भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.69

1.69.1

॥ मार्कण्डेय उवाच ॥
तस्मिन्पुरवरे रम्ये रत्नचित्रसभागतम् ॥
रत्नासनगतं वीरं चारुकुण्डललोचनम्

1.69.2

स्निग्धवैडूर्यसंकाशं शुक्लाम्बरविभूषितम् ॥
हारभारार्पिततनुं चारुकेसरधारिणम्

1.69.3

प्रवालमणिमुक्ताढ्यं गम्भीरं भुजगाश्रयम् ॥
किरीटोत्तंससंछन्नं यादोगणसमाश्रयम्

1.69.4

आदित्यमुदकावासमंभसां पतिमूर्जितम् ॥
लोकनाथं महद्भूतं भक्तानामभयप्रदम्

1.69.5

विष्णोर्भागं विशालांसं विशालाक्षं महाभुजम् ॥
सेव्यमानं महाभागैस्त्रिदशैर्ब्राह्मणैस्तथा

1.69.6

दैतेयैश्च महाभागैर्भीमैर्भीमपराक्रमैः ॥
सुन्दोपसुन्दशक्राक्षशम्बरामरकण्टकैः

1.69.7

हयग्रीवमहाग्रीवदशग्रीवसुरान्तकैः ॥
भीमभीमाक्षनरकविकटोत्कटमारणैः

1.69.8

अतिकायमहाकायभीमकायबलोद्धतैः ॥
नागैश्च सुमहाकायैर्महाभोगैर्जगद्धितैः

1.69.9

नागराज्ञा वासुकिना शङ्खेन कुरुणा तथा ॥
( महापद्मेन पद्मेन कर्कोटकधनंजयैः

1.69.1.69.10

ऐरावतेन नागेन तक्षकेण बलेन च ॥
कंबलाश्वतराभ्यां च ह्यार्यकेण महात्मना

1.69.11

)
बालव्यजनहस्तास्तमुपवीजन्ति निम्नगाः ॥
गङ्गा च सरयू राजन् वितस्ता यमुना तथा

1.69.12

इरावती चन्द्रभागा नर्मदा च महानदी ॥
पयोष्णी ब्राह्मणी गौरी विपाशा देविका तथा

1.69.13

शतद्रुः कम्पना सिन्धुस्तथा चान्यास्सहस्रशः ॥
सेव्यमानस्तथा कूपैस्तडागैश्च सविग्रहैः

1.69.14

सरोवरैस्सागरैश्च समुद्रैश्च यदूत्तम ॥
तं दृष्ट्वा वरुणं राजन्स ववन्दे भृगूत्तमः

1.69.15

पूजयामास च तथा वरुणोऽपि भृगूत्तमम् ॥
पाद्यार्घ्याचमनीयाद्यैरासनेनोदकेन च

1.69.16

आसीनश्च तदा रामो दैतेयानां वधे वृतः ॥
महादेववचस्सर्वं वरुणाय न्यवेदयत

1.69.17

स च तेनाभ्यनुज्ञातो ययौ दैत्यपुरं महत् ॥
वरुणोऽपि महातेजा रामवाक्येन यादव

1.69.18

संवादयामास तदा रामं रणकृतक्षणम् ॥
तदा वरुणदूतेभ्यो दैतेयाः श्रुतविस्तराः

1.69.1.69.20

निष्क्रम्य नगराद्राजँश्चतुरङ्गबलान्विताः ॥
सुसन्नद्धाः प्रतीक्षन्तो राममद्भुतविक्रमम् ॥ १ ९॥
ददृशुश्च महाभागं वरचापधरं तदा ॥
मृत्योर्भुजमिवोदग्रं लोकाकर्षणतत्परम ।

1.69.23

दीप्तांशुजालं रणचण्डवेगं धनुर्धरं कालभुजप्रकाशम् ॥
महानुभावं समरेष्वजेयं लेलिह्यमानं भुजगेन्द्रबाहुम्

1.69.69

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० वरुणादिदर्शनं नामैकोनसप्ततितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc