भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.61

1.61.1

राम उवाच ॥
तस्य मायाशरीरस्य विष्णोरमिततेजसः ॥
प्राप्नुवन्ति कथं स्थानं नित्यमक्षय्यमव्ययम्

1.61.2

शङ्कर उवाच ॥
अखण्डकारिणो राम विष्णोरमिततेजसः ॥
प्राप्नुवन्ति परं स्थानं नित्यमक्षय्यमव्ययम्

1.61.3

राम उवाच ॥
अखण्डकारी भगवन्कथं भवति शङ्कर ॥
एतन्मे संशयं ब्रूहि देवदेव वृषध्वज

1.61.4

शङ्कर उवाच ॥
पञ्चकालविधानज्ञस्तत्कर्मकरणे रतः ॥
अखण्डकारी भवति राम दानवनाशन

1.61.5

राम उवाच ॥
भगवन्पञ्च के कालाः कथं तेषां तथा विधिः ॥
एतन्मे देवदेवेश कौतूहलमपानुद

1.61.6

शङ्कर उवाच ॥
रामाभिगमनं पूर्वमुपादानमतः परम् ॥
इज्यास्वाध्यायकालौ च योगकालस्तथैव च

1.61.7

तेषां प्रत्येकशो वक्ष्ये विधिं ते भृगुनन्दन ॥
तन्निबोध महाभाग प्रयतेनान्तरात्मना

1.61.8

राम कल्ये समुत्थाय दन्तधावनपूर्वकम् ॥
स्नानं कृत्वा यथाशास्त्रं स्वाचान्तः सुसमाहितः

1.61.9

यश्चेह भगवन्मन्त्रं पठन्देवगृहं विशेत् ॥
प्रविन्द्याद्राम जानुभ्यां पाणिभ्यां शिरसा तथा

1.61.1.61.10

ॐकारं सनमस्कारं प्रयुज्य सुसमाहितः ॥
योगकालं तु सन्दध्यादुपादध्यादनन्तरम्

1.61.11

रामाभिगमकालं तु तत्र मन्त्रं तथार्पयेत्॥
भगवतो बलेनेति वीर्येणैतेन तेजसा

1.61.12

सुप्रकीर्तिततोयेन वेदिं प्रक्षालयेद्बुधः ॥
सौवर्णीं राजतीं ताम्रीं मृन्मयीमायसीं तथा

1.61.13

शिलां चन्दनजां वापि देवदारुभवामथा।
शिंशपाक्षोटसरलकदम्बार्जुनजामथा।

1.61.14

साल्वाश्वकर्णजां राम त्वायामेन तथैव च ॥
वामप्रवाणां प्रक्षाल्य पूर्णकुम्भान्नवांस्ततः

1.61.15

कल्पनीयास्तु कलशाश्चत्वारो भृगुनन्दन॥
सौवर्णा राजतास्ताम्रा अथवापि ह रीतिजाः

1.61.16

पाद्यमाचमनीयं च त्वर्घ्यं स्नानीयमेव च ॥
पाद्यात्पाद्यं तु दातव्यं स्नानीयात्स्नानमेव च

1.61.17

तथाप्याचमनीयाख्याद्देयमाचमनं भवेत् ॥
दानं प्रणयनं प्रीतिर्विसर्गं विस्तरं तथा

1.61.18

तर्पणं चार्हणं चैव त्वर्घ्यादेतानि कारयेत् ॥
द्वादशाक्षरकं मन्त्रं ततो जप्त्वा समाहितः

1.61.19

ततः पवित्रमन्त्रेण वेदिमभ्युक्षयेद्द्विज ॥
आत्मानं च तथा भोगान्कुर्यान्मार्गत्रयं ततः

1.61.1.61.20

विद्या ज्ञानं ततः कर्म ब्रह्मचक्रं तथैव च ॥
मार्गत्रयञ्च कर्तव्यं नामार्घ्यकलशान्सदा

1.61.21

पाणिमार्गं कूर्चमार्गं मधुमार्गं तथैव च ॥
उशीरमूलजं कूर्चं जीव न्नोपालसम्भवम्

1.61.22

जीवश्च मरणं चापि कर्तव्यं भृगुनन्दन ॥
प्रतिस्नानं ततः कार्यं समानानां क्रमाद्भवेत्

1.61.23

तथैव पादपीठानां प्रभावेन महाभुजः ॥
आसनान्यथ कार्याणि रत्नचित्राणि भार्गव

1.61.24

सौवर्णान्यथ रौप्याणि ताम्रशैलमयानि च ॥
ततस्त्वावाहनं कार्यं ततोऽभि गमनं ततः

1.61.29

नमस्कारस्ततः कार्यः प्रणीतेन ततः पुनः ॥
ब्रह्मश्वक्रामनौ मन्त्रं प्रभवेनापि येन च

1.61.27

ततो जप्त्वा महाभाग प्रणवेन निवेदयेत् ॥
आसनैरर्चयेद्देवं ततः प्रयतमानसः ॥ २६ ॥।
अर्घ्याभिरद्भिश्च ततो भोगैः सर्वैरनन्तरम् ॥
पाद्यप्रतिग्रहेणाथ पाद्याभिश्चाप्यनन्तरम् ॥

1.61.28

पादुकाभिस्ततो राम देवदेवं समर्चयेत् ॥
ततस्त्वाचमनीयार्थं देवदेवप्रतिग्रहम्

1.61.29

देवमाचमनीयञ्च पादपीठांस्तथैव च ॥
दन्तकाष्ठं ततो दद्याज्जिह्वानिर्लेखनं ततः

1.61.1.61.30

गण्डूषणं ततो दद्यान्मुखप्रक्षालनं तथा ॥
भूयस्त्वाचमनं देयं तर्पणं चाप्यन्न्तरम्

1.61.31

पुष्पं दीपमलङ्कारं धूपप्रकरमेव च ।
निवेद्य विधिवत्सर्वं ततः पश्चान्निवेदयेत्

1.61.33

सेव्यानि राम बीजानि त्वर्हणीयं ततः पुनः ॥
मधुपर्कं ततो दद्याद्दधि सर्पिस्तथा मधु ॥ ३२ ॥।
दध्यलाभे पयः कार्यं मध्वलाभे तथा गुडम् ॥
घृतप्रतिनिधिर्नास्ति तत्र यत्नात्समर्चयेत्

1.61.34

एकांगो वा समस्तो वा मधुपर्को विधीयते ॥
व्यंगं वर्ज्यं प्रयत्नेन नित्यमेव विजानता

1.61.39

दर्पणं तु ततो दद्यात्ततो निर्भर्त्सनं बुधः ॥
ततस्त्वाचमनीयं च विधिवत्सुसमाहितः

1.61.36

हस्तनिष्पुंसनार्थाय ततो दद्यात्तु गंधकम् ॥
ततः पशुं बुधः कुर्य्याद्यथावन्माधुपार्किकम्

1.61.37

माधुपार्किकमश्वत्थपत्रं वा विनिवेदयेत् ॥
घृतावद्यं ततो दद्यात्ताम्बूलञ्चाप्यनन्तरम्

1.61.38

मात्राञ्च दक्षिणार्थाय ब्राह्मणाय निवेदयेत् ॥
मंगलानि यथाशक्त्या ततो देवे निवेदयेत्

1.61.39

ततोऽभिगमकालन्तु संदद्यात्पुरुषोत्तमे॥
उपादानमथो दद्यात्कुर्याच्चैव विसर्जनम्

1.61.1.61.40

ततोऽग्निशरणं गत्वा वह्निं संतर्पदेद्बुधः ॥
ब्राह्मणानां यथाशक्ति दानं दद्यादनन्तरम्

1.61.41

एतन्मया ते कथितं समग्रं यथानुपूर्व्याभिगमस्य कालम् ॥ गच्छेदुपादानकृतप्रयत्नस्ततो यथावद्भृगुवंशचन्द्र

1.61.61

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतास्वभिगमकालो नामैकषष्टितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc