भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुधर्मोत्तरपुराणम् · अध्याय 1.56

1.56.1

राम उवाच ॥
तस्य देवातिदेवस्य विष्णोरमिततेजसः ॥
त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः

1.56.2

शङ्कर उवाच ॥
न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः ॥
प्राधान्यतस्ते वक्ष्यामि शृणुष्वैकमना द्विज

1.56.3

सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः ॥
वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा

1.56.4

दिशश्च विदिशश्चाऽपि तथा ये च दिगीश्वराः ॥
आदित्या वसवो रुद्रा भृगवोंऽगिरसस्तथा

1.56.5

साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च ॥
अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः

1.56.6

पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव ॥
तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च नेङ्गते

1.56.7

सच्चाऽसच्च महाभाग प्रकृतिर्विकृतिश्च यः ॥
कृमिकीटपतङ्गानां वयसां योनयस्तथा

1.56.9

विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः ॥
राक्षसाश्च पिशाचाश्च पितरः कालसंधयः । ।८ ॥
धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च ॥
यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम्

1.56.11

जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम् ॥
एकज्योतिः स मरुतां वसूनां स च पावकः॥1.56.१ ०॥
अहिर्बुध्न्यश्च रुद्राणां नादैवाश्विनयोस्तथा ॥
नारायणश्च साध्यानां भृगूणाञ्च तथा क्रतुः

1.56.12

आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा ॥
विश्वेषाञ्चैव देवानां रोचमानः स कीर्तितः

1.56.13

वासवः सर्वदेवानां ज्योतिषां च हुताशनः ॥
यमः संयमशीलानां विरूपाक्षः क्षमाभृताम्

1.56.14

यादसां वरुणश्चैव पवनः प्लवतां तथा ॥
धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथान्तरः

1.56.15

अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा ॥
ग्रहाणाञ्च तथा चन्द्रो नक्षत्राणाञ्च कृत्तिका

1.56.16

कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् ॥
कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश

1.56.17

स एव देवः सर्वात्मा ये च देवेश्वरास्तथा ॥
संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः

1.56.18

मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः ॥
शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ।

1.56.19

कारणानां वधः प्रोक्तो मुहूर्त्तानां तथाऽभिजित् ॥
पातालानां सुतलश्च समुद्राणां पयोदधिः

1.56.1.56.20

जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते ॥
मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम्

1.56.21

।
हिमालयः स्थावराणां जाह्नवी सरितां तथा ॥
पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा

1.56.22

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥
ऋषीणाञ्च भृगुर्देवो देवर्षीणां च नारदः

1.56.23

तथा ब्रह्मऋषीणाञ्च अंगिराः परिकीर्तितः ॥
विद्याधराणां सर्वेषां देवश्चित्रांगदस्तथा

1.56.24

कंबरः किन्नराणां च सर्पाणामथ वासुकिः ॥
प्रह्रादः सर्वदैत्यानां रम्भा चाप्सरसां तथा

1.56.25

उच्चैःश्रवसमश्वानां धेनूनां चैव कामधुक् ॥
ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः

1.56.26

आयुधानां तथा वज्रो नराणाञ्च नराधिपः ॥
क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि

1.56.27

धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम् ॥
धर्म्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम्

1.56.28

यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा ॥
वेदानां सामा वेदश्च अंशूनां ज्योतिषां पतिः

1.56.29

गायत्री सर्वमंत्राणां वाचः प्रवदतां तथा ॥
अक्षराणामकारश्च यन्त्राणाञ्च तथा धनुः

1.56.1.56.30

अध्यात्मविद्या विद्यानां कवीनामुशना कविः ॥
चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा

1.56.31

ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा ॥
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा

1.56.32

आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा ॥
स्कन्दः सेनाप्रणेतॄणां सदयश्च दया वताम्

1.56.33

जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः ॥
अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः

1.56.34

मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम् ॥
झषाणां मकरश्चैव द्यूतं छलयतां तथा

1.56.35

मानश्च सर्वगुह्यानां रत्नानां कनकं तथा ॥
धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने

1.56.36

वायुः स्पर्शगुणानां च खञ्च शब्दगुणस्तथा ॥
एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव

1.56.37

एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि ॥
देवाश्च ऋषयश्चैव ब्रह्मा चाऽहं च भार्गव

1.56.38

चक्षुषा यन्न पश्यंति विना ज्ञानगतिं द्विज ॥
ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः

1.56.39

यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च ॥
अन्नमन्नाद एवोक्तः स एव च गुणत्रयम्

1.56.1.56.40

गामाविश्य च भूतानि धारयत्योजसा विभुः ॥
पुष्णाति चौषधीः सर्वा सोमो भूत्वा रसात्मकः

1.56.41

प्राणिनां जठरस्थोऽग्निर्भुक्तपाची स भार्गव ॥
चेष्टाकृत्प्राणिनां ब्रह्मन्स च वायुः शरीरगः

1.56.42

यथादित्यगतं तेजो जगद्भासयतेऽखिलम् ॥
यच्चन्द्रमसि यच्चाऽग्नौ तत्तेजस्तत्र कीर्तितम्

1.56.43

सर्वस्य चाऽसौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनञ्च ॥
सर्वैश्च देवैश्च स एव वन्द्यो वेदान्तकृद्वेदकृदेव चाऽसौ

1.56.56

इति श्रीविप्णुधर्मोऽत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु विभूतिवर्णनं नाम षट्पञ्चाशत्तमो ऽध्यायः

मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc