विष्णुधर्मोत्तरपुराणम् · अध्याय 1.58
॥ शङ्कर उवाच ॥
अहिंसा सत्यवचनं दया भूतेष्वनुग्रहम् ॥
यस्यैतानि सदा राम तस्य तुष्यति केशवः
मातापितृगुरूणाञ्च यः सम्यगिह वर्त्तते ॥
वर्जको मधुमांसस्य तस्य तुष्यति केशवः
वराहमत्स्यमांसानि यो नात्ति भृगुनन्दन ॥
विरतो मद्यपानाच्च तस्य तुष्यति केशवः
न धारयति निर्माल्यमन्यदेवोद्धृतं तु यः ॥
भुंक्ते न चान्यनैवेद्यं तस्य तुष्यति केशवः
अवैष्णवे देवधृतं निर्माल्यं यः प्रयच्छति ॥
नैवेद्यं वा महाभाग तस्य तुष्यति केशवः
बिभर्ति मूर्ध्नि निर्माल्यं केशवार्चाधृतं तु यः॥
अनिवेद्य न चाश्नाति तस्य तुष्यति केशवः
परपीडाकरं कर्म यस्य नाऽस्ति महात्मनः॥
संविभागी च भूतानां तस्य तुष्यति केशवः
शृणुते सर्वधर्मांश्च सर्वान्देवान्नमस्यति ॥
अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः
तीर्थोपवाससेवी च द्विजातिगणसेवकः ॥
पूजको विष्णुभक्तानां तस्य तुष्यति केशवः
पञ्चरात्रविदो मुख्यान्यस्तु संपूजयेत्सदा ॥
देववद्भृगुशार्दूल तस्य तुष्यति केशवः
पितृदेवार्चनरतः स्वदारनिरतः सदा ॥
ऋतुकालाभिगामी च तस्य तुष्यति केशवः
नाम्नां सहस्रेण तथा यश्च गायति तन्मनाः ॥
सततं कल्यमुत्थाय तस्य तुष्यति केशवः
पौरुषेण च सूक्तेन जप्यहोमादिकं सदा॥
यः करोत्यमितप्रज्ञस्तस्य तुष्यति केशवः
मित्रस्वामिगुरुद्रोहो यस्य नाऽस्ति महात्मनः ॥
परदारधनेच्छा न तस्य तुष्यति केशवः
राजा शास्त्रोपदेशेन राज्यं यश्च प्रशासति ॥
राजधर्मरतिर्नित्यं तस्य तुष्यति केशवः
या तु नारी पतिप्राणा पतिभक्ता पतिव्रता ॥
तस्याः सुतोषो भगवाँस्तोषमायाति केशवः
अग्निहोत्रपरो विद्वान्यज्ञैर्नित्यमतन्द्रितः ॥
यस्तु तर्पयते देवांस्तस्य तुष्यति केशवः
स्ववर्णाश्रमधर्मस्थः पूजयन्मधुसूदनम् ॥
कालं नयति यो ब्रह्मँस्तस्य तुष्यति केशवः
सोपवासस्तु पक्षान्ते द्वादश्यां वा भृगूत्तम ॥
बौधेऽह्नि श्रवणर्क्षे वा तृतीयायान्तु वा पुनः ॥
सोपवासोऽर्चयति यस्तस्य तुष्यति केशवः
पुष्पं विना हरिं प्राप्य फली रत्नं क्षुमापि वा ॥
निवेदयति यः कृष्णे तस्य तुष्यति केशवः
कृष्णे पश्यति यत्सर्वं कृष्णं सर्वत्र पश्यति ॥
महात्मा बुद्धिसम्पन्नस्तस्य तुष्यति केशवः
तत्कथायाञ्च रमते तत्कथां यः करोति च ॥
तन्मनास्तद्गतप्राणस्तस्य तुष्यति केशवः
सर्वभूतहिते युक्तः सर्वभूतहिते रतः ॥
सर्वभूतानुकम्पी च तस्य तुष्यति केशवः
अप्रणम्य क्रियां कांचिद्यस्तु नाऽऽरभते हरिम् ॥
असंभिन्नार्थमर्यादस्तस्य तुष्यति केशवः
नामसंकीर्तनं नित्यं क्षुत प्रस्खलनादिषु ॥
यः करोति महाभागस्तस्य तुष्यति केशवः
नवं पत्रं फलं पुष्पं निवेद्य मधुसूदने ॥
पश्चाद्भुङ्क्ते स्वयं यश्च तस्य तुष्यति केशवः ॥ २६
आपद्यपि च कष्टायां देवेशशपथं नरः ॥
न करोति हि यो ब्रह्मंस्तस्य तुष्यति केशवः
देवादुद्धृत्य निर्माल्यं छायां नाक्रमते च यः ॥
धूपाग्निभस्म च तथा तस्य तुष्यति केशवः
दृष्ट्वा संपूजितामर्चा यश्च भक्त्याभिनन्दति ॥
स्वयं संपूजयेद्यस्तु तस्य तुष्यति केशवः
नित्यं संपूजयेद्यस्तु देवदेवस्य भक्तितः ॥
यथाशक्त्या महाभाग तस्य तुष्यति केशवः
न राम विविधैर्दानैर्न रत्नधनसंचयैः ॥
तोषमायाति देवेशो भक्त्या तुष्यति केशवः
दानैर्भृगुश्रेष्ठ बहुप्रकारैस्तीर्थोपवासव्रतदर्शनैश्च ॥
तथा न तोषं भगवान्प्रयाति भक्त्या यथा तद्गतमानसानाम्
एतावदुक्तं तव राम गुह्यं न देयमेतद्भुवि मत्सराणाम् ॥
न तर्कशास्त्राकुलमानसानां नाऽवैष्णवानां न च नास्तिकानाम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भक्तिलक्षणो नामाष्टपञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0