
अनादिमत्त्वात्कालस्य संख्यां वक्तुं न शक्यते ॥
गङ्गायाः सिकता धारा यथा वर्षति वासवः
शक्या गणयितुं राजन्न व्यतीता पितामहाः
अन्तवत्तां बुधो बुद्ध्वा सर्वस्य जगतीपते
तन्मार्गं परिमार्गन्ते यद्विष्णोः परमं पदम् ॥
वज्र उवाच ॥ कियत्कालपरीमाणं मया शास्या वसुन्धरा
परिक्षिता च धर्मज्ञ तन्मे ब्रूहि भृगूत्तम॥
मार्कण्डेय उवाच॥
अद्यप्रभृति राजेन्द्र समा पञ्चाशकं गते
परीक्षिति महाराजे दिवं प्राप्ते कुरूद्धहे ॥
परीक्षिद्धीने लोकेस्मिन्प्राणितुं त्वं तु शक्यसे
महाप्रस्थानमाविश्य नागलोकं गमिष्यसि ॥
स्वर्गते त्वयि राजेन्द्र परीक्षिति तथा नृपे
राजा नागपुरे भावी पारीक्षिज्जनमेजयः ॥
मथुरायां तथा भावी तव पुत्रोऽचलो नृपः ॥ १३ ॥।
नगरं खाण्डवप्रस्थं भयादिविनिवर्जितम् ॥
पालयिष्यति धर्मात्मा पुत्रस्ते भीमविक्रमः
दानवेन्द्रो मयः पूर्वं फाल्गुनेन प्रयास्यता ॥
महाप्रस्थानमित्युक्तो राजंस्त्वत्प्रियकाम्यया
यावद्वज्रो महीं भुङ्क्ते खाण्डवप्रस्थमाश्रितः ॥
तावत्सभेयं संरक्ष्या त्वया मदुपरोधतः
सेयं संरक्ष्यते तेन प्रतिज्ञाय धनञ्जये ॥
त्वयि नाकमनुप्राप्ते सभेयं मयशासनात्
हिमाचलं तु नेष्यन्ति यत्र बिन्दुसरं सरः ॥
राक्षसाः किङ्करा नाम यत्तस्मान्निर्मिता पुरा
उक्तं हि ते कालगतं मयैतदायुःप्रमाणं च तथा तवोक्तम् ॥
अतः परं धर्मभृतां वरिष्ठ वदस्व किं ते कथयामि राजन्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० यानकालवर्णनो नामाशीतितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0