भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.67

1.67.1

राम उवाच ॥।
वैष्णवं चापरत्नं तत्किमर्थं भवता करे ॥
न्यस्तं च तन्मे भगवंश्चापरत्नं च कीदृशम्

1.67.2

शङ्कर उवाच ॥
माया हि वैष्णवी राम यया संमोहिताः पुरा ॥
देवाश्च ऋषयश्चैव गत्वान्तः प्रणताः स्थिता

1.67.3

यजतां परमाधारं देवं कमलसंभवम् ॥
भूतभव्यभविष्यस्य प्रभुं लोकनमस्कृतः ॥

1.67.4

देवा ऊचुः ॥
वासुदेवस्य देवस्य महादेवस्य चाप्यथ ॥
अन्तरं ज्ञातुमिच्छामः कः कस्मादतिरिच्यते

1.67.5

शङ्कर उवाच ॥
एवमुक्तस्सुरैः सर्वैरृषिभिश्च पितामहैः ॥
विहस्योवाच तान्सर्वांस्तयोर्गत्वा परस्परम्

1.67.6

ब्रह्मोवाच ॥
जनयध्वं सुराः सर्वे विरोधमृषिभिस्सह ॥
विरोधे तु समुत्पन्ने तयोर्युद्धं उपस्थिते

1.67.7

ज्ञास्यध्वमन्तरं देवास्तयोर्नास्त्यत्र संशयः ॥
शङ्कर उवाच ॥
एवमुक्ताः सुराः सर्वे सार्धमृषिगणैस्तदा

1.67.8

आवयोर्जनयामासुर्विरोधं भृगुनन्दन ॥
विष्णोराधिक्यमन्विच्छंस्तस्य मायाविमोहिताः

1.67.9

कृतवानस्मि दैवेन देव वाक्येन विग्रहम् ॥
प्रभावदर्शनार्थाय त्वावयोर्विग्रहे तदा

1.67.1.67.10

आसन्नमभवद्युद्धं सर्वसत्त्वभयङ्करम् ॥
आवयोर्भृगुशार्दूल तदा युद्धे उपस्थिते

1.67.12

आजगामाथ तं देशं ब्रह्मा शुभचतुर्मुखः ॥
देवा ब्रह्मर्षयश्चैव तथा राजर्षयोऽमलाः ॥१ १ ॥
सर्वेषां समवेतानामावयोर्युद्धसंगरे ॥
उवाच वचनं ब्रह्मा सर्वलोकनमस्कृतः

1.67.13

ब्रह्मोवाच ॥
न कर्तव्यं जगन्नाथौ युद्धं परमदारुणम् ॥
युष्मद्युद्धेन सकलं नश्यतीदं जगत्त्रयम्

1.67.14

गृहीतं चापरत्नं यत्स्वयं देवेन चक्रिणा ॥
तदारोपयतां शूली शूलिचापं जनार्दनः

1.67.15

ज्ञास्यामि चान्तरं देवौ चापारोपणकर्मणा ॥
शङ्कर उवाच ॥
एवमुक्ते मम कराद्धनुर्जग्राह केशवः ॥
आरोपितुं न मे शक्तिः सर्वयत्नेन चाभवत्

1.67.16

ततश्च गतमोहेन मया ज्ञातो महेश्वरः ॥
ज्ञात्वा विसृष्टचापेन स्तुतश्च भगवांस्तदा

1.67.17

नमोऽस्तु ते देववराप्रमेय नमोऽस्तु ते सर्वगुणान्तराय ॥
नमोऽस्तु ते देवगणार्चिताय नमोऽस्तु ते सर्वगुणोत्तराय

1.67.18

उन्मेषमात्रेण तवाप्रमेय दिनं समग्रं प्रपितामहस्य ॥
निमेषमात्रेण निशा प्रदिष्टा यस्यां समादाय जगत्स शेते

1.67.19

न कारणं वेद्मि तवेश सृष्टौ संहारकार्यं च तथा न वेद्मि ॥
आद्यं न मध्यं न तथैव चान्तं त्वमेक ईशः पुरुषः पुराणः

1.67.1.67.20

सर्वेषु भूतेषु तथा स्थितस्त्वं सर्वाणि भूतानि तथा तवेश ॥
भूतान्तरस्थोऽपि न भूतसंस्थ आश्चर्यमेतन्मम देवदेव

1.67.21

भूतान्तरस्थोपि न भूतनाथः भूतार्जितैः कर्मभिराप्यसे त्वम् ॥
कर्माणि सर्वाणि जगत्त्रयस्य धर्मे सदा यन्महदद्भुतं तत्

1.67.22

गन्धः पृथिव्यां च रसोऽप्सु देव वायौ यथा स्पर्शगुणस्त्वदीयः ॥
रूपं तथाग्नौ गगने च शब्दो गुणा समग्रास्तव भूतसंघे

1.67.23

मनोगतस्त्वं च तथा वितर्को बुद्धौ गतस्त्वं च विनिश्चयोऽत्र ॥
चिद्रूपमात्मन्यथ देवदेव अव्यक्तसंस्थस्य गुणत्रयस्त्वम्

1.67.24

त्वमेव भूतानि च तद्गुणाश्च मूर्तेर्विभिन्नोसि न भूतभिन्नः ॥
तत्त्वानि सर्वाणि च तद्व्यतीतः त्वमेव देवः पुरुषः प्रदिष्टः

1.67.25

तवेच्छया स्यात्सकला त्रिलोकी तवेच्छया देव तथा विनश्येत् ॥
इत्थंविधस्यानघ कर्मणस्ते स्तुतिः कथं स्यात्परमस्य धाम्नः

1.67.26

एवं स्तुतो देववरो मयासावुवाच मां देवगणस्य मध्ये ॥
योऽहं स देवः परमेश्वरस्त्वं योऽहं स देवः प्रपितामहश्च

1.67.27

आश्रित्य मूर्तित्रितयं मयेदं कर्मत्रयं शङ्कर साध्यते वै ॥
उत्पत्तिनाशौ परिपालनं च कालत्रये शङ्कर देवकार्यात्

1.67.28

मूर्तिर्ममोग्रा जगतां तवेयं संहारकार्यार्थमुदीर्णदर्पा ॥
त्प्रभुर्भवः कारणकारणानां पूज्यश्च सर्वेश्वर सर्वदेवैः

1.67.29

ये त्वां नमस्यन्ति जगत्प्रधानं भक्तिं परा ये च वहन्ति तुभ्यम् ॥
भक्त्या च नित्यं तव पूजयन्ति स्थानं हि तेषां सुलभं मदीयम्

1.67.1.67.30

मदीयमेतद्भुवि चापरत्वं प्रदीयतां भार्गवनन्दनाय ॥
ऋचीकपुत्राय गुणाधिकाय तस्मात्समादास्यति तस्य पुत्रः

1.67.31

स तेन चापेन निहत्य शत्रून्कृत्वा च लघ्वीं वसुधां सुरेश ॥
तच्चापरत्नं भुवि राघवाय प्रदास्यते राम इति श्रुताय

1.67.32

कृत्वा स रामोपि हि तेन कर्म प्रदास्यते तद्वरुणाय चापम् ॥
तस्मात्समादास्यति फाल्गुनोऽपि देवार्थकार्यैकरतिर्महात्मा

1.67.33

स्वं चापरत्नं जनकाय देहि निमीतिनाम्ना भुवि शब्दिताय ॥
तेनापि चापेन स तत्प्रसूतो राजा महत्कर्म करिष्यतीति

1.67.34

...दुक्त्वा भगवान्महात्मा जगाम काष्ठां मनसस्त्वभीष्टाम् ॥
मया तथा ते भुवि चापरत्ने द्विजप्रधान क्षितिपेषु दत्ते

1.67.35

यद्वैप्णवं चापवरं पितुस्ते न्यस्तं करे वासुकितुल्यरूपम् ॥
तद्देवकार्येण विना न शक्यं केनाप्यधिज्य युधि राम कर्तुम्

1.67.36

अज्ञातवस्तुरचितं सुरकार्यदक्षं गोविन्दबाहुविटपाश्रयलब्धमानम् ॥
न्यस्तं पुरा पितृकरे तव युद्धशौण्ड चेत्थं मया हरिवचः प्रसमीक्ष्य राम

1.67.67

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० वैष्णवधनुःप्रादुर्भावो नाम सप्तषष्टितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc