भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.75

1.75.1

वज्र उवाच ॥
मन्वन्तरे परिक्षीणे यादृशी द्विज
जायते ॥ समवस्था महाभाग तादृशीं वक्तुमर्हसि

1.75.2

।
मार्कण्डेय उवाच ॥
मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः ॥
महर्लोकमथासाद्य तिष्ठन्ति गतकल्मषाः

1.75.3

मनुश्च सह शक्रेण देवाश्च यदुनन्दन ॥
ब्रह्मलोकं प्रपद्यन्ते पुनरावृत्तिदुर्लभम्

1.75.4

ऋषयश्च तथा सप्त तत्र तिष्ठन्ति ते सदा ॥
अधिकारं विना सर्वे सदृशाः परमेष्ठिनः

1.75.9

भूतलं सकलं वज्र तोयरूपी महेश्वरः ॥
ऊर्मिमाली महावेगः सर्वमावृत्य तिष्ठति

1.75.6

भूलोकमाश्रितं सर्वं तदा नश्यति यादव ॥
न विनश्यन्ति राजेन्द्र विश्रुताः कुलपर्वताः

1.75.7

महेन्द्रो मलयस्सह्यः शुक्तिमानृक्षवानपि ॥
विन्ध्यश्च पारियात्रश्च माल्यवान्गन्धमादनः

1.75.8

।
हिमवान्हेमकूटश्च निषधो नील एव च ॥
श्वेतश्च शृङ्गवान्मेरुर्न विनश्यन्ति पर्वताः

1.75.9

शेषं विनश्यति जगत्स्थावरं जङ्गमं च यत् ॥
नौर्भूत्वा तु सती देवी तदा यदुकुलोद्वह !

1.75.1.75.10

धारयत्यथ बीजानि सर्वाण्येवा विशेषतः ॥
भविष्यश्च मनुस्तस्यां भविष्या ऋषयस्तथा

1.75.11

तिष्ठन्ति राजशार्दूल सप्त ये प्रथिता भुवि ॥
मत्स्यरूपधरो विष्णुः शृङ्गी भूत्वा जगत्पतिः

1.75.12

आकर्षति तु तां नावं स्थानात्स्थानं स लीलया ॥
कर्षमाणन्तु तां नावं देवदेवं जगत्पतिम्

1.75.13

स्तुवन्ति ऋषयः सर्वे दिव्यैः कर्मभिरच्युतम् ॥
घूर्णमानस्तदा मत्स्यो जलवेगोर्मिसंकुले

1.75.14

घूर्णमानां तु तां नावं नयत्यमितविक्रमः ॥
हिमाद्रिशिखरं नावं देवदेवो जगत्पतिः

1.75.19

मत्स्यस्त्वदृश्यो भवति ते च तिष्ठन्ति तत्रगाः

1.75.16

कृततुल्यं तदा कालं तावत्प्रक्षालनं स्मृतम् ॥
आपस्साम्यमथो यान्ति यथापूर्वं नराधिप ॥
ऋषयश्च मनुश्चैव सर्वं कुर्वन्ति ते तदा

1.75.17

मन्वन्तरान्ते जगतामवस्था मयेरिता ते यदुवृन्दनाथ ।
अतः परं यत्तव कीर्तनीयं समासतस्तद्वद भूमिपाल

1.75.75

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० मन्वन्तरवर्णनो नाम पञ्चसप्ततितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc