भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.57

1.57.1

॥ राम उवाच ॥ ॥
आराध्यते स भगवान्कर्मणा येन शङ्कर ॥
तत्समाचक्ष्व भगवन्सर्वसत्त्वसुखप्रदम्

1.57.2

॥ शङ्कर उवाच ॥
साधु राम महाभाग साधु दानवनाशन ॥
यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति

1.57.3

दिवसं दिवसार्धं वा मुहूर्त्तमेकमेव वा ॥
नाशश्चाऽशेषपापस्य भक्तिर्भवति केशवे

1.57.4

अनेकजन्मसाहस्रैर्नानायोन्यन्तरेषु च ॥
जन्तोः कल्मषहीनस्य भक्तिर्भवति केशवे ॥

1.57.5

नाऽधन्यः केशवं स्तौति नाऽधन्योर्चयति प्रभुम् ॥
नमत्यधन्यश्च हरिं नाऽधन्यो वेत्ति माधवम्

1.57.6

मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्तते ॥
सा बुद्धिस्तद्व्रतायैव सततं प्रतितिष्ठति

1.57.7

सा वाणी केशवं देवं या स्तौति भृगुनन्दन ॥
श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः

1.57.8

अवेहि धर्मज्ञ तथा तत्पूजाकरणात्करौ ॥
तदेकं सफलं कर्म केशवार्थाय यत्कृतम्

1.57.9

यतो मुख्यफलावाप्तौ करणं सप्रयोजनम् ॥
मनसा तेन किं कार्य्यं यन्न तिष्ठति केशवे

1.57.1.57.10

बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् ॥
रोगः सा रसना वाऽपि यया न स्तूयते हरिः

1.57.11

गर्तौ ब्रह्मव्रतौ कर्णौ याभ्यां तत्कर्म न श्रुतम् ॥
भारभूतैः करैः कार्यं कि तस्य नृपशोर्द्विज

1.57.12

यैर्न संपूजितो देवः शङ्खचक्रगदाधरः ॥
पादौ तौ सफलौ राम केशवालयगामिनौ

1.57.13

ते च नेत्रे महाभाग याभ्यां संदृश्यते हरिः ॥
किं तस्य चरणैः कार्यं कृतस्य निपुणैर्द्विज

1.57.14

याभ्यां न व्रजते जन्तुः केशवालयदर्शने ॥
जात्यन्धतुल्यं तं मन्ये पुरुषं पुरुषोत्तम

1.57.15

यो न पश्यति धर्मज्ञ केशवार्चां पुनःपुनः ॥
क्लेशसंजननं कर्म वृथा तद्भृगुनन्दन

1.57.16

केशवं प्रति यद्राम क्रियतेऽहनि सर्वदा ॥
पश्य केशवमाराध्य मोदमानं शचीपतिम्

1.57.18

यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् ॥
देवेन्द्रत्वमतिस्फीतं सर्वभूतिस्मितं पदम् ॥ १७ ऽ।
हरिभक्तिद्रुमात्पुष्पं राजसात्सात्त्विकं फलम् ॥
अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा

1.57.19

ईथित्वञ्च वशित्वञ्च यत्र कामावसायिता ॥
आराध्य केशवं देवं प्राप्यन्ते नाऽत्र संशयः

1.57.1.57.20

हतप्रत्यङ्गमातङ्गो रुधिरारुणभूतले ॥
संग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥

1.57.21

महाकटितटश्रोण्यः पीनोन्नतपयोधराः ॥
अकलङ्कशशाङ्काभवदना नीलमूर्धजाः

1.57.22

रमयन्ति नरं स्वप्ने देवरामा मनोहराः ॥
सकृद्येनार्चितो देवो हेलया वा नमस्कृतः

1.57.23

वेदवेदाङ्गवपुषां मुनीनां भावितात्मनाम् ॥
ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम्

1.57.24

रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् ॥
अन्यभावतया नाम्नः कीर्तनादपि भार्गव

1.57.25

रत्नपर्यङ्कशयिता महाभोगाश्च भोगिनः ॥
वीज्यन्ते सह रामाभिः केशवस्मरणादपि

1.57.26

सौगन्धिके वने रम्ये कैलासपर्वते द्विज ॥
यद्यक्षा विहरन्ति स्म तत्प्राहुः कुसुमं नतेः

1.57.27

रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु ॥
क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः

1.57.28

चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् ॥
धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम्

1.57.29

तस्मात्तवाऽहं वक्ष्यामि यद्यदाचरतः सदा ॥
पुरुषस्येह भगवान्सुतोषस्तुष्यते हरिः

1.57.1.57.30

पूज्यः स नित्यं वरदो महात्मा स्तव्यः स नित्यं जगदेकवन्द्यः ॥
ध्येयः स नित्यं सकलाघहर्ता चैतावदुक्तं तव राम गुह्यम्

1.57.57

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्कर गीतासु भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc