विष्णुधर्मोत्तरपुराणम् · अध्याय 1.54
॥ शङ्कर उवाच ॥
हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः ॥
हिरण्यकशिपुर्नाम चकारोग्रं महत्तपः
दशवर्षसहस्राणि दशवर्षशतानि च ॥
जपोपवासनिरतः स्नानमौनाश्रितव्रतः
तपःशमदमाभ्यां च ब्रह्मचर्येण चाऽनघ ॥
ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥
विमानेनाऽर्कवर्णेन हंसयुक्तेन भास्वता ॥
आदित्यैस्सहितः साध्यैस्सहितो मरुदश्विभिः
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ॥
दिग्भिर्विदिग्भिश्च तथा खेचरैश्च महाग्रहैः
निम्नगाभिः समुद्रैश्च मासर्त्वयनसंधिभिः ॥
नक्षत्रैश्च मुहूर्त्तैश्च कालस्यावयवैस्तथा
देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा ॥
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः
चराचरगुरुः श्रीमान्वृतः सर्वेर्दिवौकसैः ॥
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्
ब्रह्मोवाच ॥ प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत ॥
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि
हिरण्यकशिपुरुवाच ॥ न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ॥
न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम
ऋषयोपि न मां शापं क्रुद्धा लोकपितामह ॥
शपेयुस्तपसा युक्ता वरमेतद्वृणोम्यहम्
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च ॥
न शुष्केन न चाऽऽर्द्रेण वधं मे स्यात्कथञ्चन
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ॥
सलिलं चाऽन्तरिक्षञ्च नक्षत्राणि दिशो दश
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ॥
धनदश्च तथाध्यक्षो यक्षः किंपुरुषाधिपः
ब्रह्मोवाच ॥
एते दिव्यवरास्तात मया दत्तास्तवाद्भुताः ॥
सर्वान्कामानिमाँस्तस्मात्प्राप्स्यसि त्वं न संशयः
शङ्कर उवाच ॥
एवमुक्त्वा स भगवाञ्जगामाऽऽकाशमेव हि ॥
वैराजं देवसदनं महर्षिगणसेवितम्
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ॥
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥
देवा ऊचुः ॥
वरेणाऽनेन भगवान्वधिष्यति स नोऽसुरः ॥
तन्नः प्रसीद भगवन्वधोऽप्यस्य विचिन्त्यताम्
भगवान्सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः ॥
स्रष्टा च हव्यकव्यानां चाऽव्यक्तः प्रकृतिर्ध्रुवः
शङ्कर उवाच ॥
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ॥
प्रोवाच वरदो वाक्यं सर्वान्देवगणांस्ततः
ब्रह्मोवाच ॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ॥
ततस्तस्य वधं विष्णुस्तपसोऽन्ते करिष्यति
शङ्कर उवाच ॥
एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ॥
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः
लघुमात्रे वरे तस्मिन्सर्वाः सोऽबाधत प्रजाः ॥
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः
आश्रमेषु महात्मानो मुनीन्द्रान्संशितव्रतान् ॥
सत्यधर्मरतान्दान्तान्दुराधर्षोभवंस्तु सः
देवास्त्रिभुवस्थांश्च पराजित्य महासुरः॥ ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः
यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि ॥
याज्ञियान्कृतवान्दैत्यानयाज्ञेयाश्च देवता
आदित्या वसवो रुद्रा विश्वेदेवास्तथाऽश्विनौ ॥
भृगवोऽङ्गिरसः साध्या मरुतश्च सवासवाः
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ॥
देवं ब्रह्ममयं विष्णुं ब्रह्मभूतं सनातनम्
भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् ॥
नारायणं विभुं देवाः शरण्यं शरणं गताः
देवा ऊचुः॥
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ॥
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम
प्रोत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयंकर ॥
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः
श्रीभगवानुवाच ॥
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ॥
तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम्
एषोऽमुं सबलं दैत्यं वरदानेन दर्पितम्॥
अवध्यममरेंद्राणां दानवेन्द्रं निहन्म्यहम्
शङ्कर उवाच ॥
एवमुक्त्वा स भगवान्विसृज्य त्रिदिवेश्वरान् ॥
नारसिंहं वपुश्चक्र सहस्रांशुसमप्रभम्
प्रांशुं कनकशैलाभं ज्वालापुञ्जविभूषितम् ॥
दैत्यसैन्यमहाम्भोधि वडवानलवर्चसम्
सन्ध्यानुरक्तमेघाभं नीलवाससमच्युतम् ॥
देवदारुवनच्छन्नं यथा मेरुं महागिरिम्
संपूर्णवक्त्रदशनैः शशाङ्कशकलोपमैः ॥
पूर्णं मुक्ताफलैः शुभ्रैः समुद्रमिव काञ्चनम्
नखैर्विद्रुमसंकाशैर्विराजितकरद्वयम् ॥
दैत्यनाथक्षयकरैः क्रोधस्यैव यथाङ्कुरैः
सटाभारं सकुटिलं वह्निज्वालाग्रपिंगलम् ॥
धारयन्भाति सर्वात्मा दावानलमिवाचलः
दृश्यादृश्यमुखे तस्य जिह्वाभ्युदितचञ्चला ॥
प्रलयान्ताम्बुदस्येव चञ्चला तु तडिल्लता
आवर्त्तिभिर्लोमघनैर्व्याप्तं विग्रहमूर्जितम् ॥
महाकटितटस्कन्धमलातप्रतिमेक्षणम्
कल्पान्तमेघनिर्घोषज्वालानिःश्वासमारुतम् ॥
दुर्निरीक्ष्यं दुराधर्षं वज्रमध्यविभीषणम्
कृत्वा मूर्तिं नृसिंहस्य दानवेंद्रसभां ययौ ॥
ताम्बभञ्ज तु वेगेन दैत्यानां भयवर्धनः
भज्यमानां सभां दृष्ट्वा नृसिंहेन महात्मना ॥
हिरण्यकशिपू राजा दानवान्समचोदयत्
सत्त्वजातमिदं घोरं चापूर्वं पुनरागतम् ॥
घातयध्वं दुराधर्षं येन मे नाशिता सभा
तस्य तद्वचनं श्रुत्वा दैत्याः शतसहस्रशः ॥
आयुधैर्विविधैर्जघ्नुर्देवदेवं जनार्दनम्
नानायुधसहस्राणि तस्य गात्रेषु भार्गव ॥
विशीर्णान्येव दृश्यन्ते मृल्लोष्टानीव पर्वते
दैत्यायुधानां वैफल्यं कृत्वा हत्वा च दानवान् ॥
करपादप्रहारैश्च शतशोऽथ सहस्रशः
जग्राह वेगाद्दैतेयं हिरण्यकशिपुं ततः ॥
नृसिंहहेतोर्विक्रान्तमस्त्रवर्षमहाम्बुदम्
वेगेनोत्संगमारोप्य कदलीदललीलया ॥
दारयामास दैत्येशं वक्षत्स्थलमहागिरिम्
कृत्वा तमसुभिर्हीनं दैत्येशं केशवः स्वयम् ॥
असुराणां विनाशं च क्रुद्धो नरहरिर्व्यधात्
हत्वाऽसुरं शोणितबिन्दुचित्रं संपूज्य देवाः सह वासवेन ॥
जग्मुस्स्वधिष्ण्यानि मुदा समेता देवोप्यथान्तर्हितमूर्तिरास
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः
मूल पाठ: viṣṇudharmottarapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0