विष्णुधर्मोत्तरपुराणम् · अध्याय 1.62
॥ शङ्कर उवाच ॥
भोगानामर्जनं कार्यं ततो राम स्वकर्मणा ॥
स्थिराणामस्थिराणां च यथावद्भृगुनन्दन
आसनाद्यास्तु ये भोगाः कालेनाप्यविनाशिनः ॥
स्थिरास्ते राम निर्दिष्टा परिशिष्टास्तथा चराः
पुष्पं पत्रं फलं मूलं तथा हरितकं शुभम् ॥
उदकं चार्चनीयं स्यात्तस्मिन्नहनि भार्गव्
उपादानाय निष्क्रान्ते कुटुम्बिन्यथ सत्वरम् ॥
कुटुम्बिनी सुप्रयाता धौतोपस्करभाजना
साध्यानां राम बीजानां पशोश्च सुकृतस्य च ॥
शाकानां व्यञ्जनानां च स्वर्जितानां गतेऽहनि
शक्तिं कुर्यात्सदा तस्य वह्निनोपदमेन च ॥
देशे शुचौ सुप्रयाता सुसहायगुणान्विता
सर्वं प्रक्षालितं कार्यं केशकीटादिवर्जितम् ॥
भूमावनुपलिप्तायां स्थाप्यं राम न किञ्चन
सर्वं साध्यमथान्नाद्यं गन्धवर्णरसान्वितम् ॥
नित्यं परिपचेद्राम नास्वाद्यं केनचित् क्वचित्
उपादानमथादाय प्रविश्य च गृही गृहम् ॥
शुचौ प्रक्षालितं सर्वं चोपादानमुपन्यसेत्
सुप्रक्षाल्य तथा भागं पवित्रेण समुत्क्षिपेत् ॥
एवं कृत्वा ह्युपादानं स्नायात्तु विधिना ततः
धौतवासा सुप्रयतः स्वाचान्तः सुसमाहितः ॥
प्रविश्य देवतावेश्म प्राग्वद्भृगुकुलोद्वह
नमस्कारादिकं सर्वं प्रयुञ्जीत समाहितः ॥
उपादानानुसंधानं त्वादानं चाप्यनन्तरम्
इज्याकालस्य धर्मज्ञ कुर्यात्प्रयतमानसः
आसन्नभोगः प्रयनान्तरात्मा कुर्यादथेज्यां रणचण्डवेग ॥
क्रोधं नियम्यात्महिते निविष्टस्तद्भावभावोपहितश्च नित्यम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शङ्करगीतासूपादानकरणो नाम द्विषष्टितमोऽध्याय
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0