भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.60

1.60.1

॥ राम उवाच ॥
उपवासासमर्थानां किं स्यादेकमुपोषितम् ॥
महाफलं महादेव तत्समाचक्ष्व पृच्छतः

1.60.2

॥ शङ्कर उवाच ॥
या राम श्रवणोपेता द्वादशी महती च सा ॥
तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम्

1.60.3

प्राप्नोत्ययत्नाद्धर्मज्ञ द्वादशद्वादशीफलम् ॥
दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे

1.60.4

वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥
न दुर्गतिमवाप्नोति गतिमन्याञ्च विन्दति

1.60.5

अक्षय्यं स्थानमाप्नोति नाऽत्र कार्या विचारणा ॥
श्रवणद्वादशीयोगे बुधवारो भवेद्यदि

1.60.6

अत्यन्तं महती नाम द्वादशी सा प्रकीर्तिता ॥
स्नानं जप्यं तथा दानं होमं श्राद्धं सुरार्चनम्

1.60.7

सर्वमक्षय्यमाप्नोति तस्य भृगुकुलोद्वह ॥
तस्मिन्दिने तथा स्नातो यत्र क्वचन संगमे

1.60.8

स क्रतुस्नानजं पुण्यं फलमाप्नोत्यसंशयम् ॥
श्रवणे संगमाः सर्वे फलपुष्टिप्रदाः सदा

1.60.9

विशेषाद्द्वादशीयुक्ते बुधयुक्ते विशेषतः ॥
यथैव द्वादशी प्रोक्ता बुधश्रवणसंयुता

1.60.1.60.10

तृतीया च तथा ज्ञेया सर्वकामसमन्विता ॥
यथा तृतीया धर्मज्ञ तथा पञ्चदशी शुभा

1.60.11

त्र्यहःस्पृशेऽपि दिवसे चोपवासे महाफलः ॥
केशवाभ्यर्चने राम दानजप्यादिकेषु च

1.60.12

राम उवाच ॥
त्र्यहःस्पृग्दिवसः कीदृक्कदा भवति वा प्रभो ॥
तस्य मे संशयं ब्रूहि देवदेव वृषध्वज

1.60.13

शंकर उवाच ॥
दिवा विनिर्गता यत्र व्यतीता स्यात्तिथिर्द्विज ॥
रात्रि शेषे तथावेश्य भविष्या स्पृशती तिथिः

1.60.14

तिथित्रितयसंस्पर्शादहोरात्रे भृगूत्तम ॥
त्र्यहस्पृक्स विनिर्दिष्टः पुण्यः परमपावन

1.60.15

तत्रोपोष्य शिरःस्नातैः कर्त्तव्यं देवतार्चनम् ॥
जपं होमं तथा दानं कामयद्भिर्महत्फलम्

1.60.16

कर्मणां परिशेषाणामकर्म्मण्यं हि तद्दिनम् ॥
भोज्यं त्रिमधुरं राम ब्राह्मणाँस्तत्र भोजयेत्

1.60.37

महत्पूर्णा भवत्येका पौर्णमासी द्विजोत्तम ॥
प्रतिसंवत्सरं तस्यां सोपवासो जनार्दनम् ।

1.60.18

यः पूजयति धर्मज्ञ तेन संवत्सरं हरि ॥
पूजितः पौर्णमासीषु भवतीति ह निश्चयः

1.60.39

तस्यां दानं स्वल्पमपि महद्भवति भार्गव ॥
दानं जप्यं ततो होमो यश्चान्यत्सुकृतं भवेत्

1.60.1.60.20

राम उवाच ॥
संवत्सरे पौर्णमासी महत्पूर्वा वृषध्वज ॥
कथं ज्ञेया जगन्नाथ तन्ममाचक्ष्व पृच्छतः

1.60.21

शंकर उवाच ॥
यस्यां पूर्णेंदुना योगं यायाज्जीवो महाबलः ॥
पौर्णमासी तु सा ज्ञेया महत्पूर्वा द्विजोत्तम

1.60.22

आदित्यग्रहणे राम ग्रहणे वा निशाभृतः ॥
उपवासादवाप्नोति सर्वकिल्विषनाशनम्

1.60.23

स्नानं दानं तथा जप्यं चा क्षय्यं परिकीर्त्तितम् ॥
श्राद्धञ्च भार्गवश्रेष्ठ वह्निसंपूजनं तथा

1.60.24

राम उवाच ॥
नक्षत्रं देवदेवेश तिथिञ्चात्र विनिर्गताम् ॥
दृष्ट्वा यथावत्कर्तव्यं तिथिं शङ्कर जानता

1.60.25

शङ्कर उवाच ॥
सा तिथिस्तदहोरात्रं यस्यामेवोदितो रविः ॥
तया कर्माणि कुर्वीत ह्रासवृद्धिर्न कारणम्

1.60.26

शुक्लपक्षे तिथिर्ज्ञेया यस्यामभ्युदितो रविः ॥
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः

1.60.27

यश्च वा युज्यते राम निशीथे शशिना सह

1.60.60

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डेमार्कण्डेयवज्रसंवादे शङ्करगीतासूपवासविधिर्न्नाम षष्टितमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc