विष्णुधर्मोत्तरपुराणम् · अध्याय 1.55
शङ्कर उवाच ॥
हते हिरण्यकशिपौ दानवे देवकण्टके ॥
हतशेषास्तु दैतेयाः पातालतलमाश्रिताः
पातालतलसंस्थेषु दानवेषु महायशाः ॥
प्रह्रादपौत्रो धर्मात्मा विरोचनसुतो बलिः
आराध्य तपसोग्रेण वरं लेभे पितामहात् ॥
अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ॥
वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्दितेः सुताः ॥
प्रहृष्टा दैत्यराजानं प्रह्रादानुमतेर्बलिम्
संप्राप्य दैत्यराज्यं तु बलेन चतुरंगिणा ॥
जित्वा देवेश्वरं शक्रमाजहाराऽमरावतीम्
स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः ॥
कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः
ब्रह्मणाऽभिहितो देवं जगाम शरणं हरिम् ॥
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम्
देवोऽप्यभयदानेन संयोज्य बलसूदनम् ॥
उवाच वचनं काले मेघगम्भीरया गिरा
श्रीभगवानुवाच॥
गच्छ शक्र भविष्यामि त्राता ते बलसूदन ॥
देवरूपधरो भूत्वा वञ्चयिष्यामि तं बलिम्
शङ्कर उवाच ॥
एवमुक्तस्तदा शक्रः प्रययौ कश्यपाश्रमम्॥
आदिदेशाऽदित्तेर्गर्भं चांशेनाऽथ च सर्वदा ॥1.55.१ ०॥
गर्भस्थ एव तेजांसि दानवेभ्यः स आददे ॥
ततः कालेन सुषुवे अदितिर्वामनाकृतिम्
यस्मिञ्जाते सुरगणाः प्रहर्षमतुलं गताः ॥
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः
एतस्मिन्नेव काले तु हयमेधाय दीक्षितः ॥
बलिर्दैत्यपतिः श्रीमान्स्पालिग्राममुपाश्रितः
वामस्कन्धे तमादाय तस्य यज्ञे बृहस्पतिः ॥
अनयद्भृगुशार्दूल नूनं तस्यैव मायया
यज्ञवाटं स संप्राप्य यज्ञं तुष्टाव वामनः ॥
आत्मानमात्मना ब्रह्मन्भस्मच्छन्न इवाऽनलः
प्रवेशयामास च तं बलिर्धर्मभृतां वरः ॥
ददर्श च महाभागं वामनं सुमनोहरम्
संयुक्तसर्वावयवैः पीनैः संक्षिप्तपर्वभिः ॥
कृष्णाजिनजटादण्डकमण्डलुविराजितम् ।
विक्रमिष्यन्यथा व्याघ्रो लीयति स्म स्वविग्रहे ॥
विक्रमिष्यँस्तथैवोर्वीं लीनगात्रः स्वविग्रहे
एतन्मिन्नेव काले तु हयमेधाय दीक्षितः ॥
तस्मात्तु प्रार्थयद्राजन्देहि मह्यं क्रमत्रयम्
एवमुक्तस्तु देवेन बलिर्दैत्यगणाधिपः ॥
प्रददावुदकं तस्य पावयस्वेति चाब्रवीत्
अन्यच्च यदभीष्टं ते तद्गृहाण द्विजोत्तम ॥
प्रतिजग्राह च जलं प्रवात्येव तदा हरिः
उदङ्मुखेर्दैत्यवरैर्वीक्ष्यमाण इवाम्बुदः ॥
आक्रमत्तु हरिर्लोकान्दानवाः शस्त्रपाणयः
अभिद्रवन्ति वेगेन नानवक्त्रशिरोधराः ॥
गरुडाननाः खड्गमुखा मयूरवदनास्तथा
घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवा. ॥
आखुदर्दुरवक्त्राश्च घोर वृकमुखास्तथा
मार्जारशशवक्त्राश्च हंसकाकाननास्तथा ॥
गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः
सिंहव्याघ्रशृगालानां द्वीपिवानरपक्षिणाम् ॥
हस्त्यश्वगोखरोष्ट्राणां भुजगानां समाननाः
प्रतिग्रहजलं प्राप्य व्यवर्धत तदा हरिः ॥
उदङ्मुखैर्देवगणैरीक्ष्यमाण इवाम्बुदः
विक्रमन्तं हरिं लोकान्दानवाः शस्त्रपाणयः ॥
मत्स्यकच्छपवक्त्राणां दर्दुराणां समाननाः
स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा ॥
पिङ्गलाक्षो विवृत्तास्या नानाबाहुशिरोधराः
स्थूलाग्रनासाश्चिपिटा महाहनुकपालिनः ॥
चीनांशुकोत्तरासंगाः केचित्कृष्णाजिनाम्बराः
भुजङ्गाभरणाश्चान्ये केचिन्मुकुटभूषिताः ॥
सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः
धनुर्बाणधराश्चाऽन्ये तथा तोमरपाणयः ॥
खड्गचर्मधराश्चाऽन्ये तथा परिघपाणयः
शतघ्नीचक्रहस्ताश्च गदामुशलपाणयः ॥
अश्मयन्त्रायुधोपेता भिण्डिपालायुधास्तथा
शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥
महावृक्षप्रवहणा महापर्वतयोधिनः
क्रममाणं हृषीकेशमुपावर्त्तन्त सर्वशः ॥
स तान्ममर्द सर्वात्मा तन्मुखान्दैत्यदानवान्
सरसीव महापद्मान्महाहस्तीव दानवान् ॥
प्रमथ्य सर्वान्दैतेयान्हस्तपादतलैस्ततः
रूपं कृत्वा महाभीममाजहाराऽऽशु मेदिनीम्॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे
परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ ॥
ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ
ततोपि क्रममाणस्य पद्भ्यां देवौ व्यवस्थितौ ॥
जित्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान्
ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥
स्वं रूपञ्च तथाऽऽसाद्य दानवेन्द्रमभाषत
श्रीभगवानुवाच ॥
यज्ञवाटं त्वदीयेऽस्मिन्सालिग्रामे महासुर ॥
मया निविष्टपादेन मापितेयं वसुन्धरा
प्रथमं तु पदं जातं नौर्बन्धशिखरे मम ॥
द्वितीयं मेरुशिखरे तृतीयं नाऽभवत्क्वचित्
तन्मे वरय दैत्येन्द्र यन्मयाप्तं प्रतिग्रहम्॥
बलिरुवाच ॥
यावती वसुधा देव त्वयैव परिनिर्मिता
तावती ते न संपूर्णा देवदेव क्रमत्रयम् ॥
न कृतं यत्त्वया देव कुतस्तन्मे महेश्वर
न च तद्विद्यते देव तथैवाऽन्यस्य कस्यचित् ॥
श्रीभगवानुवाच ॥
न मे त्वयापूर्यते मे दानवेन्द्र यथाश्रुतम्
सुतलं नाम पातालं वस तत्र सुसंयतः ॥
मयैव निर्मिता तत्र मनसा शोभना पुरी
ज्ञातिभिः सहधर्मिष्ठैर्वस तत्र यथासुखम्॥
तत्र त्वं भोक्ष्यसे भोगान्विशिष्टान्बलसूदनात्
अवाप्स्यसि तथा भोगाँलोकाद्विधिविवर्जितान्॥
प्राकाम्ययुक्तश्च तथा लोकेषु विहरिष्यसि
मन्वन्तरे द्वितीये च महेन्द्रत्वं करिष्यसि ॥
तेजसा च मदीयेन शक्रत्वे योक्ष्यसे बले
तव शत्रुगणान्सर्वान्घातयिष्याम्यहं तदा ॥
ब्रह्मण्यस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः
तपस्वी दानशीलश्च वेदवेदांगपारगः ॥
तस्माद्यशोभिवृद्ध्यर्थं मया त्वमभिसन्धितः
देवराजाधिकान्भोगान्पातालस्थोऽपि भोक्ष्यसे ॥
सन्निधानश्च तत्राहं करिष्याम्यसुराधिप
मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि॥
शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिकेऽन्तरे
सर्वसंधिविनिर्मुक्तो मयैव सह रंस्यसे
शङ्कर उवाच ॥
इत्येवमुक्त्वा सजलाम्बुदाभः प्रतप्तचामीकरधौतवस्त्रः ॥
अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम्
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शंकरगीतासु वामन प्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0