भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.76

1.76.1

वज्र उवाच ॥
ब्राह्मस्य दिवसस्यान्ते यादृशी द्विज जायते ॥
जगतोऽस्य समावस्था तादृशीं वक्तुमर्हसि

1.76.2

मार्कण्डेय उवाच ॥
वृत्ते प्रक्षालने राजन्कल्पस्यान्ते चतुर्दिशम् ॥
उत्तिष्ठंति तदा घोरा दिवि सप्त दिवाकराः

1.76.3

ते तु पीत्वा जलं सर्वं शोषयन्ति जगत्त्रयम् ॥
विनाशे सर्वभूतानामयोगुडसमा तदा

1.76.4

भूमिर्भवति भूपाल दग्धास्सर्वे च जन्तवः ॥
विनष्टकिल्बिषास्सर्वे जीवमात्रावशेषकाः

1.76.5

जनलोकमथासाद्यतत्र तिष्ठन्ति निर्भयाः॥
भूर्भुवस्स्वर्महश्चैव तदा नश्यन्ति पार्थिव

1.76.6

जनलोकादयो लोका न तु नश्यन्ति पार्थिव॥
ततोऽर्कास्ते तु नश्यन्ति संहिता रुद्रतेजसा

1.76.7

उत्तिष्ठन्ति महारौद्रास्ततो दिविचरा घनाः ॥
केचिदञ्जनपुञ्जाभाः केचिद्गजकुलोपमाः

1.76.8

केचित्पुरवराकाराः केचिद्धारिद्रसन्निभाः॥
हरितालाञ्जनप्रख्यास्तथा हिङ्गुलकप्रभाः

1.76.9

शुकपत्रनिभाः केचित्केचिन्नीलोत्पलप्रभाः॥
विद्युन्माला विनद्धाङ्गा गर्जन्तोऽथ बलाहकाः

1.76.1.76.10

आक्रम्य गगनं राजन्पूरयन्ति महीतलम् ॥
गङ्गाप्रवाहप्रतिमैर्धारापातैः पुनःपुनः

1.76.11

ततस्समुद्रा भूपाल वेलोद्भेदतरङ्गिणः ॥
छादयन्ति महीं सर्वां दग्धां सूर्यगभस्तिभिः

1.76.12

ततस्संवर्तको वायुर्घनानारुजति क्षणात् ॥
ततो वायुं समादाय स्वशरीरे पितामहः

1.76.13

।
स्वपित्येकार्णवे लोके नष्टस्थावरजङ्गमे ॥
नष्टचन्द्रार्कपवने ग्रहनक्षत्रतारके

1.76.14

सुप्त्वा युगसहस्रं तु देवदेवो जगत्पतिः ॥
पुनर्विबुद्धः कुरुते सृष्टिं प्राग्वत्पितामहः

1.76.19

सृष्टिं करोति धर्मज्ञ कल्पेकल्पे पुनःपुनः ॥
पितामहस्य रात्र्यन्ते तस्माद्धि सृजति प्रजाः

1.76.16

जन्तूनां जननाद्राजञ्जन इत्यभिधीयते

1.76.17

एतावदुक्तं तव भूमिपाल कल्पे गते यद्भवतीह लोके ॥
अतः परं सर्वयदुप्रधान वदस्व किं ते कथयामि राजन्

1.76.76

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० कल्पान्तवर्णनो नाम षट्सप्ततितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc