विष्णुधर्मोत्तरपुराणम् · अध्याय 1.70
मार्कण्डेय उवाच ॥
सन्नद्धं दानवगणं पताकाशतसंकुलम् ॥
नानाप्रकारवादित्रं सिंहनादबलोद्धतम्
दृष्ट्वा रामो महातेजाः सज्जं चक्रे महद्धनुः ॥
शरैस्संछादयामास दैत्यसैन्यं महाबलम
अभ्रच्छायेव संजज्ञे राममुक्तैश्शिलीमुखैः ॥
तिर्यगूर्ध्वमधश्चैव शरैर्व्याप्तं समन्ततः
चापमण्डलमध्यस्थः परिवेपीव भास्करः ॥
दृष्टमात्रेण सैन्यानां चक्षूंष्यपहरद्रणे
शरान्धकारे मग्नास्ते दानवा दुष्टचेतसः ॥
रामसन्दर्शनादेव दृष्टेऽर्के कौशिका यथा
स दानवानां व्यसृजन्रामो भाति शिलीमुखान् ॥
सदानवानां मधुवत्कुसुमानां शिलीमुखः
शरान्धकारे महति मग्नो मतिमतां वरः ॥
मायां कृत्वा तदाग्नेयीं तं ददाह शरोत्करम्
शरान्धकारगहनान्निष्क्रान्तास्ते दितेः सुताः ॥
भार्गवं कोष्टकीकृत्य रणे बिभिदुरञ्जसा
प्रचण्डैरर्धनाराचैर्वत्सदन्तैस्सचूचुकैः ॥
वराहकर्णैर्भल्लैश्च क्षुरप्रैश्चटकाननैः
तोमरैर्भिण्डिपालैश्च पाषाणैर्लगुडैश्शुभैः ॥
खड्गैः प्रासैस्तथा चक्रैऽर्गदामुसल कम्पनैः
परिघैरायसैश्शूलैस्त्रिशूलैश्शक्तिभिस्तथा ॥
स बाध्यमानोऽपि रणे दैत्यनाथायुधोत्करैः
न विव्यथे महातेजा हुताहुतिरिवानलः ॥
यदा शस्त्रप्रहारैस्तं न शेकुस्समरे द्विजम्
हन्तुं दैत्यवरा युद्धे चक्रुरस्त्रं तदा महत् ॥
अयश्शङ्कुर्महातेजा राजा दैत्यगणस्य यः
समेतैर्दानवैस्सार्धं रामं रणकृतक्षणम् ॥
शरैः संछादयामास दिव्यास्त्रप्रतिमन्त्रितैः
अस्त्रैरस्त्राणि संवार्य दानवेन्द्रस्य भार्गवः ॥
चिच्छेद सशरं चापं रुक्मदण्डं तथा ध्वजम्
सारथेश्च शिरः कायाच्छिरस्त्राणविभूषितम् ॥
एतत्कृत्वा रणे कर्म दक्षिणेन स पाणिना
जग्राह परशुं तीक्ष्णं दैत्यकायविदारणम् ॥
पद्भ्यामाक्रम्य वेगेन समरे रथकूबरम्
निर्जीवान्पादवेगेन कृत्वा तुरगसत्तमान् ॥
गदया च रथस्थस्य दानवेन्द्रस्य संयुगे
जहार सशिरस्त्राणं शिरो ज्वलितकुण्डलम् ॥
अयःशङ्कौ हते दैत्ये भार्गवं समरे तदा
सर्वे दैत्यगणाः कुद्धाश्छादयामासुरञ्जसा ॥
अस्त्रपुञ्जं रणे च्छित्वा तेषां भृगुकुलोद्भवः
रणे चिच्छेद गात्राणि शिरांसि च महातपाः ॥
क्षणमात्रेण रामोऽपि दैत्यदेहसमाकुलाम्
शोणितौघनदीं चक्रे केशशैवालशाद्वलाम् ॥
बाणमीनां चापनक्रां छत्रहंसावलीं तथा
प्रेतलोकार्णवगमां भीरुकल्मषवर्द्धिनीम् ॥
हस्तिशीर्षोपलां रौद्रां चारुतत्पुच्छपन्नगाम
एवं विधेऽपि संवृत्ते रणे कर्मणि दानवाः ॥
तं राममक्षतं दृष्ट्वा हतशेषाः प्रदुद्रुवुः
मयतारप्रभृतयः पुरं च विविशुस्तदा ॥
पलायमानान्समरे न जघान स भार्गवः
॥
किञ्चिच्छेषेषु दैत्येषु विनिवृत्तस्तदा रणात् ॥
हतदैत्यायुतगणो रामोऽश्मनगरं ययौ
रामप्रवेशे नगरं वरुणस्याज्ञया तदा ॥
पताकाध्वजसंबाधं कृतं देवैर्विशेषवत्
नागैश्च दानवैश्चैव सिक्तं चन्दनवारिणा॥
धूपपुञ्जसमुत्क्षिप्तं कुसुमोत्करमण्डितम्
ततश्च सुमहातेजा वरुणस्तु विनिर्गतः॥
पुत्रपौत्रैः परिवृतो रामप्रग्रहणकारणात्
संपूज्यमानं वरुणो रथमारोप्य च स्वकम् ॥
प्रवेशयामास पुरं बहुतूर्यपुरस्कृतम्
।
रामप्रवेशे च तदा नृत्यन्तोऽप्सरसां गणाः ॥
गन्धर्वमुख्या गायन्ति संस्तुवन्ति च बन्दिनः
स प्रविश्याथ नगरं वरुणस्य तथा गृहम् ॥
उवास तत्र धर्मात्मा वरुणेन सुपूजितः
धर्माणामागमं कृत्वा वरुणात्ससुतात्तदा ॥ ३३ ॥।
एवं स रामः परवीरघाती संप्राप्य यादोगणनाथवेश्म ॥
उवास पुत्रैर्वरुणस्य सार्धं संपूजितस्तेन जलेश्वरेण
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे अयश्शङ्कुवधो नाम सप्ततितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0