भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.63

1.63.1

॥ शङ्कर उवाच ॥
पादपीठान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा ॥
निवेद्य दर्पणं देवे ततो मात्रां निवेदयेत

1.63.2

बीजैस्तु परिधानार्थं प्रयतः सुसमाहित ॥
तैलमुद्वर्तनं चैव चमसीं चाप्यनन्तरम्

1.63.3

ततो निष्पुंसनं कृत्वा देयान्याचमनानि च ॥
रोप्रं कालीयकं चैव तथा वै बीजपूरकम्

1.63.4

वर्णकं तगरं चैव प्रियङ्गुं गौरसर्षपाः ॥
सर्वौषधीर्वृक्षबीजं सर्वगन्धांश्च भार्गव

1.63.5

रत्नोदकं च विविधं स्नानीयमुदकं तथा ॥
स्नानीयं च ततो राम सुसुगन्धं च दापयेत्

1.63.6

ततः सुघर्मणार्थीयाः कलशा सुमनोहरा ॥
स्वलंकृता प्रदातव्या फलपल्लवपूरिताः

1.63.7

पुष्पगन्धयुता राम पवित्रेण पवित्रिताः ॥
शुभानां तीर्थसरितां राम पुण्यजलैः शुभैः॥

1.63.8

यथाविभवतस्तेषां बहुत्वमपि कारयेत् ॥
तस्मिन्काले तथा कार्ये क्ष्वेडितोत्कृष्टनिःस्वनम्

1.63.9

जयशब्दं च विपुलं शङ्खभेरीविमिश्रितम्॥
उदकग्रहणार्थीय ततो दद्याच्च शाटकम्

1.63.11

ततो राम प्रदातव्यं धौतवासायुगं शुभम् ॥
ततस्तु पूर्णकलशमासनानां प्रदक्षिणम् ॥1.63.१ ०॥
कृत्वा राम क्षिपेद्वेद्यां पुष्पपल्लवशोभितम्॥
ततस्त्वाचमनीयं च पूर्ववद्विनिवेदयेत्

1.63.12

मङ्गलानि च मुख्यानि ततो दद्याद्विचक्षणः ॥
सत्यासनस्थं देवेशमर्चयिष्याम्यतः परम्

1.63.13

स्नानासनानि त्यज्यन्तामित्येवं परिकीर्तयेत् ॥
मार्गत्रयादथारभ्य पादपीठान्तकं पुनः

1.63.14

कर्तव्यं सकलं कर्म त्वावाहनविसर्जनम् ॥
ततोऽनुलेपनं दद्याद्व्यजनेन च वीजयेत्

1.63.15

ततश्च वीटकं दद्यात्तथा कूर्चप्रसादनम् ॥
वस्त्रं विभूषणं चैव पुष्पाणि विविधानि च

1.63.16

वेष्टनं च स्रजं चैव कङ्कणं च मनोहरम् ॥
तथा रम्यं प्रतिसरं सुपिष्टं च तथाञ्जनम्

1.63.17

दर्पणं चोपचारं च प्रदीपं धूपमेव च ॥
तथैवाचमनीयं च गीतवाद्यस्वरं तथा

1.63.18

पुण्याहजयशब्दं च स्तोत्रोदीरणमेव च ॥
तथैवोपानहौ देये छत्रं चामरमेव च

1.63.19

यानं च वाहनं चैव पताकाश्च ध्वजानि च ॥
भोगानां पूरणार्थीयां ततो मात्रां निवेदयेत्

1.63.1.63.20

भोगानां सर्जनं कृत्वा यथाशक्तया द्विजोत्तम ॥
अविद्यमाना ये भोगा मात्रास्वेव प्रकल्पयेत्

1.63.21

एवमभ्यर्च्य देवेशं सर्वभोगैस्समाहितः ॥
अर्चयेन्मधुपर्केण पशुयागो न चेद्भवेत्

1.63.22

पशुयागाभिगमने मधुपर्को विधीयते ॥
अभ्यर्च्य मधुपर्केण ततस्त्वन्येन पूजयेत्

1.63.23

।
अत्रासनान्यपीच्छन्ति केचिदप्यपराणि तु ॥
आदौ स्थालीं च तेनाथ प्रदद्यादर्हणीं ततः

1.63.24

अन्नं हरितकोपेतं भक्ष्यं व्यञ्जनसंयुतम् ॥
निवेद्य दर्पणं दद्यात्तथा निष्पुंसनं ततः

1.63.27

कृत्वा ह्याचमनीयं तु मात्रां च तदनन्तरम् ॥
ततस्तु संविभागार्थं दातव्यं त्वर्हणं ततः ९॥
भूयो निवेदयेदन्नं पूर्ववत्सुसमाहितः ॥
दर्पणं च ततो दद्यात्पाद्यं निष्पुंसनं ततः ॥ २६ ॥।
दत्त्वा चाचमनीयं च शाटकं च निवेदयेत् ॥
हस्तनिष्पुंसनार्थाय मात्रां च तदनन्तरम्

1.63.28

निवेद्य पश्चात्ताम्बूलं देवं वह्नौ समर्चयेत् ॥
वह्निसंपूजनं कृत्वा कार्यकारिसमर्पणम्

1.63.29

अतिथीनां ततः कार्यं भर्तव्यानां च भार्गव ॥
ततोऽनुयागकाले तु पवित्रेण समुत्क्षिपेत्

1.63.1.63.30

आसनं भाजनं चैव सान्नं प्रयतमानसः ॥
उपविश्य ततः पश्चात्प्रभवेनाप्ययेन च

1.63.31

इदमग्नेतिमन्त्रेण प्राच्यां ग्रासाष्टकं भवेत् ॥
ततस्तु प्रयतो भूत्वा विशेद्देवगृहं ततः

1.63.32

इज्याकालानुसंधानं ततः कुर्यात्समाहितः ॥
कुर्यात्स्वन्यायकालस्य चोपादानमनन्तरम्

1.63.33

विसर्जनं ततः कुर्यात्प्रयतेनान्तरात्मना ॥
इज्याकालविधिस्त्वेष मया ते राम कीर्तितः

1.63.34

भगवान्वासुदेवस्तु देवस्संकर्षणस्ततः ॥
प्रद्युम्नश्चानिरुद्धश्च प्रभावोऽयमुदाहृतः

1.63.35

संकर्षणस्तथाव्यक्त आत्मा प्रद्युम्न उच्यते ॥
देवस्तत्त्वगतस्सर्वं अनिरुद्धो महायशाः

1.63.36

स नाथस्सर्वलोकानां सृष्टिसंहारकारकः॥
(पुरुषोऽपि तथा सत्य अच्युतश्च द्विजोत्तम

1.63.37

भगवान्वासुदेवश्च त्वव्ययोऽयमुदाहृतः ॥
चत्वार एते धर्मज्ञ वासुदेवाः प्रकीर्तिताः

1.63.38

भगवच्छब्दवाच्याश्च सर्वभूतभवोद्भवाः ॥
यः परः पुरुषो राम वासुदेवः प्रकीर्तितः

1.63.39

भगवच्छब्दवाच्यश्च सर्वभूतभवोद्भवः ॥
शेषतत्त्वं गतः सर्वमनिरुद्धो महायशाः

1.63.1.63.40

।
स नाथः सर्वलोकानां सृष्टिसंहारकारणः ॥ )
तदेतत्पठ्यते सूक्ते पौरुषे द्विजसत्तम

1.63.41

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
भुजिः प्रीतिस्तथैवार्चिः प्राणस्तर्पणमर्हणम्

1.63.42

निवेदनञ्चाचमनमष्टधा मन्त्रनिर्णयः ॥
मन्त्रेण चार्हणान्तेन प्रदद्यादर्हणं पुनः

1.63.43

तथैवाचमनान्तेन देयमाचमनं भवेत् ॥
प्राशनान्तेन मन्त्रेण तर्पणं विनिवेदयेत्

1.63.44

प्रतिग्रहेषु मात्रासु पादुकासु च दर्पणे ॥
छत्रे च वालव्यजने तालवृन्ते तथैव च

1.63.45

उपानत्सु तथा याने वाहनेषु भृगूत्तम ॥
अब्धिध्वजेषु च तथा पताकासु च कीर्तिताः

1.63.46

शेषाणां कामभोगानां नित्यं संकीर्तयेत्तु वै ॥
सर्वत्रप्रीणनं कार्यमेतावान्मन्त्रनिर्णयः

1.63.47

देवानां पादपीठानां कलशानां तथैव च ॥
वह्नेस्तथासनानां च चतुष्ट्वं विनिवर्तते

1.63.48

कलशासनवह्नीनां संकरं तु न कारयेत् ॥
तथैव पदपीठानां तेषां चिह्नं च कारयेत्

1.63.49

प्रापणे मधुपर्के च मात्रासु च भृगूत्तम ॥
सुमनस्तु सदा राम यत्नः कार्यः समर्चने

1.63.1.63.50

सौमनस्यं परं राम देवदेवे निवेदितम् ॥
यस्मात्तु वर्तते तस्मात्प्रोक्ताः सुमनसः सदा

1.63.51

मां त्रास्यति भयाद्घोरात्तस्मान्मात्रा प्रकीर्तिता ॥
प्रापयिष्यति च स्थाने नित्यं दुःखविवर्जिते

1.63.52

यस्मात्तस्माद्द्विजश्रेष्ठ प्रोक्तं प्रापणकं सदा ॥
परमं यत्परं राम मधुसंज्ञं तदुच्यते

1.63.53

तदाप्यते यदा तेन मधुपर्कस्तदा स्मृतः ॥
इज्याविधानोऽयमुदीरितस्ते समासतो भार्गववंशचन्द्र ॥
अतः परं राम निबोध पुण्यं स्वाध्यायकाले गदतो ममाद्य

1.63.63

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु इज्याका लविधिर्नाम त्रिषष्टितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc