भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.74

1.74.1

वज्र उवाच ॥
यदेतदुक्तं रामस्य वरुणेन महात्मना ॥
एतच्छ्रुत्वा तु मे जातस्संशयो भृगुनन्दन

1.74.2

अस्मिंस्तु भारते वर्षे परिक्षीणे युगे तथा ॥
अवस्था या भवेद्ब्रह्मस्तन्मे व्याख्यातु मर्हसि

1.74.3

॥मार्कण्डेय उवाच ॥
युगेयुगे परिक्षीणे वर्षे यादव भारते ॥
संग्रामेण विनश्यंति प्रायो वर्णोत्तमा जनाः

1.74.4

वज्र उवाच ॥
अस्माच्चतुर्युगाद्ब्रह्मन्यदतीतं युगत्रयम् ॥
तेष्वहं श्रोतुमिच्छामि संग्रामं भृगुनन्दन

1.74.5

मार्कण्डेय उवाच ॥
आसीत्कृतयुगस्यान्ते विप्राणां क्षत्त्रियैस्सह ॥
वैश्यानां च सशूद्राणां युद्धं परमदारुणम्

1.74.6

वर्णत्रयं तत्र रणे क्षत्रियैर्विनिपातितम् ॥
( ततश्च ब्राह्मणाः केचित्क्षत्त्रियानेवमब्रुवन्

1.74.7

अल्पैर्भवद्भिः कार्येण वयं केन विनिर्जिताः ॥)
तानब्रुवन्महाभागाः क्षत्रियास्सत्यसंगराः

1.74.8

एकोऽस्माकं द्विजश्रेष्ठस्सेनानीरिति विश्रुतः ॥
सर्वशस्त्रास्त्रकुशलो वयं तस्य मते स्थिता

1.74.9

भवतां बहुचित्तत्वाद्वयं तस्मात्पदेपदे ॥
जयामो विपुलं सैन्यं नात्र कार्या विचारणा

1.74.1.74.10

क्षत्रियैरेवमुक्तास्ते ब्राह्मणान्संशितव्रताः ॥
शशाङ्कं शरणं जग्मुर्द्विजेशं सोममञ्जसा

1.74.11

स तानुवाच धर्मात्मा सोमो राजा द्विजोत्तमान् ॥
प्रयागे भार्गवो विद्वान्ब्राह्मणस्संशितव्रतः

1.74.12

शूर इत्येव विख्यातो नित्यं वसति धार्मिकः ॥
प्रमतिर्नाम तस्यास्ति पुत्रो धर्मभृतां वरः

1.74.13

सर्वशास्त्रार्थकुशलो धनुर्वेदपरायणः ॥
विष्णुर्मानुष्यमापन्नो युष्मत्कार्यार्थसिद्धये

1.74.14

कृत्वा सेनाप्रणेतारं तं तु कृष्णाजिनध्वजम् ॥
निर्मर्यादान्रणे सर्वान्क्षत्त्रियांस्तान्विजेष्यथ

1.74.15

सोमस्य वचनं सर्वैरेवमुक्तैर्द्विजैः कृतम् ॥
प्रायः क्षत्त्रियहीनेयं लघ्वी वसुमती कृता

1.74.16

आदौ कृता क्षत्त्रबलैर्विट्छूद्रद्विजवर्जिता ॥
एवं कृतयुगस्यान्ते युद्धमासीत्सुदारुणम्

1.74.17

तथा त्रेतायुगस्यान्ते राक्षसैर्युद्धकर्कशैः ॥
राष्ट्रं राष्टमथासाद्य पार्थिवास्सगणा हताः

1.74.18

राजा भीमरथो नाम विष्णुर्मानुष्यरूपधृक् ॥
दिवोदासान्वयं जातो निजघानाथ राक्षसान्

1.74.19

पूर्वं त्रेतायुगस्यान्ते महाविजयकाङ्क्षिभिः ॥
राक्षसैः क्षत्रिया युद्धे केशवेन च ते हताः

1.74.1.74.20

तथैव द्वापरस्यान्ते वासुदेवार्जुनौ रणे ॥
चक्रतुर्वसुधां लघ्वीं नरनारायणौ नृप

1.74.21

द्वापरेद्वापरे राजंस्तथैव मधुसूदनः ॥
एकमेव यजुर्वेदं चतुर्धा व्यभजत्पुनः

1.74.22

द्वापरेस्मिन्नृपातीते वसिष्ठकुलवर्धनः ॥
पाराशरसुतश्श्रीमान्विष्णुर्द्वैपायनः स्मृतः

1.74.23

प्रकाशो जनितो येन लोके भारतचन्द्रमाः ॥
परीक्षित्पुत्रं राज्यस्थं राजानं जनमेजयम्

1.74.24

वैशम्पायन इत्येव शिष्यो व्यासस्य विश्रुतः ॥
आख्यास्यति महाऽऽख्यानं सर्वपापभयापहम्

1.74.29

धर्मे चाथें च कामे च मोक्षे च यदुनन्दन ॥
प्रदीपभूतं सर्वत्र बुधबुद्धिविवर्धनम्

1.74.26

।
यत्र विष्णुकथा देव्याः श्रुतयश्च सनातनाः ॥
तच्छ्रोतव्यं मनुष्येण परं पदमभीप्सता

1.74.27

।
भारतात्पारणं प्राप्य नरकं तु न गच्छति ॥
न चेत्स्याद्यदि भूपाल महापातकसंयुतः

1.74.28

।
दशभिः पारणैः स्थानं प्राप्नोति जगतः पतेः ॥
केशवस्य महाभाग निर्मितं येन भारतम्

1.74.29

व्यस्य वेदं चतुर्धा तु विष्णुर्द्वैपायनो मुनिः ।
शिष्यानध्यापयामास नामतस्तान्निबोध मे

1.74.1.74.30

ऋग्वेदमथ पैलं तु सामवेदं तु जैमिनिम् ॥
अथर्वणं सुमन्तुं तु यजुर्वेदं महामुनिम्

1.74.31

।
अध्यापयामास तदा वैशंपायनसंज्ञकम् ॥
वाकोवाक्यं पुराणं च सूतं भारतमेव च

1.74.33

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥ •
धर्मशास्त्रं पुराणं च विद्यास्त्वेताश्चतुर्दश ॥ ॥ ३२ ।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिम् ॥
छन्दोविशेषः षष्ठश्च षडङ्गो वेद उच्यते

1.74.34

।
सांख्यं योगं पञ्चरात्रं शैवं पाशुपतं तथा ॥
कृतान्तपञ्चकं विद्धि ब्रह्मणः परिमार्गणे

1.74.39

संसारक्षयहेत्वर्थे भावोपकरणेषु च ॥
सोत्तरा वैष्णवा धर्मास्सारमेतत्प्रकीर्तितम्

1.74.36

।
एतावानेव सकलो विद्याग्रामस्तवेरितः ॥
विद्याः प्रशस्ताश्चैताभ्यः शतशोथ सहस्रशः

1.74.37

योसौ व्यासस्य शिष्योभूदारणेयः सुतः शुकः ॥
तेनैव देवदेवेन विष्णुना प्रभविष्णुना

1.74.38

त्रेतायुगे चतुर्विंशे भृगुवंशोद्भवेन तु ॥
वाल्मीकिना तु रचितं स्वमेव चरितं शुभम्

1.74.39

रामाख्यानं महापुण्यं श्रोतॄणां विष्णुलोकदम् ॥
वर्तमाने कलियुगे क्षीणे नृपतिसत्तम्

1.74.1.74.40

कल्की विष्णुयशो नाम भविष्यति जगत्पतिः॥
घातयिष्यति सर्वान्स म्लेच्छान्परबलार्दनः

1.74.41

म्लेच्छाक्रान्तां वसुमतीं कृत्वा म्लेच्छाविवर्जिताम् ॥
धर्मसंस्थापनं कृत्वा स्वस्थानमुपयास्यति

1.74.42

।
प्रजासु धर्मयुक्तासु ततस्संपत्स्यते कृतम् ॥
इत्येवं भगवान्विष्णुर्युगे क्षीणेऽभि जायते

1.74.43

।
धर्मसंस्थापनार्थाय नित्यमेव यदूद्वह ॥
प्रादुर्भावसहस्राणि समतीतान्यनेकशः

1.74.44

भविष्यति तथा तस्य येषां संख्या न विद्यते

1.74.49

।
एतत्तवोक्तं हि नरेन्द्रचन्द्र क्षीणे युगे यद्भवतीह लोके ॥
अतः परं धर्मभृतां वरिष्ठ प्रब्रूहि किं ते कथयामि राजन्

1.74.74

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० युगान्तवर्णनो नाम चतुस्सप्ततितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc