विष्णुधर्मोत्तरपुराणम् · अध्याय 1.59
श्रीराम उवाच॥
उपोषितेन येनेह यंयं कामं प्रयच्छति ॥
तदहं श्रोतुमिच्छामि गदतस्ते वृषध्वज
शंकर उवाच॥
पूजितः प्रयतैः स्नानैः सोपवासैर्दिने रवेः॥
संवत्सरं महाभाग दीर्घमायुः प्रयच्छति
सोमवारे महाभाग चारोग्यं संप्रयच्छति ॥
तथा भौमदिने राम वैश्वर्यं संप्रयच्छति
वासरे सोमपुत्रस्य सर्वान्कामान्प्रयच्छति ॥
अभीष्टाञ्च तथा विद्यामाखण्डलगुरोर्दिने
सौभाग्यमतुलं लोके भार्गवाह्नि प्रयच्छति ॥
तथा शनैश्चरस्याह्नि रिपून्सर्वान्व्यपोहति
कृत्तिकासु तथाऽभ्यर्च्य यज्ञान्प्राप्नोत्यनुत्तमान् ॥
प्राजापत्ये तथाऽभ्यर्च्य प्रजां प्राप्नोति शोभनाम्
विन्दते ब्रह्मवर्चस्यं मृगशीर्षेऽर्चयन्हरिम् ॥
रौद्रकर्मत्वमाप्नोति सिद्धिं रौद्रे समर्चयन्
च्युतः स्थानमवाप्नोति पूजयानः पुनर्वसौ ॥
पुष्ये संपूजितो देवः पुष्टिमग्र्यां प्रयच्छति
अश्लेषायां तथाऽभ्यर्च्य श्रियं विन्दति मानवः ॥
पितृप्रसादमाप्नोति पित्र्ये संपूजन्हरिम्
सौभाग्यं महदाप्नोति फाल्गुनीष्वर्चयंस्तथा ॥
तथैव चोत्तरायोगे गतिं विन्दति शोभनाम्
हस्ते संपूजयन्देवं गजान्प्राप्नोत्यनुत्तमान् ॥
चित्रासु च तथाऽभ्यर्च्य वस्त्राण्याप्नोति मानवः
आप्ये समर्चयन्देवं रत्नभागी भवेन्नरः ॥
तथोत्तरास्वाषाढासु कीर्तिं प्राप्नोति शाश्वतीम्
सर्वान्कामानवाप्नोति श्रवणेऽभ्यर्चयन्हरिम् ॥
धनिष्ठासु तथा वित्तमारोग्यं वारुणे तथा
आजे पशूनवाप्नोति गावश्च तदनन्तरम् ॥
पौष्णे शीलमवाप्नोति चाश्वान्प्राप्नोति चाऽश्विने
दीर्घजीवितमाप्नोति भरणीषु महाभुज ॥
प्रतिपद्यर्थमाप्नोति कुप्यं प्राप्नोत्यनुत्तमम
सर्वान्कामानवाप्नोनि तृतीयायां समर्चयन् ॥
पशूँश्चतुर्थ्यामाप्नोति पञ्चम्यां श्रियमुत्तमाम्
षष्ठयां प्राप्नोत्यथाऽऽरोग्यं सप्तम्यां सुहृदस्तथा ॥
अष्टम्यां च तथा भृत्यान्नवम्यां च तथा यशः
कर्मसिद्धिमवाप्नोति दशम्यां पूजयन्हरिम् ॥
एकादश्यां पूजयानः श्रीभागी स सदा भवेत
अभीष्टां गतिमाप्नोति द्वादश्यां पूजयन्हरिम् ॥
त्रयोदश्यां पूजयानो रूपं प्राप्नोत्यनुत्तमम्
न दुर्गतिमवाप्नोति पूजयानश्चतुर्दशीम ॥
सर्वान्कामानवाप्नोति पञ्चदश्यां महामुने
इत्येतदुक्तं तव मानवानां काम्यं फलं सम्यगुपोषितानाम् ॥
देवेश्वरं पूजयतां यथावत्परं पुराणं पुरुषं वरेण्यम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीशंकरगीतासूपवासफलो नामैकोनषष्टितमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0