विष्णुधर्मोत्तरपुराणम् · अध्याय 1.68
मार्कण्डेय उवाच ॥ ॥
एवमुक्तस्तदा रामो देवदेवेन शम्भुना ॥
प्रणम्य शिरसा देवं पार्वतीं वरदां तथा
प्रमथैश्च परिष्वक्तस्सोत्कण्ठेनान्तरात्मना ॥
जगामाश्रममुद्दिश्य पितुः परबलार्दनः
सोऽचिरेणैव संप्राप्य ददर्शाश्रममण्डले ॥
वयोवृद्धं तपोवृद्धं पितरं दीप्ततेजसम्
सोऽभिवाद्य पितुः पादौ मातुश्च परवीरहा ॥
भ्रातॄणामानुपूर्व्येण धर्मनित्यो जितेन्द्रियः ॥
तैश्च मूर्धन्युपाघ्रातः सान्त्वितस्स महातपाः ॥
स मत्प्रसादं पृष्टश्चेत्युक्त्वा सर्वमशेषतः
आख्यातवाँस्ततः पश्चात्पातालगमनं तदा ॥
आसन्नं देवकार्यं च चापरत्नं च वैष्णवम्
जमदग्निर्महातेजाः श्रुत्वा रामवचस्तदा ॥
चापरत्नं च रामाय प्रददौ देवपूजितम्
दत्त्वोवाच स तं रामं हुताशनसमप्रभम् ॥
पश्चिमेन समुद्रेण प्रविश्य वरुणालयम्
संपूज्य वरुणं रामस्तस्यैवानुमते तदा॥
शक्रशत्रून्दुराचारान्पातालनिलयञ्जहि ॥
अनेन चापरत्नेन वैष्णवेन महाबल ॥
दैतेयान्समरे हत्वा गत्वा च वरुणालयम्
प्रष्टव्यो वरुणो देवस्त्वया धर्मान्सनातनान् ॥
स पुत्र वरुणाद्धर्माञ्छ्रुत्वा राम यथाविधि
आगच्छेथा यथाकालं मत्समीपं महाभुज ॥
एवमुक्तस्तदा रामः पित्रा धर्मभृतां वरः
पितरं मातरं भ्रातॄनभिवाद्य यथाविधि ॥
जगाम वरुणावासं रामो वैश्वानरद्युतिः
स प्रविश्य समुद्रेण महादेवप्रसादतः ॥
ततोऽश्म नगरं रामो ददर्श पुरमुत्तमम्
मनोऽभिरामं स्फटिकाश्मचित्रं तुरङ्गनागेन्द्रकुलाकुलं च ॥
विभूषितं पन्नगदैत्यनाथैरुद्यानवापीशत संकुलं च
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० रामस्याश्मनगरदर्शनं नामाष्टषष्टितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0