विष्णुधर्मोत्तरपुराणम् · अध्याय 1.64
॥ शङ्कर उवाच ॥ ॥
आदौ देशे तथा राम प्रयतः सुसमाहितः ॥
स्वाध्यायेनार्चयेद्देवं प्रयतेनान्तरात्मना
तावत्कार्यं द्विजश्रेष्ठ स्वाध्यायं विधिवत्सदा ॥
यावदस्तं गतो राम सविता दीप्तदीधितिः
ततस्त्वस्तं गते सूर्ये स्वाचान्तः सुसमाहितः ॥
प्रविश्य देवतावेश्म नैराज्यं कर्म कारयेत्
पादपीठान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा ॥
अर्घ्यमाचमनीयं च दत्त्वा पाद्यं च भार्गव
स्थालीमक्लिन्ननैवेद्यादारभ्याभिहितं ततः ॥
कर्तव्यमनुयागान्तं प्रयतः सुसमाहितः
कृत्वानुयागं विधिवत्प्रविश्य सुरमन्दिरम् ॥
स्वाध्यायस्यानुसंधानं ततः कुर्यात्समाहितः
योगकालमुपादाय पश्चात्कुर्याद्विसर्जनम् ॥
कृत्वा विसर्जनं युक्तस्तिष्ठेद्याममतन्द्रितः
योगादनन्तरं स्वप्यादेवं युक्तस्य भार्गव॥
स्वयं कालोऽपि सततं योगमध्येऽभिधीयते
स्नानार्हकत्वं यदि नास्ति तस्य यामे विबुद्धस्तु तथा चतुर्थे ॥
युञ्जीत योगं रिपुकालभूतं योगेन बुद्धिः समुपैति सर्गम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० शङ्करगीतासु स्वाध्यायकालकथनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥।
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0